Book Title: Prabandh kosha Author(s): Rajshekharsuri, Jinvijay Publisher: Singhi Jain GyanpithPage 60
________________ बप्पभट्टिसूरिप्रबन्धः। सम्यक्त्वमूलैकादशव्रतनिरतश्च श्रावकः कृतः। द्वादशं व्रतं त्वतिथिसंविभागाख्यं प्रथमचरमजिननृपाणां निषिद्धं सिद्धान्ते। ६४२) एकदा लक्षणावत्यां बौद्धो वर्द्धनकुञ्जरो धर्मपमाह सगद्गदम्-अहं बप्पमहिना जितस्तन्मे न दूषणम् । बप्पभट्टिर्हि भारती नररूपा,प्रज्ञामयः पिण्डः, गीष्पुत्रः, न च दुनोति। एतत्तु दुनोति यत्तव भृत्येनापि वाक्पतिराजेन सूरिकृतभेदान्मम मुखशौचोपायेन गुटी हारयामाहे । । एतावदभिधाय स तारं तारं रुरोद । स निवारितः क्षमापेन रोदनात् । उक्तश्च-किं क्रियते?, अयं नश्चिरसेवकोऽनेकसमराङ्गणलब्धजयप्रतिष्ठः प्रबन्धकविः पराभवितुं न रोचते । क्षमखेदमस्यागः। ततो बौद्धो जोषं स्थितः। ६४३) अपरेधुर्यशोधर्मनाम्ना समीपदेशस्थेन बलवता भूपेन लक्षणावतीमेत्य रणे धर्मनृपो व्यापादितः। राज्यं जगृहे । वाक्पतिरपि बन्दीकृतः । तेन कारास्थेन 'गौडवध' सञ्ज्ञकं प्राकृतं 10 महाकाव्यं रचयित्वा यशोधर्माय राज्ञे दर्शितम् । तेन गुणविशेषविदा ससत्कारं बन्देर्मुक्ता, क्षमितश्च । 'विद्वान् सर्वत्र पूज्यते । ततो वाक्पतिर्बप्पभर्टिसमीपं गतः। बयोस्तयोमैत्री पूर्वमप्यासीत् । तदानीं विशेषतोऽवृधत् । तेन वाक्पतिना महामहविजयाख्यं प्राकृतं महाकाव्यं बद्धम् । आमाय दर्शितम् । आमो हैमटङ्ककलक्षममै व्यशिश्रणत् ।। १०८. कियती पञ्चसहस्री कियती लक्षा च कोटिरपि कीयती । औदार्योन्नतमनसां रत्नवती वसुमती कियती ॥४८॥15 ६४४) अपरेयुः प्रभुःश्रीआमेन पृष्टः-भगवन् ! यूयं तावत्तपसा विद्ययाच लोके लब्धपरमरेखाः। किमन्योऽपि कोऽपि काप्यास्ते यो भवत्तुलालेशमवामोति । बप्पभटिरभाणीत्-अवनिपते ! मम गुरुवान्धवी गोविन्दाचार्य-नन्नसूरी सर्वैर्गुणैर्मदधिको गूर्जरधरायां मोढेरकपुरे स्तः । गुणोत्कण्ठयामितसैन्य आमस्तत्र गतः। तदा नन्नसुरिर्व्याख्यानेऽवसरायातान् वात्स्यायनोक्तान् कामाङ्गभावान् पल्लवयन्नासीत्।राज्ञा श्रुतं तत्सर्वम् । अरुचिरुत्पन्ना-अहो! वयं कामिनोऽपि नैतान् भावान् 20 विद्मः । अयं तु वेत्ति सम्यक् । तस्मादयमवश्यं नित्यं योषित्सङ्गी। किमस्य प्रणामेन?-इत्यकृतनतिरेवोत्थायाशु गोपगिरिमागात् । चिराद् दृष्टःक्ष्माप इति रणरणकाक्रान्तवान्ताःप्रभवो वन्दापयितुमैयरुः । राजा निरादरो न वन्दते तथा । एवं दिनानि कतिपयानि गतानि । एकदा गुरुभिः पप्रच्छे-राजन् ! यथा पुरा भक्तोऽभूस्तथेदानी भक्तो नासि । किमस्माकं दोषः कोऽपि । राजा माह-सुरिवर! भवादृशा अपि कुपात्रश्लाघां कुर्वते । किमुच्यते । सूरिभिरूचे-कथम् ?। आम:25 प्राह-यो भवद्भिः स्वौ गुरुवान्धवौ स्तुतौ । तत्र गत्वा एको नन्नसूरिनामा दृष्टः शृङ्गारकथाव्याख्यानलम्पटस्तपोहीनो लोहतरण्डतुल्यो मजति मजयति च भवाम्बुधौं । तस्मान्न किश्चिदेतत् । सूरयो मसीमलिनवदनाः स्ववसतिमगुः । तत्रोपविश्य द्वौ साधू मोढेरकपुरं प्रहितौ । तत्पार्थातत्र कथापितम्-आमोऽकृतप्रणामो भवत्पाझंदागतः । एवमेवं युवां निन्दति । तत्कर्तव्यं पेनासौ भवत्वन्येष्वपि श्रमणेषु अवज्ञावान्न भवति । सर्वं तत्रत्यं ज्ञात्वा तौ द्वावपि गुटिकया 30 वर्ण-खरपरावतं कृत्वा नटवेषधरौ गोपगिरिमीयतुः। श्रीऋषभध्वजचरित्रं नाटकत्वेन बबन्धतुः। नटान् शिक्षयामासतुः। आमराजमवसरं ययाचतुः । राज्ञाऽवसरो दत्तः। मिलिताः सामा 1AB राजेन्द्राय। 2D Oभः। + एतद्दण्डान्तर्गतं कथनं ABD आदर्श नास्ति, CEP आदर्श च लभ्यते। 3 पतित. मि P पुस्तके। 4 BD .मन्यः कोऽपि। 5 D व्याख्यानावसः। 6 P नास्ति । 7 AB सूरिरूचे। 8 A भघाब्धौ । 9 A भयुः। 10 BD भवेत् । Jain Education Intemational www.jainelibrary.org For Private & Personal Use OnlyPage Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176