________________
प्रबन्धकोशे
कथमेति श्रीपार्श्वनाथः । वासुकिना पादलिप्तेन च प्रोक्तम्-उत्पाट्यानय गगनाध्वना । गतो नागार्जुनः कान्तीम् । तत्र चैत्यं पृच्छति । तत्र धनपतिश्रेष्ठी चैत्यगोष्ठिकः । तस्याग्रे नैमित्तिकेन प्रोक्तम्-पार्श्व रक्षेः; धूर्त एकस्तद्धरणाय भ्रमन्नस्ति । स सचतुष्पुत्रो देवं रक्षति । नागार्जुनस्तत्र गतः । तेषु रक्षत्सु हरणावसरो नास्ति । तैरेव सह नागार्जुनेन प्रीतिरारेभे । 5 विश्वास उत्पन्नः। आरात्रिकमङ्गलदीपकसमये पितृपुत्रेषु प्रणामाधोमुखेषु पार्श्व खेन गृहित्वा गतो नागार्जुनः। सेडीसंज्ञनदीतटे श्रीपार्श्वदृष्टौ रसः स्तम्भितः, स्तम्भनक नाम तत्तीर्थ पप्रथे, स्तम्भनपुरं नाम पुरं च।
२२) अथ श्रीपादलिप्ताचार्याः प्रतिष्ठानपुरं दक्षिणाशामुखभूषणं गोदावरीनदीतरङ्गरगञ्जलकणहृतपान्थश्रमभरं जग्मुः । तत्र सातवाहनो राजा विदुषां योधानां दानशौण्डानां 10 भोगिनां च प्रथमः।तस्य सभायां वार्ताऽभूत्, यथा-पादलिप्ताचायोंः सर्वविद्यावनितावदनरत्नदपणाः समागच्छन्तः सन्ति प्रातः । ततः सर्वैः पण्डितैः सम्भूय स्त्यानघृतभृतं कचोलकमर्पयित्वा निजः पुरुष एक आचार्याणां सम्मुखः प्रेषितः । आचार्यैर्घतमध्ये सूच्येका क्षिप्ता; तथैव च प्रतिप्रेषितं तत् । राज्ञा स वृत्तान्तो ज्ञातः। पण्डिताः पृष्टाः-घृतपूर्णकच्चोलकप्रेषणेन व को भावः।
तैरुक्तम्-एवमेतन्नगरं विदुषां पूर्णमास्ते, यथा घृतस्य वर्तुलकम् ; तस्माद्विमृश्य प्रवेष्टव्यम्15 इति भावो नः । राज्ञा निगदितम्-तर्हि आचार्यचेष्टाऽपि भवद्भिर्जायताम्-यथा निरन्तरेऽपि
घृते निजतिक्ष्णतया सूची प्रविष्टा, तथाऽहमपि विद्वन्निबिडे नगरे प्रवेक्ष्यामि-इति दध्वनुः । पण्डिताः सर्वे राजेन्द्रोऽपि संमुखं गताः । सुरसरिल्लहरिहारिण्या वाण्या तुष्टुवुः । नगरमानीतो गुरुः। निर्वाणकलिका-प्रश्नप्रकाशादिशास्त्राणि सन्ददर्भ । एकाच तरडग्लोलां नाम चम्पूं राज्ञोऽग्रे नवां निर्माय सदसि व्याचख्ये प्रभुः । तुष्टो" राजा । भवत्ययं कवीन्द्रः। 20 २५. शाणोत्तीर्णमिवोज्वलद्युति पदं बन्धोऽर्द्धनारीश्वरः, श्लाघालङ्घनजाचिको दिवि लतोद्भिन्नेव चार्थाद्गतिः। '
ईषञ्चूर्णितचन्द्रमण्डलगलत्पीयूषहृयो रस- स्तत्किञ्चित्कविकर्ममर्म न पुनर्वाडिण्डिमाडम्बरः ॥ ८॥ इत्येवं कवयोऽपि तुष्टुवुः । एका तु वेश्या विदुषी राजसभ्या गुणज्ञाऽपि सूरीन्द्रान स्तौति । ततो राज्ञा भणितम्-वयं सर्वे तुष्टाः, स्तुमः सर्वे'; केवलमियमेका न स्तौति । तत्क्रियतां येन स्तुते । तदाकये सूरयो वसतिमाययुः । रात्री गच्छसम्मत्या कपटमृत्युना मृताः, पवनजयसाम25 र्थ्यात् । [ विद्याबलात्" ] शवयानमाश्रितः सूरिः । चातुर्वर्ण्य रोदिति । वेश्यागृहद्वारे नीतं शबयानम् । वेश्याऽपि तत्रागता रुदती वदति - २६. सीसं कहवि न फुटुं जमस्स पालित्तयं हरंतस्स । जस्स मुहनिज्झराओ तरङ्गलोला नई बूढा ॥९॥
पुनरजीवत्प्रभुः । वेश्ययाऽभाणि-मृत्वाऽऽत्माऽस्तावि!। 'मृत्वापि पश्चमो गेयः' इति किं न श्रुतम् । अथ प्रभुः शत्रुञ्जये रदनसंख्योपवासानशनेन ईशानेन्द्रसामानिकत्वेनोदपद्यतेति ।
॥ इति श्रीपादलिप्ताचार्यप्रबन्धः॥५॥
1 'स' नास्ति ABI 2A आरात्रिकप्रदीपमङ्गलसमये। 3 PB पितापु०। 4A 'तत्' नास्ति; BD ततः। 5 AC सम्पूर्णः। 6 CP प्रेषणे। 7 BP विदुषैः। 8P नास्ति सर्वे। 9CD गतः। 10 BCP तुतुषुः। 11 P नास्तीदं वाक्यं। 12 P नास्ति। 13 A आदर्श एवैतत्पदं दृश्यते। 14 A आरोपितः। 15 A वक्ति ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org