Book Title: Prabandh kosha Author(s): Rajshekharsuri, Jinvijay Publisher: Singhi Jain GyanpithPage 63
________________ ४० . प्रबन्धकोशे इति ज्ञात्वा भवदभिमतदेवताशिषः पठन्तः स्म । यथारुचि हि श्रोतुः पुरः पठनीयं समयज्ञैः। वाक्पतिराह-यद्यप्येवं तथापि मुमुक्षवो वयमासन्ननिधनं ज्ञात्वा इह परमब्रह्म ध्यातुमायाताः स्म । बप्पभयो जगदुः-किं तर्हि रुद्रादयो मुक्तिदातारो न भवन्तीति मनुध्वे । वाक्पतिः प्राह-एवं सम्भाव्यते । बप्पभयो बभाषिरे-तर्हि यो मुक्तिदानक्षमस्तं शृणु । पठामि । इस जिन एव। १२२. मदेन मानेन मनोभवेन क्रोधेन लोभेन ससम्मदेन । पराजितानां प्रसभं सुराणां वृथैव साम्राज्यरुजा परेषाम् ॥ ६२ ॥ १२३. जं दिट्ठी करुणातरंगियपुडा एयस्स सोमं मुहं, आयारो पसमायरो परियरो संतो पसन्ना' तणू । तं मन्ने जरजम्ममञ्चहरणो देवाहिदेवो जिणो', देवाणं अवराण दीसइ जओ नेयं सरूवं जए ॥ ६३ ॥ 10 इत्यादि बहु पेठे । वाक्पतिः प्राह-स जिनः वास्ते । सूरिः-स्वरूपतो मुक्ती मूर्तितस्तु जिना यतने । वाक्पतिते-प्रभो! दर्शय तम् । प्रभुरपि आमनरेन्द्रकारिते प्रासादे तं निनाय । स्वयं प्रतिष्ठितवरं श्रीपार्श्वनाथमदीदृशत् । शान्तं कान्तं निरञ्जनं रूपं दृष्टा प्रबुद्धो बभाषे-अयं निरअनो देव आकारेणैव लक्ष्यते । तदा बप्पभट्टिसूरिभिर्देव-गुरु-धर्मतत्त्वान्युक्तानि । रञ्जितः सः। मिथ्यात्ववेषमुत्सृज्य जैन ऋषिः श्वेताम्बरोऽभूत् । जिनमवन्दिष्ट, अपाठीच15 १२४. मयनाहिंसुरहिएणं इमिणा किं किर" फलं णलाडेणं । इच्छामि अहं जिणवर ! पणामकिणकलुसियं काउं ॥६४॥ १२५. दोवि गिहत्था धडहड वच्चई को किर कस्स वि पत्त भणिजई। सारंभो सारंभं पुजइ कद्दमु कद्दमेण किमु' सुज्झइ ॥ ६५॥ प्रत्यासन्ने आयुषि 'मथुराचातुर्वर्ण्यस्य आमभूपसचिवलोकस्य च प्रत्यक्षं अष्टादशपापस्थानानि त्याजितः । नमस्कारं पञ्चपरमेष्ठिमयं श्रावितः । जीवेषु क्षामणां कारितो वाक्पतिः सुखेन 20 त्यक्ततनुर्दिवमगमत् । तत्सर्व प्रधानैरन्यैरपि प्रथमं ज्ञापितो नृपः। पश्चाप्पभदिर्गोपगिरिंगतः। राजाभितुष्टुवे" सूरिशक्रम्-. १२६. आलोकवन्तः सन्त्येव भूयांसो भास्करादयः । कलावानेव तु ग्रावद्रावकर्मणि कर्मठः ॥ ६६ ॥ ६४७) एकदा राज्ञा सूरिः पृष्टः-किं कारणं येनाहं ज्ञातजैनतत्त्वोऽपि अन्तराऽन्तरा तापसधर्मे रतिं बध्नामि ? । सूरिराह-प्रातर्वक्ष्यामः। प्रातरायाताःप्रोचुः-राजन् ! अस्माभिर्भारतीवचसा तव 25 प्राग्भवो ज्ञातः । त्वं कालिञ्जरगिरेस्तीरे शालनामा तपस्वी शालट्ठमाधोभागे छुपवासान्तरित भोजनस्तपो बहूनि वर्षाण्यतपथाः । स मृत्वा त्वमुत्पन्नः। तस्यातिदीर्घा जटास्तत्रैव लतान्तरिता अद्यापि सन्ति । तदाकर्ण्य आप्तनरास्तत्र राज्ञा प्रहिताः। तेर्जटा आनीताः । सूरियाक्संवादो दृष्टः । भूपतिः सूरीणां पदोर्विलग्य तस्थौ । परमाहतो बभूव । ४८) अन्यदा सौधोपरितलस्थेन आमेन कापि गृहे भिक्षार्थं प्रविष्टो मुनिदृष्टः । तत्र युवति50रेका कामार्ता गृहागतं मुनि परब्रह्मैकचित्तं रिरमयिषुः कपाटसम्पुटं ददौ । मुनिर्नेच्छति ताम् । तया मुनये पादतलप्रहारे दीयमाने नूपुरं मुनिवरचरणे प्रविष्टं काकतालीयन्यायादैन्धवर्तकीन्यायाच । राजा तद् दृष्ट्वा सूरये समस्यां ददौ 1A पसंता। 2P इमो। 3 P बभाण। 4 AB तथा। 5 P मयनाए। 6P कर। 7 PC किम । 8 ABD अस्यासन्ने; P अत्यासले। 9A 'मथुरा' नास्ति। 10 P राजा तुष्टस्तुष्टुवे। 11 AB तत्वा। 12 P०प्यस्ति । 13 P न्यायेन । Jain Education Intemational www.jainelibrary.org For Private & Personal Use Only For Private & Personal Use OnlyPage Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176