________________
१०
प्रबन्धकोशे
कारिताः। भुवनमुनिपञ्चाननतर्कचपेटाताडिताः फेरण्डा इव तूष्णीकाः समजनिषत । राजादिभिघोषितो जयः श्वेताम्बरशासनस्य । वर्तन्ते चैत्येषु महोत्सवाः । बौद्धास्तु हिमहतपनवनाभा जाताः । तं बौद्धापमानं श्रुत्वा बौद्धाचार्यों गुडशस्त्रपुराद् वृद्धकराख्यो महातार्किको भृगुपुरमगात् । राजानमवोचत्-श्वेताम्बरैः सह मां वादं कारापय । राज्ञा भुवनप्रज्ञास्फूर्जितेन' 5 वारितोऽपि नास्थात् । वादेऽजित एव सोऽपि भुवनेन जितः। न खलु यमो भूतानां ध्रायते । जित्वा सभ्याः प्रभाषिताः-भो! भो! शृणुत- .
१५. यदृको दृषदो यदुष्णकिरणो ध्वान्तस्य यच्छीतगुः, शेफालीकुसुमोत्करस्य च दशाकर्षः पतङ्गस्य यत् । ____ अद्रेर्यत्कुलिशः प्रचण्डपवनो मेघस्य यद्यत्तरोः, पशुर्यत्करिणो हरिः प्रकुरुते तद्वादिनोऽसावहम् ॥ ३॥ सभ्याश्च चमत्कृता उज्जुघुषुः-जयति धवलाम्बरशासनम् । वृद्धकरः 'पुनरपैमानाशनिततोऽन10 शनं कृत्वा गुडशस्त्रपुरे वृद्धकराख्यो यक्ष उत्पन्नः । प्राग्वैरेण जैनानुपद्रवति, व्याधिवर्द्धन
भापन-धनहरणादिप्रकारैः । गुडशस्त्रपुरसङ्घन आर्यखपटास्तविज्ञप्ताः तत्र गताः । तत्र च यक्षायतनं प्रविश्य यक्षस्य कर्णयोरुपानही बबन्धुः; वक्षसि पादौ ददुः । लोको मिलितः। राजा तत्रत्यः तत्रागतः। राज्ञि तत्रागते आचार्याः श्वेतवस्त्रेण खं सर्वमङ्गमावृत्य तस्थुः । राजा यत्र यत्रोद्घाटयति, तत्र तत्र स्फिचीवेव दृश्येते । ततः क्रुद्धो राजा घातान्दापयति खपटाचार्य15 स्था) । ते घाताः शिरीषकोषादपि कोमलेष्वन्तःपुरीणामङ्गेषु लेगुः । उच्छलितोऽन्तःपुरे स्त्रीणां कोलाहल:-हा नाथ ! रक्ष रक्ष, हा! हन्यामहे केनाप्यदृष्टेन, कथं जीविष्यामः । राजा सूरिशक्तिचमत्कृतमनाः सूरीणां पैदोर्लग्ना-प्रसद्य मम सपरिजनस्य जीवितभिक्षां देहि; कृपालुस्त्वम्-इत्याधुवाच । यक्षस्तु" खस्थानादुत्थायोपसरि समागतो विनीतः पादसंवाहनां
मम कीटिकामात्रस्योपरि वः कः कटकारम्भ:-इति ब्रूते । मिलितो लोकः । आर्यखपटैर्यक्ष 20 ऊचे । रे अधम! अस्मयूथ्यान्पराबुभूषसि ? । पराभव, यद्यस्ति प्राभवम् ! । यक्षः माह स्म-'हनूमति रक्षति सति शाकिन्यः पात्राणि कथं ग्रसन्ते?' । तव भृत्योऽस्मि । मा मां पीडय । तव सङ्घ बान्धववक्षिताऽस्मि । राजादयः सर्वे चमत्कृताः सूरिभक्ता बभूवुः। सूरयः प्रासादानिर्गत्य यदा बहिर्गतास्तदा यक्षः पाषाणमूर्तिः सहायातः । द्वे दृषदौ, द्वे दार्षदकुण्डिके,
सूक्ष्मयक्षाः सहागुः। नगरप्राकारद्वारायातेन सूरीन्द्रेण यक्षाद्या विसृष्टाः स्वस्थानमगुः । कुण्डिके 25 तु पुरद्वारे सूरिणा स्थापिते, लोके ख्यातिनिमित्तम् । राजा प्रबोध्य सद्यः श्रावकः कृतः। खसौधं गतः। 'प्रभावनानर्तकीरणाचार्य' इति स" सूरीन्द्रस्तत्र चातुर्वण्र्येन वर्णयामासे । तदैव भृगुपुरासाधू द्वावागतौ । ताभ्यां प्रभवः प्रोक्ताः-भगवन् ! भृगुपुरादत्रागच्छद्भिर्भवद्भिर्या कपरिका गूढमधारि, सा क्षुल्लकेनैकेनावाच्यत । वाचयता आकृष्टिलब्धिलब्धा । तद्वशादिभ्यानां गृहेषु निष्पन्नां रसवतीमाकृष्यानीय भुङ्क्ते स्म । तथा कुर्वन् गच्छेन ज्ञातो निषिद्धो न निवर्तते, रसने30न्द्रियपरवशत्वात् । ततः सङ्घन हक्कितः। "क्रुद्धो गत्वा बौद्धानां मिलितः । तदाचार्य इव जातः। बौद्धानां पात्राणि मठात्खेन गृहमेधिनां गृहेषु नयति । ततो भक्तपूर्णानि तानि खेनैव
1A हिमहृत; B हिमवत्; D तुहिनमहत। 2 P नास्ति 'मां'। 3 B स्फूर्तितेन; P स्फूर्तिक्षेन । 4 BD वादिजित । 5 P धीयते। 6P नास्ति । 7 P वृद्धकरोऽपमाना। एतद्गतः पाठो नास्ति A आदर्श। 8 A मृत्वा। 9 B विज्ञाः। एतदन्तर्गता पंक्तिः पतिता D आदर्श। 10 BD स्फिजा०। 11 P पादौ। 12 'तु' नास्ति AB| 13 BD पुरप्रा०। 14 नास्ति 'स'P 15 DP ऋथा।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org