________________
आर्यखपटाचार्यप्रबन्धः ।
अधिष्ठात्री देव्याययौ । तयोक्तम्-कन्यकुब्जराजसुताऽहं महणीनाम्नी पूर्व गूर्जर देशे वसन्ती म्लेच्छसैन्ये समागते पलायमाना तेषु पृष्ठापतितेषु भियाऽत्र कूपेऽपतम् । मृत्वा व्यन्तरी जाता । अतः स्वाङ्गास्थिशल्याकर्षणं नानुमन्ये । मामधिष्ठात्रीं कुरु । यथा ऋद्धिं वृद्धिं कुर्वे । गुरुभिः प्रतिपन्नम् । ततस्तद्दत्तभूमौ तद्योग्या देवकुलिका कारिता । तत्र चामितं धनं लब्धम् । लल्लो निष्प्रतिमल्लसुखभाजनमभवत्; सङ्घश्च तुष्टः । लल्लरोषाद् द्विजैर्मुमूर्षुगौचैत्ये क्षिप्ता । सा तत्र 5 मृता । श्रावकैर्विज्ञतं तद् गुरवे । गुरुणा विद्याबलाद्गीर्ब्रह्मभवने' क्षिता । ' यच्चिन्त्यते परस्य तदायाति सम्मुखमेव' । ब्राह्मणैरनन्योपायत्वाज्जीवदेवसूरयोऽनुनीताः - जीवदेवसूरे ! तारय नः । श्रीसूरिभिस्ते तर्जिताः, उक्ताश्च यदि मच्चैत्ये मत्पट्टसूरेश्च श्रावकवत् सर्वो भक्तिं कुरुध्वे, मत्सूरेः सूरिपदप्रस्तावे हेममययज्ञोपवीतं दत्थ, तत्सुखासनं स्वयं वहथ, तदा गामिमां ब्रह्मा' लयादाकृषामि; अन्यथा तु न । तैरपि कार्यातुरैः सर्वमप्यङ्गीकृतम् । अक्षरादिभिः स्थैर्यमुत्पा-10 दितम् । ततो गौराकृष्याचार्यैर्बहिः । क्षिप्ता । तुष्टं चातुर्वर्ण्यम् । कालान्तरे मरणासन्नैः" सूरिभिस्तस्माद्योगिनो बिभ्यद्भिः स्वकीयाखण्डकपालस्य सर्वसिद्धिहेतोर्भञ्जनं श्रावकाग्रे कथितम् । अन्यथा विद्यासिद्धौ सङ्घोपद्रवं करिष्यति । तथैव तैस्तदा चक्रे । योगी निराशश्विरम रोदीत् ॥ ॥ इति श्रीजीवदेवसूरिप्रबन्धः समाप्तः ॥ ३॥
---
४. अथार्यखपटाचार्य प्रबन्धः ।
९१५) कापि गच्छेऽनेकातिशयलब्धिसम्पन्नाः श्रीआर्यखपटा" नाम आचार्यसम्राजः । तेषां शिष्यो भागिनेयो भुवनो नाम । ते सूरयो भृगुकच्छं विजहुः । तत्र बलमित्रो नाम बौद्धभक्तो राजा । बौद्धाश्च महाप्रामाणिकास्तादृग्यजमानगर्विताश्च दुर्दान्ताः । 'एकं वानरी, अपरं वृश्चिकेन जग्धा' इति न्यायात् ते" श्वेताम्बराणां धर्मस्थानेषु तृणपूलकान्निक्षेपयन्ति । 'यूयं पशवः' इति भावः । तर्योऽवज्ञया खपटाचार्या न चुकुधुः, गुरुत्वात् । यतः
20
१३. उपद्रवत्सु क्षुद्रेषु न क्रुध्यन्ति " महाशयाः । उत्फालैः शफरैः किं स्याल्लोलः कल्लोलिनीपतिः ॥ १ ॥ भुवनस्तु चुकोप । श्रावकशतसहस्रसङ्कुलो राज्ञः पार्श्व ययौ । श्रीसङ्घ- गुर्वनुज्ञां गृहीत्वा तत्रोचैरुवाच
1 P महणीना० । 2 C पतन्ती । 6 DP • द्वेषात् । 7 A भुवने । 8B सर्वमङ्गी० । 11 DP मरणासन्तौ । 14 BC धर्मस्थाने । 15 P अनया । २ प्र० को ०
Jain Education International
९
25
१४. तावड्डण्डिमघोषणां विदधतां तावत्प्रशंसन्तु च स्वात्मानं प्रथयन्तु तावदतुलां रीढां च पूज्ये खलाः । यावत् प्राज्यघृतप्रतर्पितबृहद्भानुप्ररोहत्पृथु - ज्वालाजालकरालजल्पनिवहैर्नोत्तिष्ठतेऽयं जनः ॥ २ ॥ राज्ञा बलमित्रेणोक्तम्- साधो ! किं किमात्थ ? । भुवनो बभ्राण - तव गुरवस्तार्किकंमन्या गेहेन - दिनः श्वेताम्बरान्निन्दन्ति । ततो वयं वादाय त्वत्सदः सम्प्राप्ताः " । आस्फालय तान्मया सहकदा, भवतु श्रोतॄणां कर्णकौतुकम् । ततो राज्ञा ते आहूताः । चतुरङ्गसभायां वादं
3 P प्रतोल्यां मामधिष्ठात्रीं खं कुरु । 4 D यद्वा । 5 P ० पवं तत् तद्दत्त० । 'मय' नास्ति । + एतदन्तर्गता पंक्तिः पतिता B आदर्शे । 9 D तैरेव | 10 P एतदन्तर्गतः पाठो नास्ति ABD आदर्श 12 BD खपुटा । 13 'ते' नास्ति P 16 BD क्षुभ्यन्ति; C कुप्यन्ति । AB प्राप्ताः । 18 A तावत् मया ।
17
15
For Private & Personal Use Only
www.jainelibrary.org