________________
पादलिप्ताचार्यप्रबन्धः। २०) एकदा सभायां नृपेणोक्तम्-राजकुले महान्विनयः । आचार्यैरभिहितम्-गुरुकुले महीयान्विनयः। तत आचार्याः प्राहः-यो वः परमभक्तो राजपुत्रोऽस्ति, स आहृयताम् । इदं च तस्मै कथ्यताम्-गत्वा विलोकय गङ्गा कि पूर्ववाहिनी, किं वा पश्चिमवाहिनी ? इति । आहूतो राजपुत्रः, प्रहितश्च विलोकनाय । यत्र तत्र भ्रमित्वा समागतः। भाषितो भूपालेन-विलोकिता गङ्गा?; किं पूर्ववाहिनी, पश्चिमवाहिनी वा ? । अथ राजपुत्रः प्रचख्यौ-किमत्र विलोकनीयम् ? 5 बाला अपि विदन्ति-'गङ्गा पूर्ववाहिनी' । गत्वा च विलोकिता मया, पूर्ववाहिन्येवास्ते । राजा श्रुत्वाऽस्थात् । सूरिभिः साधुः स्वस्तस्मै कर्मणे प्रहितस्तत्र गतः । दण्डकं प्रवाह्य व्यलोकत, पूर्ववाहिनी सुरवाहिनी । उपसूरि समागतोऽभाषत-अहं गङ्गां पूर्ववाहिनीं पूर्वमश्रौषम् , गत्वाऽपश्यश्च तथैवाज्ञासिषम् । तत्त्वं तु खयं सद्गुरवो विदन्ति । एतचं राजपुत्र-यत्योश्चरितं राज-सूर्योः प्रच्छन्नचरैरुक्तम् । राज्ञा' मेने स्वयं-महीया, गुरुकुले विनयः। ततः पठ्यते- 10 २२. निवपुच्छिएण गुरुणा भणिओ गंगा कओमुही वहइ । संपाइयवं सीसो जह तह सव्वत्थ कायव्वं ॥५॥
२१) पाटलिपुत्रादथ सूरीन्द्रो लाटान गतः । तत्रैकस्मिन्पुरे बालैः सह क्रीडति । मुनयो गोचरचर्यार्थं गताः । तावता श्रावकाः प्रवन्दनार्थमायाताः । आकारं संवृत्योपविष्टः प्रभुः । श्राद्धेषु गतेषु पुनरपवरकमध्यं गत्वा खेलति । तावता केऽपि वादिनः समायाताः। तैर्विजनं दृष्ट्वा 'कूकुडूकू' इति शब्दः कृतः । सूरीन्द्रेण तु 'म्याउं' इति बिडालशब्दः कृतः। ततो दर्शनं 15 दत्तम् । वादिनः पादयोः पेतुः प्रभोः । अहो! प्रत्युत्पन्नमतित्वम् ते, चिरं जय बालभारति !। तत आरब्धा प्रभुणा तैः सह गोष्ठी । तेष्वेकेन पृष्टम्२३. पालित्तय ! कहसु फुडं सयलं महिमंडलं भमंतेण । दिई सुयं च कत्थ वि" चंदणरससीयलो अग्गी ॥ ६ ॥
प्रभुणाऽभाणि२४. अयसाभिओगसंदूमियस्स पुरिसस्स सुद्धहिययस्स । होइ वहंतस्स दुहं चंदणरससीयलो अग्गी ॥७॥ 20 तुष्टास्ते वादिनः, तुष्टुवुः-साक्षादमरगुरुरेव त्वम् , धन्या ब्राह्मी, या ते वदने वसति । इतश्च ये पूर्व ब्राह्मणाः खपटाचार्यगच्छीयेनोपाध्यायेन महेन्द्रेण भाषिताः, ते बलात्केचित्प्रब्राजिताः। तेषां स्वजनाः पाटलिपुत्रपत्तने वसन्ति । पूर्ववैराज्जैनयतीनुपद्रवन्ति । सा“ वार्ता प्रभुश्रीपादलिप्ताचार्यैः श्रुता। स्वयं ते गगनेन तत्र गताः, अभ्यधुश्च-रे! मयि वीरे सति के नाम जैनजनमुपद्रवन्ति ? । 'जर्जराऽपि यष्टिःस्थालीनां भञ्जनाय प्रभवत्येव' । ततस्ते काकनाशं नष्टाः। 25 प्रभुः पुनर्भृगुपुरमगमत् । तत्रार्यखपटसम्प्रदायात्सकलाः कलाः प्रजग्राह । ढंकपर्वते नागार्जुनः प्रभुणा खगमनविद्यां शिक्षापितः परमाहतोऽजनि । तेन पादलिप्तकपुरं नव्यं कृतम् , दशाहमण्डपोग्रसेनभवनादि च तत् तत् । तत्र प्रभुणा गाथायुगलेन स्तवनं बद्धम् । तत्र हेमसिद्धिविद्याऽवतारिताऽस्तीति वृद्धाः प्राहुः । नागार्जुनेन च रसः प्रारब्धः। सोऽतिकृच्छ्रेऽपि कृते न बन्धमायाति । ततो वासुकिनागस्तेनाराद्धः । तेन श्रीपादलिप्तेन चोपायोर्पितः-यदि कान्तीपुर्याः 30 "श्रीपार्श्वनाथमानीय तदृष्टौ रसं बध्नासि, तदा बन्धमायाति, नन्यथा । नागार्जुनेन पृष्टम्- 1 AB महान् । 2 CD यात्वा । 3 C विलोक्यम् । 4 ABD अस्ति । 5 P 'स्वयं' नास्ति । 6 AB नास्ति 'एतच्च' । 7 PD राजा। 8 ABD वंहीयान् । 9 A लाटानामागतः। 10 AB श्रावकेषु । 11 A प्रोक्तः। 12 'प्रभोः' नास्ति AI 13 AB कत्थह। 14 P सा च। 15 AD तुदति । 16 A तारिता तां ते वृद्धाः। 17A दर्शितः। 18 ABD 'श्री' नास्ति । 19 A आयास्यति । .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org