Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 34
________________ मग पादलिप्ताचार्यप्रबन्धः। मठमायान्ति । तथा दृष्ट्वा लोको बौद्धभक्तो भवन्नास्ते । यदुचितं तत्कुरुध्वम् । तदवधार्यार्यखपटदेवा भृगुपुरमगुः। प्रच्छन्नाः स्थिताः। बौद्धानां पात्राणि अन्नपूर्णान्यागच्छन्ति । शिलाविकुर्वणेन खे बभक्षुः । पतन्ति पात्रेभ्यः शालि-मण्डक-मोदकाचंशाश्च लोकस्य मस्तकेषु । चेल्लकः सूरीणां समागमनं सम्भाव्य भीतो नष्टो वराकः । सूरयः ससङ्घा बौद्धानां प्रासादमगमन् । बुद्ध उपलमूर्तिः सम्मुख उत्थितः । जय जय महर्षिकुलशेखर !-इत्यादि स्तुतीरतनिष्ट । पुनर्जिनपति-5 शासनस्य प्रभावः प्रोद्दिदीपे । आर्यखपटा अन्यत्र विजहुः। ६१६) इतश्च पाटलीपुत्रंपत्तने दाहडो नाम नृपो विप्रभक्तो जैनयतीनाह्वयत्, अवोचञ्चविप्रान्नमस्कुरुत इति । जैनैरुक्तम्-राजन् ! नेदं युक्तम्, गृहिणोऽमी, वयं च यतयो वन्द्याः । दाहडेनोक्तम्-न वन्दध्वे चेच्छिरांसि वः कृन्तामि। जैनयतिभिः सप्तदिनी याचिता। राज्ञा दत्ता । दैवादार्यखपटशिष्य उपाध्यायो महेन्द्रनामा भृगुकच्छात्तत्रायातः। तदने यतिभिः 10 खदुःखं कथितम् । तेन सन्धीरितास्ते । प्रातः करवीरकम्बे द्वे रक्तश्वेते लात्वा महेन्द्र उपदाहड दिऽष्टमदिनप्रत्यूषं वर्तते । राज्ञोक्तम्-श्वेताम्बरा विप्रप्रणामायाहयन्ताम् । आइतार अग्रे ऊर्खास्तस्थुः। महेन्द्रेण रक्तां कम्बां वाहयित्वा राजा भाषित:-किं प्रथममितो नमामा, 'किं वा इतो नमामः ? इति । एतद्भणनसमकालमेव विप्राणां मस्तकास्युटित्वा ताडफलवद्भूमौ पेतुः । तद् दृष्ट्वा भीतो राजा चाटूनि करोति स्म-पुन वमविनयमाचरिष्यामि-इति उवाच । 15 तदा महेन्द्रेण पठितम्१६. कः कण्ठीरवकण्ठकेसरसँटाभारं स्पृशत्यहिणा ?, कः कुन्तेन शितेन नेत्रकुहरे कण्डूयनं काङ्क्षति १ । ___कः संनियति पन्नगेश्वरशिरोरत्नावतंसश्रिये ?, यः श्वेताम्बरशासनस्य कुरुते वन्यस्य निन्दामिमाम् ॥ ४ ॥ विशेषतो भीतो नृपो दर्शनस्य पादेष्वलगीत् । तदा महेन्द्रेण धवला करवीरकम्या दिग्द्रयेऽपि वाहिता । पुनर्विप्राणां मस्तकाः स्वस्थानेषु ससञ्जः । प्रतिबोधितो राजा विप्रलोकश्च । एवं प्रभा-20 वनाऽभूत् । [*भुवनोऽपि बौद्धान्परिहृत्य स्वगुरूणां मीलितः। तेन खगुरवः क्षामिताः। तैर्गुरुभिस्तस्य भुवनस्य बहुमानं दत्तम् । पश्चाद्भुवनो गुणवान् , विनयवान् , चारित्रवान् , श्रुतवान् , जातः ततः] आर्यखपटाः सूरिपदं भुवनाय दत्त्वाऽनशनेन द्यामारुरुहुः। .. १७. जीवितव्यं च मृत्युश्च द्वयमाराधयन्ति ये । त एव पुरुषाः शेषः पशुरेष जनः पुनः ॥ ५॥ ॥ इति महाप्रभावकश्रीखपटाचार्यप्रबन्धः॥४॥ 25 ५. अथ पादलिप्ताचार्यप्रबन्धः । - ६१७) कोशलानाम नगरी तत्र विजयवर्मा राजा नयविक्रमसागरः । फुल्लनामा श्रेष्ठी जैनः प्राज्ञो दानभटः । तस्य प्रतिमाणा नाम पत्नी रूपशीलसत्यनिधिवसुधा । सा निष्पुत्रत्वेन खिचते। केनाप्युक्तम्-वैरोव्यां देवीमाराधय । तपोनियमसंयमैस्तयाऽऽराधिता सा प्रत्यक्षीवभूव; 1AB 'आर्य' नास्ति। 2 A बभक्षुः। 3 BD प्राहिदीपे; P प्रदिदीपे। 4 AB .पुरे पत्तने; D पुत्रे पत्तने । 5 BP तदाष्टमः। 6 A ह्वयन्ताम् । 7 BD नास्तीदं द्वितीयं वाक्यम् । 8 P महेन्द्रेणोक्तम् । 9 A केसरि०। 10 AB 'दिर' नास्ति । * एषः कोष्ठकगतः पाठः P विनाऽन्यत्र नोपलभ्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176