________________
१५
वृद्धवादि-सिद्धसेनयोः प्रबन्धः ।
६. अथ श्रीवृद्धवादि-सिद्धसेनयोः प्रबन्धः । ६२३) विद्याधरेन्द्रगच्छे श्रीपादलिप्तसूरिसन्ताने स्कन्दिलाचार्याः साधितजैनकार्याः पुस्फुरुः। ते यतनया विहरन्तो गौडदेशं ययुः। तत्र कोशलाख्यग्रामवासी मुकुन्दो नाम विप्रः । स तेषां सूरीणां मिलितः। इत्थं देशनामश्रौषीत्२७. भोगे रोगभयं सुखे क्षयभयं वित्तेऽग्निभूभृद्भयं, दास्ये स्वामिभयं गुणे खलभयं वंशे कुयोषिद्भयम् ।
___ स्नेहे वैरभयं नयेऽनयभयं काये कृतान्ताद्भयं, सर्व नाम भयं भवे यदि परं वैराग्यमेवाभयम् ॥ १॥ श्रुत्वा भवोद्विग्नश्चारित्रं गृहीत्वा गुरुभिः समं भृगुपुरं गतः । स मुकुन्दमुनिस्तारखरेणाधीते । रात्रौ साधूनां निद्राभङ्गो भवति । ततस्तान दुर्मनायमानान् ज्ञात्वा गुरुभिः पठन्निषिद्धोऽसौ । यथा-वत्स! नमस्कारान् गुणय । रात्रावुच्चैर्भाषणे हिंस्रजीवजागरणादनर्थदण्डो मा भूदिति । ततो दिवापठने श्रावक-श्राविकादीनां कर्णज्वरो भवति । केनाप्युक्तम्-किमय-10 मियद्वयाः पठित्वा मुशलं पुष्पापयिष्यति । तच्छ्रुत्वा मुकुन्दः खिन्नः। सद्यो महाविद्यार्थी एकविंशत्योपवासैर्जिनालये ब्राह्मीमारराध । तुष्टा सा प्रत्यक्षीभूय जगाद-सर्वविद्यासिद्धो भव । ततः कवीन्द्रीभूय स्वगुर्वन्तिकमागत्य सङ्घसमक्षमक्षामखरेण बभाण-यन्ममोपहास: केनापि कृतः-'यदयं किं मुशलं पुष्पापयिष्यति?' विलोकयत लोकाः! मुशलं पुष्पापयामि । इत्युक्त्वा मुशलमानाय्य चतुष्पथे स्थित्वा तत्पुष्पापयामास, मन्त्रशक्तिमाहात्म्यात् । स्कन्ध- 15 स्थितेन तेन भ्रमति पठति च२८. पत्तमवलंबियं तह जो जंपइ फुल्लए न मुसलमिह । तमहं निराकरित्ता फुल्लइ मुसलं ति ठामि ॥२॥
तथा२९. मद्गोः शृङ्गं शक्रयष्टिप्रमाणं शीतो वह्निर्मारुतो निष्पकम्पः ।
__ यस्मै यद्वा रोचते तन्न किञ्चित् वृद्धो वादी भाषते कः किमाह ॥ ३॥ अप्रतिमल्लो वादी सोऽभूत् । स्कन्दिलाचार्यैः स्वपदे निवेशितः। 'वृद्धवादी' इति ख्यातं तन्नाम । स्कन्दिलाचार्याः समाधिमृत्युरथेन द्यामगमन् । ६२४) एकदा वृद्धवादी भृगुपुरं गच्छान्नास्ते। इतश्चावन्त्यां विक्रमादित्यो राजा । यस्य दानानि३०. अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुलाः, पञ्चाशन्मदगन्धलुब्धमधुपक्रोधोद्धराः सिन्धुराः ।
___ लावण्योपचयप्रपञ्चितदृशां पण्याङ्गनानां शतं, दण्डे पाण्ड्यनृपेण ढौकितमिदं वैतालिकस्यार्प्यताम् ॥ ४॥ 25 इत्यादीनि ख्यातानि । तस्य राज्ये मान्यः कात्यायनगोत्रावतंसो देवर्षिर्द्विजः । तत्पत्नी देवसिका। तयोः सिद्धसेनो नाम पुत्रः । सँ प्रज्ञाबलेन जगदपि तृणवद्गणयति;प्रज्ञायाश्च इयत्ता नास्ति । जगति ततः पठ्यते३१. मिता भूः पत्यापां स च पतिरपां योजनशतं, सदा पान्थः पूषा गगनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः, सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥ ५॥
30 येन वादे जीये तस्याहं शिष्यः स्याम्-इति प्रतिज्ञा तस्य । क्रमेण वृद्धवादिनः कीर्ति श्रुत्वा स
1 BC कवीन्द्रो भूत्वा। 2 AB स्कन्धस्थाने। P वाचेमि। 4 AP मनोशः। 5A वाराजानानां। 6A वैतालिकायार्पितं; C स्यार्पितम् ।
20
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org