SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ वृद्धवादि-सिद्धसेनयोः प्रबन्धः । कालाग्निरुद्रोऽयं भगवांस्तृतीयनेत्रानलेन भिखं भस्मसात्करिष्यति । ततस्तडित्तेज इव सतडस्कारं प्रथमं ज्योतिर्निर्गतम् । ततः श्रीपार्श्वनाथविम्बं प्रकटीबभूव । तद्वादिना विविधस्तुतिभिः स्तुतं क्षमितं च । राजा विक्रमादित्यः पृच्छति-भगवन् ! किमिदमदृष्टपूर्व दृश्यते ?, कोऽयं नवीनो देवः प्रादुरभूत ? । अथ सिद्धसेनः प्रोवाच-राजन् ! पूर्वमस्यामेवावन्त्यां श्रेष्ठिनीभद्रासूनुभत्रिंशत्पनीयौवनपरिमलसर्वस्वग्राही 'अवन्तीसुकुमाल' इति ख्यातः श्रेष्ठ्यासीत् । स शालि- 5 भद्र इव गृहव्यापार कमपि नाकार्षीत् । किन्तु मातैव सर्वामपि गृहतप्तिमकृत । एकदा दशपू. वैधर आर्यसहस्त्याख्यो मौर्यवंशमुकुटसम्प्रतिपगुरुः सगच्छो विहरन्नवन्तीमागत्य भद्रानुमत्या गृहैकदेशेऽस्थात् । रात्रौ ते नलिनीगुल्माख्यस्य खर्विमानस्य विचारं गुणयन्ति । तपोधनजने विश्रान्ते सति तं विचारं शृण्वन् सान्द्रचन्द्रातपायां निशि खैरं पद्भ्यां भ्रमन्नवन्तीसुकुमालस्तप्रायातः सम्यगौषीत् । आगत्य गुरून् जगौ-भगवन् ! किमेतद् गुण्यते । आर्यैरुक्तम्-10 वत्स ! नलिनीगुल्मविमानं विचारः । अवन्तीसुकुमालः प्राह स्म-ईदृशमेवेदं प्रेत्य मयाऽनुभूतम् । इदं केनोपायेन लभ्यते । आर्भणितम्-चारित्रेण । अवन्तीसुकुमालोऽप्याविभातात् गृहीतनलिनीगुल्मविमानग्रहणप्रतिज्ञा खयं कृतलोचः पश्चाद्गुरुभिरपि दत्तसामायिकः कन्थारकुडाख्यं श्मशानमेत्य कायोत्सर्गी भवान्तरभार्यया शृङ्गालीत्वमापन्नया सार्भया क्षुधितया दर्भसूचीवेधक्षरतद्रुधिरधारागन्धलुन्धागतया भक्षितः, सद्भावनाजर्जरितपापकर्मा नलिनीगुल्म-15 माप । प्रातस्तन्माता सस्लुषा गुरुमुखादवगतपुत्रवृत्तान्ता तच्छमशानमागत्य विललाप विविधं विविधम् । पुनर्गृहमागता । एकां सगी वधूं गृहे मुक्त्वा एकत्रिंशता वधूभिः सह संयममादाय दिवं लेभे। सगर्भस्थितवधूकाजातपुत्रेण स्फीतयौवनेनायं प्रासादः कारितः । मम पितुर्महाकालोऽत्राभूदिति 'महाकाल'नाम दत्तम् । श्रीपार्श्वनाथबिम्ब मध्ये स्थापितम् । कत्यप्यहानि लोकेन' पूजितम् । अवसरे द्विजैस्तदन्तरितं कृत्वा मृडलिङ्गमिदं स्थापितम् । अधुना 20 मत्कृतस्तुतितुष्टः श्रीपार्श्वनाथः प्रादुरासीत् । मत्प्रेरितशासनदेवताबलात्तु मृडलिङ्गं विदधे । सत्यासत्ययोरन्तरं पश्य । तच्छ्रवणान्नृपः शासने ग्रामशतान्यदत्त देवाय । उपगुरु ससम्यक्त्वां द्वादशव्रतीमुपादत्त । अश्लाघत वादीन्द्रम् ४२. अहयो बहवः सन्ति भेकभक्षणदक्षिणाः । एक एव स शेषो हि "धरित्रीधरणक्षमः ॥ १६ ॥ तथा त्वम् । अहो कवित्वशक्तिस्ते ! ४३. पदं सपदि कस्य न स्फुरति शर्करापाकिम, रसालरससेकिम भणितिवैभवं कस्य न । तदेतदुभयं किमप्यमृतनिझरोगारिमै-स्तरङ्गयति यो रसैः स पुनरेक एव क्वचित् ॥ १७ ॥ ४४. न नाम्ना नो" वृत्त्या परिचयवशाच्छन्दसि न वा, न शब्दव्युत्पत्त्या निभृतमुपदेशान्न च गुरोः । अपि त्वेताः स्वैरं जगति सुकवीनां मधुमुचो, विपच्यन्ते वाचः सुकृतपरिणामेन महता ॥ १८॥ इति स्तुत्वा सम्राट खस्थानमयासीत् । वादीन्द्रोऽपि प्रभावनातुष्टेन सङ्ग्रेन मध्येक्रतः। २७) अन्येशुः सिद्धसेनो विहरन् ॐकाराख्यं मालवेषु नगरं ययौ । तत्र भक्तैः श्रावकैर्विज्ञप्तं 25 - 1P.मिदमपूर्व । 2 'विमान' नास्ति । 3 B सन्थार; D कन्याए। 4 CD कुडुङ्गा०। 5 B स्फीतवधुका यौवनेन । 6 BC श्रीपार्थबिम्बं । 7 P लोके। 8 P भक्षणतत्पराः। 9 P श्रीशेषो। 10 P धरणी। 11 P मा । Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.016085
Book TitlePrabandh kosha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Jinvijay
PublisherSinghi Jain Gyanpith
Publication Year1935
Total Pages176
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy