________________
प्रबन्धकोशे सूरये । यथा-भगवन् ! अस्यैव नगरस्यासन्नो ग्राम एक आसीत् । तत्र सुन्दरो नाम राजपुत्रो ग्रामणी'। तस्य द्वे पन्यो । एका प्रथमां पुत्री प्रास्त, अखिद्यत च। तदैव सपन्यप्यासन्नप्रसवा वर्तते । मा स्म इयं पुत्रं प्रसूय भर्तुः सविशेषं वल्लभा भूत्-इति स्त्रीत्वोचितया तुच्छ्या बुद्ध्या सूतिकामेकामवोचत-यदा इयं मे सपत्नी प्रसवकाले दैववशात्त्वामाह्वयति, तदा त्वया परस्था5 नात्प्रथमं सङ्गृहीतं मृतं कश्चिदपत्यं तत्र सञ्चार्यम् । तज्जातकं चेत्पुत्रो भवति तदा स्वयं गृहीत्वा ग्रामारे व्युत्स्रष्टव्यम् । इदं हेम गृहाण-इति सूत्रणां चक्रुषी । विधिवशात्तत्र तत्तया तथैव कृतम् । राजपुत्रो जातमात्रो ग्रामाद्दूरे क्षिप्तो ही। स राजपुत्रः पुण्याधिक इति तत्कुलदेवतया धेनुरूपेण दुग्धं दत्त्वा पालयन्त्याऽष्टवर्षदेशीयः कृतः । अत्रैव ॐकारनगरे शिवभवनाधिकारिणा भरटकेन दृष्टः, आलापितः, वां दीक्षां ग्राहितः । अन्यदा कन्यकुब्जदेशाधिपतिर्नरेन्द्रो 10 जात्यन्धो दिग्विजयकार्येण प्रत्यासन्नः समावासितः। रात्री लघुभरटकस्य शिवादेशः सञ्जातःत्वया कन्यकुब्जेशाय शेषा देया । तयाऽसौ सज्जाक्षो भावी । तद्वाक्यं लघुव॒हद्गुरवे समाख्याय तदाज्ञया शेषामादाय स्कन्धावारमध्यमेत्य राजामात्यानुवाच-भो! भो! खनाथमस्म. त्सम्मुखमानयध्वम् । यथा सद्यः कमलदलललितं खविषयग्रहणक्षमाक्षं कुर्महे । ततोऽमात्य
नुन्नो राजा तत्रायातः । ऋषिदत्तां शेषामादायाक्ष्णोर्निवेश्य सज्जाक्षो जातः । प्रीतः' भक्त्या 15 ग्रामशतानि शासनेऽदात् । अत्रैव च ॐकारे इममुत्तुङ्गं प्रासादमचीकरत् । वयमिह पुरे वसामः । जैनः प्रासादः कारयितुं न लभ्यते । मिथ्यादृशो बलिनः । तस्मात्तत्कुरु येन इतोऽधिकं तङ्ग रम्यं चैत्यं निष्पद्यते । बली त्वमेवेति । तद्वचनं श्रुत्वा वादी अवन्तीमागत्य चतुःश्लोकी हस्ते कृत्वा विक्रमादित्यद्वारमेत्य द्वास्थेनोपराजं श्लोकमचीकथत् । स तेन कथितो यथा
४५. दिक्षुर्भिक्षुरायातस्तिष्ठति द्वारि वारितः । हस्तन्यस्तचतुःश्लोक उतागच्छतु गच्छतु ॥ १९॥ 20 तं श्लोकं श्रुत्वा विक्रमादित्येन प्रतिश्लोकः कथापितो यथा
४६. दत्तानि दशलक्षाणि शासनानि चतुर्दश । हस्तन्यस्तचतुःश्लोक उतागच्छतु गच्छतु ॥ २० ॥
वादिना तं श्लोकं श्रुत्वा द्वास्थद्वारेण भाणितं राजे-दर्शनमेव भिक्षुरीहते नार्थम् । ततो राज्ञा खदृष्टौ आहूतः। उपलक्षितो भाषितश्च-भगवन् ! किमिति चिराद् दृश्यध्वे ? । आचार्य रुक्तम्-धर्मकार्यवशाचिरादायाताः । श्लोकचतुष्टयं शृणु । राज्ञि शृण्वति पठितं तत् । यथा25 ४७. अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुतः । मार्गणौषः समभ्येति गुणो याति दिगन्तरम् ॥ २१ ॥
४८. सरस्वती स्थिता वक्त्रे लक्ष्मीः करसरोरुहे । कीर्तिः किं कुपिता राजन् ! येन देशान्तरं गता ॥ २२॥ ४९. कीर्तिस्ते जातजाड्येव चतुरम्भोधिमजनात् । आतपाय धरानाथ ! गता मार्तण्डमण्डलम् ॥ २३॥
५०. सर्वदा सर्वदोऽसीति मिथ्या संस्तूयसे जनैः । नारयो लेभिरे पृष्ठं न वक्षः परयोषितः ॥ २४ ॥ श्रुत्वा तुष्टो विक्रमश्चतुरो गजान् यथासंख्यं वसन-सुगन्धद्रव्य-हेमनाणक-हारादिपूर्णान्30 आनाय्य सूरिमभाणीत्-इमे गृह्यन्ताम् । सूरिरूचे-नैतदर्थ्यहम् । पुनर्विक्रमो भणतिमन्महीसारभूतांश्चतुरो देशान् खैरमादत्व । वाद्याह-इदमपि नेच्छामि। तर्हि किमिच्छसीति?। श्रूयताम्-ॐकारे चतुर्दारं जैनप्रासादं शिवप्रासादादुच्चं कारय । स्वयं सपरिच्छदा
1P राजपुत्राग्रणीः। 2 P राजपुत्रोऽपि। 3 B नास्ति 'प्रीतः। 4 BCE द्वारि तिष्ठति वारितः। 5 CD राज्ञः।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org