________________
१२
प्रबन्धकोशे
अभिदधौ च-वत्से ! किमर्थं स्मृताऽहम् ? । श्रेष्ठिन्योक्तम्-पुत्रार्थम् । वैरोव्ययोक्तम्-वत्से ! शृणु, विद्याधरवंशे श्रीकालिकाचार्योऽभूत् । तस्य विद्याधरो नाम गच्छः। तत्र आर्यनागहस्ती नाम सूरिरास्ते । स सम्प्रति इमां नगरीमागतोऽस्ति । क्रियाज्ञानार्णवः, तस्य पादोदकं पिब । तत्र प्रेष्ठिनी भावनाभरभरिता गता। करस्थगुरुपदप्रक्षालनजलपात्रः शिष्यका सम्मुखमा5 गच्छन् दृष्टः। श्रेष्ठिन्या पृष्टम्-तपोधन ! किमेतत् ? । शिष्यकेणोक्तम्-गुरूणां पादोदकम् । तया पीतम् । अथ गुरवोऽवन्दिषत । गुरवः प्राहुः-यन्मत्तो दशकरान्तरस्थया त्वयाऽम्भः पीतं तत्ते पुत्रस्त्वत्तो दशयोजनान्तरितः स्थाता। ततः पश्चादन्ये नव पुत्रा भवितारः सारश्रियः । सा चम्पककुसुममकरन्दपानमत्तमधुपध्वनिकोमलया गिरा बभाषे-आद्यः पुत्रो युष्मभ्यं दातव्यो मया-इत्युक्त्वा निजसदनमगमत् । भर्ने गुरूक्तं खोक्तं चाचकथत् । तुष्टः सः। श्रेष्ठिनी 10 काले नागेन्द्रखनसप्रभावं पुत्रं प्रासूत । 'माङ्गल्योत्सवाः प्रसरन्ति स्म । गुरुसत्कः सन् वर्द्धते । नागेन्द्र इति नाम तस्य । शरीरावयवैर्गुणैश्च सकललोककमनीयैर्ववृधे । गुरुभिरागत्याष्टमे वर्षे दीक्षितः । मण्डनाभिधस्य मुनेः पार्थे पाठितः । बाल्येऽपि सर्वविद्यो जातः । ६१८) एकदा गुरुणा जलार्थ प्रस्थापितो विहृत्यागत आलोचयति
१८. अंबं तंबच्छीए अपुष्फियं पुप्फदंतपंतीए । नवसालिकंजियं नववहूइ कुडएण मे दिन्नम् ॥ १॥ 15 इति गाथया गुरुभिर्भणितम्-'पलित्तओ'-शृङ्गारगर्भभणितिश्रवणात्-किल त्वं विनेयक !
रागाग्निना प्रदीप्त इति भावः । नागेन्द्रेणाचक्षे-भगवन् ! मात्रया एकया प्रसादः क्रियताम्, यथा 'पालित्तओ' इति रूपं भवति । अत्र को भावः ?-गगनगमनोपायभूतां पादलेपविद्यां मे दत्त येनाहं 'पादलिप्सक' इत्यभिधीये । ततो गुरुभिः पादलेपविद्या दत्ता । तद्वशात्खे भ्रमति । दशवर्षदेशीयः सन् सूरिपदे स्थापितः। बहुशिष्यपरिकरितो भ्रमति । नित्यं शत्रुनयोजयन्तादि20 पश्चतीर्थी वन्दित्वाऽरसविरसमश्नाति । तपस्तप्यते। १९. यडूरं यदुराराध्यं यच्च दूरे प्रतिष्ठितम् । तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥ २॥
__ ततः सर्वसिद्धयः। ६१९) एकदा पाटलीपुत्रं गताः। तत्र मुरुण्डो" नाम खण्डितचण्डारिमुण्डो राजा । तस्य षण्मासान् यावच्छिरोर्तिरुत्पन्नाऽऽस्ते । मनतन्त्रौषधैर्न निवृत्ता । विशेषविदुरान्सूरीनागतान 25 श्रुत्वा राज्ञा मत्रिणः प्रहिताः प्रोचुः-भगवन् ! राजराजेन्द्रस्य शिरोर्तिनिवर्त्यताम्, कीर्तिधमौं संचीयेताम् । ततः सूरीन्द्रो राजकुलं गत्वा मन्त्रशक्त्या क्षणमात्रेण शिरोर्तिमपहरति स्म । ततोऽद्यापि पठ्यते
२०. जह जह पएसिणि जाणुयमि पालित्तओ भमाडेइ । तह तह से सिरवियणा पणस्सइ मुरुंडरायस्स ॥३॥ प्रीतो राजा। संवृत्ता उत्सवाः। पादलिप्तसूरीणां यशसा पवित्रितानि सप्तभुवनानि। राजा स्तौति30 २१. चेतः सार्द्रतरं वचः (मधुरं दृष्टिः प्रसन्नोज्वला, शक्तिः क्षान्तियुतौं श्रुतं हृतमदं श्रीर्दीनदैन्यापहा ।
रूपं शीलयुतं मतिः श्रितनया स्वामित्वमुत्सेकिता, निर्मुक्तं प्रकटान्यहो नव सुधाकुण्डान्यमून्युत्तमे ॥४॥
1A आचार्य। 2 P नास्ति 'ततः'। 3 'कुसुम' नास्ति । 4 P चाकथयत् । 5 AB मङ्गलोत्सवाः। 6 AB स्पृहणीयैः। 7 C बालो। 8 AP स्थापितो। 9 A परिवारितो विहरति । 10 AB व्यवस्थितं । 11 BC मुरण्डो। 12 'यावत्' नास्ति P। 13 नास्ति 'आस्ते' A| 14 P सूरिणा। 15 AB समधुरं। 16 ABD क्षान्तिकला।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org