________________
वृद्धवादि-सिद्धसेनयोः प्रबन्धः । आचार्यः सा न जगृहे, निर्लोभत्वात् । राज्ञाऽपि न जगृहे, कल्पितत्वात् । तत आचार्यानुज्ञया सङ्घपुरुषैर्जीर्णोद्धारे व्ययिता । राजवहिकायां त्वेवं लिखितम्. ३५. धर्मलाभ इति प्रोक्त दूरादुच्छ्रितपाणये । सूरये सिद्धसेनाय ददौ कोटिं धराधिपः ॥ ९॥
श्रीविक्रमाने अवसरे तेनैव भगवता भणितम्३६. पुन्ने वाससहस्से सयंमि वरिसाण नवनवइकलिए । होही कुमरनरिन्दो तुह विक्कमराय ! सारिच्छो ॥१०॥ 5 ६२५) अन्यदा सिद्धसेनश्चित्रकूटमटति स्म । तत्र चिरन्तनचैत्ये स्तम्भमेकं महान्तं दृष्ट्वा कश्चिदमाक्षीत्-कोऽयं स्तम्भो महान् ?, किंमयः ? । तेनोक्तम्-पूर्वाचार्यैरिह रहस्यविद्यापुस्तकानि न्यस्तानि सन्ति । स्तम्भस्तु तत्तदोषधद्रव्यमयः । जलादिभिरभेद्यो वज्रवत् । तद्वचनं श्रुत्वा सिद्धसेनस्तस्य स्तम्भस्य गन्धं गृहीत्वा प्रत्यौषधरसैस्तमाच्छोटयामास । तैः स प्रातरम्खुजवद्विचकास। मध्यात्पतिताः पुस्तकाः। तत्रैकं पुस्तकं छोटयित्वा वाचयन्नाद्यपत्र एव द्वे विये 10 लभते स्म । एका सर्षपविद्या, अपरा हेमविद्या । तत्र सर्षपविद्या सा-ययोत्पन्ने कार्य मात्रिको यावन्तः सर्षपान् जलाशये क्षिपति तावन्तोऽश्ववारा द्विचत्वारिंशदुपकरणसहिता निःसरन्ति । ततः परबलं भज्यते । सुभटाः कार्यसिद्धेरनन्तरमदृश्यीभवन्ति । हेमविया पुनरक्लेशेन शुद्धहेमकोटी: सद्यो निष्पादयति, येन तेन धातुना । तद्विद्याद्वयं सम्यग् जग्राह । यावदने वाचयति तावत्स्तम्भो मिलितः पुस्तकगर्भः। खे च वागुत्पन्ना-अयोग्योऽसि ईदृशानां रहस्यानाम् , मा 15 चापलं कृथाः, सद्यो मा म्रियस्व-इति । ततो भीतः स्थितः । यद्विद्याद्वयं लब्धं तल्लब्धम् । नाधिकं लभ्यते, अप्राप्तितः । चित्रकूटात्सिद्धसेनोऽथ पूर्वदेशे कूर्मारपूरं गतः। तत्र देवपालं राजानं प्रबोध्य नीलीरागजैनमकार्षीत् । तत्रास्थात्। नित्यमिष्टा गोष्ठी वर्तते। कियानपि कालो
दा राज्ञा रह एत्य साधणा विज्ञप्तम-भगवन! पापा वयम: नेशमधरभवंदगोष्ठीयोग्याः, येन सङ्कटे पतिताः स्म । सूरीन्द्रः पप्रच्छ-किं सङ्कटं वः? । राजा प्राह-सीमाल-20 भूपालाः सम्भूय मद्राज्यं जिघृक्षव आयान्ति । सूरिराह-राजन् ! मा स्म विह्वलो भूः । तवैव राज्यश्रीर्वशे यस्याहं सखा । राजा हृष्टः । परचक्रमायातम् । विद्याद्वयशक्त्या राजेन्द्रः समों विहितः सूरिणा । भग्नं परबलम् । गृहीतं तत्सर्वखम् । वादितान्यातोद्यानि । ततो बाढं राजा सूरिभक्तः सम्पन्नः । सूरयः सगच्छा अपि क्रियाशैथिल्यमादृषत । यतः
३७. चाटुकारगिरां गुम्फैः कटाक्षैर्मगचक्षुषाम् । केलिकल्लोलितैः श्रीणां भिद्यते कस्य नो मनः ॥ ११॥ 25 ३८. सुअई गुरू निचिंतो' सीसावि सुअंति तस्स अणुकमसो । ओसाहिजइ मुक्खो हुड्डाहुई सुअंतेहिं ॥१२॥
श्रावकाः पौषधशालायां प्रवेशमेव न लभन्ते । . ३९. दगपाणं पुप्फफलं अणेसणिजं गिहत्थकिच्चाई । अजया पडिसेवंती" जइवेसविडंबगा नवरं ॥ १३ ॥ इति गाथा समाचार्यते । तदपयशः श्रुत्वा वृद्धवादी कृपया तं निस्तारयितुमेकाकीभूय गच्छं वृषभेषु न्यस्य तत्रागतः । द्वारे स्थितः । सूरीणामग्रे कथापयति द्वास्थैः । यथा-वादी 30
1C भक्ष्यते; D भक्ते। 2 P कोटीं। 3 AP मिष्टगोष्ठी। 4 BC 'भवद्' नास्ति । 5AP स्त्रीणां। 6 AC सूर्यद। 7A निचंतो; C निचंतो; D निजतो। 8 B सुक्खो। 9 AD हुड्डाहुंई। 10 BCD सेहती। 11 P तत्र गतः ।
३ प्र० को
Jain Education Interational
www.jainelibrary.org
For Private & Personal Use Only