________________
मग
पादलिप्ताचार्यप्रबन्धः। मठमायान्ति । तथा दृष्ट्वा लोको बौद्धभक्तो भवन्नास्ते । यदुचितं तत्कुरुध्वम् । तदवधार्यार्यखपटदेवा भृगुपुरमगुः। प्रच्छन्नाः स्थिताः। बौद्धानां पात्राणि अन्नपूर्णान्यागच्छन्ति । शिलाविकुर्वणेन खे बभक्षुः । पतन्ति पात्रेभ्यः शालि-मण्डक-मोदकाचंशाश्च लोकस्य मस्तकेषु । चेल्लकः सूरीणां समागमनं सम्भाव्य भीतो नष्टो वराकः । सूरयः ससङ्घा बौद्धानां प्रासादमगमन् । बुद्ध उपलमूर्तिः सम्मुख उत्थितः । जय जय महर्षिकुलशेखर !-इत्यादि स्तुतीरतनिष्ट । पुनर्जिनपति-5 शासनस्य प्रभावः प्रोद्दिदीपे । आर्यखपटा अन्यत्र विजहुः।
६१६) इतश्च पाटलीपुत्रंपत्तने दाहडो नाम नृपो विप्रभक्तो जैनयतीनाह्वयत्, अवोचञ्चविप्रान्नमस्कुरुत इति । जैनैरुक्तम्-राजन् ! नेदं युक्तम्, गृहिणोऽमी, वयं च यतयो वन्द्याः । दाहडेनोक्तम्-न वन्दध्वे चेच्छिरांसि वः कृन्तामि। जैनयतिभिः सप्तदिनी याचिता। राज्ञा दत्ता । दैवादार्यखपटशिष्य उपाध्यायो महेन्द्रनामा भृगुकच्छात्तत्रायातः। तदने यतिभिः 10 खदुःखं कथितम् । तेन सन्धीरितास्ते । प्रातः करवीरकम्बे द्वे रक्तश्वेते लात्वा महेन्द्र उपदाहड
दिऽष्टमदिनप्रत्यूषं वर्तते । राज्ञोक्तम्-श्वेताम्बरा विप्रप्रणामायाहयन्ताम् । आइतार अग्रे ऊर्खास्तस्थुः। महेन्द्रेण रक्तां कम्बां वाहयित्वा राजा भाषित:-किं प्रथममितो नमामा, 'किं वा इतो नमामः ? इति । एतद्भणनसमकालमेव विप्राणां मस्तकास्युटित्वा ताडफलवद्भूमौ पेतुः । तद् दृष्ट्वा भीतो राजा चाटूनि करोति स्म-पुन वमविनयमाचरिष्यामि-इति उवाच । 15 तदा महेन्द्रेण पठितम्१६. कः कण्ठीरवकण्ठकेसरसँटाभारं स्पृशत्यहिणा ?, कः कुन्तेन शितेन नेत्रकुहरे कण्डूयनं काङ्क्षति १ ।
___कः संनियति पन्नगेश्वरशिरोरत्नावतंसश्रिये ?, यः श्वेताम्बरशासनस्य कुरुते वन्यस्य निन्दामिमाम् ॥ ४ ॥ विशेषतो भीतो नृपो दर्शनस्य पादेष्वलगीत् । तदा महेन्द्रेण धवला करवीरकम्या दिग्द्रयेऽपि वाहिता । पुनर्विप्राणां मस्तकाः स्वस्थानेषु ससञ्जः । प्रतिबोधितो राजा विप्रलोकश्च । एवं प्रभा-20 वनाऽभूत् । [*भुवनोऽपि बौद्धान्परिहृत्य स्वगुरूणां मीलितः। तेन खगुरवः क्षामिताः। तैर्गुरुभिस्तस्य भुवनस्य बहुमानं दत्तम् । पश्चाद्भुवनो गुणवान् , विनयवान् , चारित्रवान् , श्रुतवान् , जातः ततः] आर्यखपटाः सूरिपदं भुवनाय दत्त्वाऽनशनेन द्यामारुरुहुः। .. १७. जीवितव्यं च मृत्युश्च द्वयमाराधयन्ति ये । त एव पुरुषाः शेषः पशुरेष जनः पुनः ॥ ५॥ ॥ इति महाप्रभावकश्रीखपटाचार्यप्रबन्धः॥४॥
25
५. अथ पादलिप्ताचार्यप्रबन्धः । - ६१७) कोशलानाम नगरी तत्र विजयवर्मा राजा नयविक्रमसागरः । फुल्लनामा श्रेष्ठी जैनः प्राज्ञो दानभटः । तस्य प्रतिमाणा नाम पत्नी रूपशीलसत्यनिधिवसुधा । सा निष्पुत्रत्वेन खिचते। केनाप्युक्तम्-वैरोव्यां देवीमाराधय । तपोनियमसंयमैस्तयाऽऽराधिता सा प्रत्यक्षीवभूव;
1AB 'आर्य' नास्ति। 2 A बभक्षुः। 3 BD प्राहिदीपे; P प्रदिदीपे। 4 AB .पुरे पत्तने; D पुत्रे पत्तने । 5 BP तदाष्टमः। 6 A ह्वयन्ताम् । 7 BD नास्तीदं द्वितीयं वाक्यम् । 8 P महेन्द्रेणोक्तम् । 9 A केसरि०। 10 AB 'दिर' नास्ति । * एषः कोष्ठकगतः पाठः P विनाऽन्यत्र नोपलभ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org