________________
१६
प्रबन्धकोशे
तत्सम्मुखं धावति स्म । सुखासनारूढो भृगुपरं गतः । तावद्धृगुकच्छान्निर्गतो वृद्धवादी मार्गे मिलितः। परस्परमालापः[जातः']। सिद्धसेनो भाषते-वादं देहि । सूरिराह-दद्मः, परमन्त्र के सभ्याः ? । सभ्यान् विना वादे जिताजिते को वदेत् ? । सिद्धसेनेनोक्तम्-एते गोपालकाः सभ्या भवन्तु । वृद्धवादिना भणितम्-तर्हि ब्रूहि । ततः सिद्धसेनस्तत्र नगरगोचरे चिरं संस्कृतेन 5 जल्पमनल्पमकरोत् । क्रमेण च स्थितः। गोपैरुक्तम्-किमप्ययं न वेत्ति । केवलमुच्चैः पूत्कारं पूत्कारं कौँ नः पीडयति । धिर धिम् । वृद्ध ! त्वं ब्रूहि किञ्चित् । ततो वृद्धवादी कालज्ञः कच्छा दृढं बद्धा घीन्दिर्णिच्छन्दसा क्रीडति____३२. नवि मारियइ नवि चोरियइ परदारह गमणु निवारियइ । थोवाथो दाइयई सग्गि टुकुटुकु जाइयइ ॥६॥
३३. [*गुलसिउं चावई तिलतांदली वेडिइं वजावई वांसली ।। 10
पहिरणि ओढणि हुइ कांबली इणपरि ग्वालइ पूजइ रुली ॥ ७॥] पुनः पठति नृत्यति च३४. कालउ कंबलु अनुनी चाटु छासिहिं खालडु भरिउ नि पार्ट ।
अइवडु" पडियउ नीलइ झाडि" अवर किसर गह सिंग" निलाडि ॥ ८॥ गोपा हृष्टाः प्रोचुः-वृद्धवादी सर्वज्ञः । अहो! कीटक श्रुतिसुखमुपयोगि पठति । सिद्ध15 सैनस्तु असारपाठकः-इत्यनिन्दन् । ततः सिद्धसेनः प्राह-भगवन् ! मां प्रव्राजय । तव शिष्यो.
ऽहं भवामि"] वादे सभ्यसम्मतं जितत्वात् । अथ वृद्धवादी आह-भृगुपुरे राजसभायामावयोदोऽस्तु । गोपसभायां को वादः ? । सिद्धसेनेनोक्तम्-अहमकालज्ञः। त्वं [तु] कालज्ञः । यः कालज्ञः स सर्वज्ञः। त्वयैव जितम् । इत्येवं वदन्तं तं तत्रैव दीक्षयामास । तत्र भृगुपुरनरेन्द्रेण तं वृत्तान्तं ज्ञात्वा तालारसो" नाम ग्रामः स्थापितः प्रौढः । नाभेयचैत्यं कारितम् । नाभेयबिम्ब 20 वृद्धवादिना प्रतिष्ठितम् । सङ्को जगर्ज। सिद्धसेनस्य दीक्षाकाले 'कुमुदचन्द्र' इति नामासीत ।
सरिपदे पुनः 'सिद्धसेन दिवाकर' इति नाम पप्रथे। तदा 'दिवाकर' इति सूरेः संज्ञा । खामिशब्दवद्, "वाचकशब्दवच्च । वृद्धवादी अन्यत्र विहरति । सिद्धसेनस्त्ववन्तीं ययौ । सङ्घ सम्मुखमागत्य तं सूरि 'सर्वज्ञपुत्रक' इति बिरुदे पठ्यमानेऽवन्तीचतुष्पथं नयति । तदा राजा विक्रमा
दित्यो हस्तिस्कन्धारूढः सम्मुखमागच्छन्नस्ति । राज्ञा श्रुतम्-'सर्वज्ञपुत्रक' इति । तत्परीक्षार्थ 25 हस्तिस्थ एव मनसा सूरेनमस्कारं चकार, न वाक्-शिरोभ्याम् । सूरिश्चासन्नायातो धर्मलाभं बभाण । राजेन्द्रेण भणितम्-अवन्दमानेभ्योऽस्माकं को धर्मलाभः ? । किमयं समर्यो लभ्यमानोऽस्ति ? । सूरिसुत्रार्णाऽभाणि-चिन्तामणिकोटितोऽप्यधिकोऽयं वन्दमानाय देयः। न च त्वया न वन्दिता वयम् , मनसः सर्वप्रधानत्वात् । अस्मत्सार्वज्ञपरीक्षायै हि मनसाऽस्मानवन्दथाः। ततस्तुष्टो राजेश्वरो हस्तिस्कन्धादवरुह्य सङ्घसमक्षं ववन्दे कनककोटिं चानाययत् ।
1 केवलं P आदर्श दृश्यते। 2 A को जिताजितं वदेत् ; B जिताजितं को वदेत् । 3 A 'अनल्पं' नास्ति । 4 ABD 'च' नास्ति । 5 B घीन्दण; Cघींदिण; P धिन्दिणि। 6 B थोवाथोवउं। 7 P दावियइ । 8 CP टुगु टुगु। * P विहा. यैतत्पद्यमस्मदीयेष्वादशेषु नोपलभ्यते। 9P वाटु; B बट्ट। 10 A छासिहिं भरिउ दीवड पाटु; B ०दइड पट्ट । 11 B अडवड। 12 P डाडि। 13 A संगु। 14 केवलं A आदर्श एष श्यते । 15 केवलं P आदर्श लभ्यते । 16 B तालरसो। 17 'वाचकशब्दवत्' पतितं P आदर्श। 18 P सूरिः श्रुत्वा ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org