________________
प्रबन्धकोशे एको ज्यायानायातोऽस्ति । मध्ये सूरिभिराहूतः । पुर उपवेशितः । वस्त्रावगुण्ठितसर्वकायो वृद्धवादी वदति । व्याख्याहि
४०. अणफुल्लिये फुल्ल म तोडहिं मा रोवा मोडहिं । मणकुसुमेहिं अचि निरंजणु हिंडहि काई वर्णण वणु ॥१४॥
सिद्धसेनश्चिन्तयन्नपि न वेत्यर्थम् । ततो ध्यायति-किमेते में गुरवो वृद्धवादिनः येषां 5 भणितिमहमपि व्याख्यातुं न शक्नोमि । पुनः पुनः पश्यता उपलक्षिता गुरवः । पादयोः प्रणम्यक्षामिताः, पद्यार्थ पृष्टाः।तेऽथ व्याचक्षिरे । यथा-'अणफुल्लियफुल्ल' प्राकृतस्यानन्तत्वात् अप्राप्तफलानि पुष्पाणि मा त्रोटय । को भावः ?-योगः कल्पद्रुमः । कथम् ?-यस्मिन्मूलं यमनियमाः, ध्यानं प्रकाण्डप्रायम्, स्कन्धश्रीः समता, कवित्व-वक्तृत्व-यशः प्रताप-मारण-स्तम्भनो
चाटन-वशीकरणादिसामर्थ्यानि पुष्पाणि, केवलज्ञानं फलम् । अद्यापि योगकल्पद्रुमस्य पुष्पा10 ण्युद्गतानि सन्ति; तत्केवलफलेन तु पुरः फलिष्यन्ति । तान्यप्राप्तफलान्येव किमिति त्रोटयसि
मा त्रोटय इति भावः। 'मा रोवा मोडहिं' इह रोपाः पञ्चमहाव्रतानि तानि मा मोटय। मन:कुसुमैर्निरञ्जनं जिनं पूजय । वनादनं किं हिंडसे-राजसेवादीनि कृच्छ्राणि विरसफलानि कथं करोषि; इति पदार्थः । ततो वादी तां गुरुशिक्षा मूर्ध्नि धृत्वा राजानमापृच्छय वृद्धवाविना सह
निबिडचारित्रधरो विजहार । अपरापरगुरुभ्यः पूर्वगतश्रुतानि लेभे । वृद्धवादी यां गतः। 15६२६) एकदा सिद्धसेनः सङ्घ मेलयित्वाह स्म-सकलानप्यागमानहं संस्कृतान्करोमि, यदि
आदिशथ । ततः सङ्घो वदति स्म-किं संस्कृतं कर्तुं न जानन्ति श्रीमन्तस्तीर्थकरा गणधरा वा । यदर्धमागधेनांगमानकृषत? । तदेवं जल्पतस्तव महत्प्रायश्चित्तमापन्नम् । किमेतत्तवाने कथ्यते ?, खयमेव जाननसि । ततो विमृश्याभिदधेऽसौ-सङ्घोऽवधारयतु, अहमाश्रितमौनो द्वादशवार्षिकं पाराश्चिकं नाम प्रायश्चित्तं गुप्तमुखवस्त्रिकारजोहरणादिलिङ्गः प्रकटितावधूतरूपश्च20 रिष्याम्युपयुक्तः । एवमुक्त्वा गच्छं मुत्तवा ग्रामनगरादिषु पर्यटन द्वादशे वर्षे श्रीमदुज्जयिन्यां महाकालप्रासादे शेफालिकाकुसुमरञ्जिताम्बरालङ्कृतशरीरः समागत्यासांचके । ततः-देवं कथं न नमसि ? इति लोकैर्जल्प्यमानोऽपि नाजल्पत् । एवं च जनपरम्परया श्रुत्वा विक्रमादित्यदेवः समागत्य जल्पयांचकार-क्षीरलिलिक्षो! भिक्षों! किमिति त्वया देवो न वन्द्यते। ततस्तु [राजानं प्रति ] इदमवादि वादिना-मया नमस्कृते देवें लिङ्गभेदो भवतामप्रीतये भविष्यति । 25 राज्ञोचे-भवतु, क्रियतां नमस्कारः। तेनोक्तम्-श्रूयतां तर्हि । ततः पद्मासनेन भूत्वा द्वात्रिंशद्द्वात्रिंशिकाभिर्देवं स्तोतुमुपचक्रमे । तथाहि
४१. स्वयम्भुवं भूतसहस्रनेत्रमनेकमेकाक्षरभावलिङ्गम् ।
__अव्यक्तमव्याहतविश्वलोकमनादिमध्यान्तमपुण्यपापम् ॥ १५ ॥ इत्यादि ['श्रीवीरद्वात्रिंशद्वात्रिंशिका कृता । परं तस्मात्तादृक्षं चमत्कारमनालोक्य पश्चात् 30 श्रीपार्श्वनाथद्वात्रिंशिकामभिकतुं कल्याणमन्दिरस्तवं चक्रे ] प्रथमश्लोके एव प्रासादस्थितात् शिखिशिखाग्रादिव लिङ्गामवर्तिरुदतिष्ठत् । ततो जनैर्वचनमिदमूचे-अष्टवियेशाधीशः __ 1 AB अणहुलियं। 2 B मन मारोवा। 3 AC हिंडयं; P हिंडइ। 4 P नास्ति 'कांई। 5 B संस्कृतमयान् । 6 B मागधिना। 7 B नास्ति । 8 केवलं P पुस्तक एवैतत्पदं दृश्यते। 9AP नास्ति 'देवे। 10 P नास्ति । एषः कोष्ठकान्तर्गतः पाठः P पुस्तके एवोपलभ्यते नान्यत्र, प्रक्षिप्तप्राय एषः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org