Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 69
________________ प्रबन्धकोशे तावत्प्रज्ञागङ्गाहिमाद्रयः सर्वसमाचारीनारीसौभाग्यवर्द्धनमकरध्वजाः क्षितिपतिसदःकुमुदिनीश्वेतदीधितयो भारतीधर्मपुत्राः श्रीवप्पभटिसूरयस्त्रिदिवलोकलोचनलेह्यललितपुण्यलावण्यतामादधिरे । तत्स्थाने सम्प्रति दीर्घायुषो यूयं स्थ। दृष्टविज्ञप्तिप्रमाणेनात्र पादोऽवधार्यः । तद् दृष्ट्वा भक्तिरहस्यं सूरयः ससंघाः सुतरां जहषुः। संघानुमत्या गोविन्दाचार्य मोढेरके मुक्त्वा श्रीनन्नसू5रयो गोपगिरिं समसरन् । भोजः पादचारेण ससैन्यः सम्मुखमायातः । गुरोः पादोदकं पपौ। उल्लसत्तष्णो गिरं शश्राव । स्थानस्थानमिलितजनहृदयसंघट्टचरितहारमौक्तिकधवलितराजपथं पुरं निनाय । सिंहासने निवेशयामास तान् । मङ्गलं चकार । तदाऽऽज्ञामयो बभूव । तद्भक्तानात्मवद्ददर्श । तदभक्तान् विषवदीक्षांचक्रे । तदुपदेशान्जिनमण्डितां मेदिनीं विदधौ । दुन्दुकस्य तादृग मरणं स्मृत्वा कुपथेषु न रेमे । मथुरा-शत्रुञ्जयादिषु यात्राश्चकार । एकादश व्रतानुचचार । 10 पूर्वराजर्षियशांसि उद्दधार । चिरं राज्यं भेजे । इत्येवं गोपगिरौ भोजो धर्म लालयामास उदियाय च । अन्यैरपि पुण्यपुरुषैरेवं भाव्यम् । ॥ इति श्रीबप्पभट्टिचरित्रम् ॥९॥ ॥ ग्रन्थाग्रं ६०० ॥ १०. अथ श्रीहेमसूरिप्रबन्धः । 15 (५५) पूर्णतल्लगच्छे श्रीदत्तसूरिः प्राज्ञः वागडदेशे वटपद्रं पुरंगतः। तत्र खामी यशोभद्रनामा राणकः ऋद्धिमान् । तत्सौधान्तिके उपाश्रयः श्राद्धैर्दत्तः । रात्री उन्मुद्रचन्द्रातपायां राणकेन ऋषयो दृष्टा उपाश्रये निषण्णाः । श्रावकामात्यपाधै पृष्टम्-के एते?। अमात्यः प्रोचे-देव! महामुनयोऽमी विषमव्रतधारिणः । राणकस्य श्रद्धा । प्रातर वन्दितुं गतः । देशना । श्रावकत्वं सुष्टुसम्पन्नम् । मासकल्पमेकं स्थिताः । परदेशं गता गुरवः । तावता वर्षाकालः । देवपूजादिधर्म20 व्यापारसाराण्यहानि गमयति राणः । प्राप्ता शरद् । चरिक्षेत्राणि द्रष्टुं गतो राणः । तावता बुण्टानि ज्वालयन्ति भृत्याः। तेषु सर्पिण्येका गर्भभारालसा ज्वालादिभिर्दह्यमाना तडफडायमाना सिमिसिमायमाना राणेन दृष्टा । दयोत्पन्ना, विरक्तश्च । हा! हा! संसारं, धिग् गृहवासं, कस्य कृते पापमिदमाचर्यते?। राज्यमपि दष्पालं मायाजालं नरकफलम । तस्मात्सर्वसङपरिस इति ध्यायन सौधमयासीत् । निशि श्रावकमन्त्रिणमाकार्य रहोऽप्राक्षीत्-मम धर्मगुरवः श्रीदत्त25 सूरयः क विहरन्ति ?। मच्याह-डिण्डुआणके । विसृष्टो मन्त्री शेषपरिच्छदश्च । राणको मिताश्वपरिवारः सारं हारमेकं सह' गृहीत्वा शीघ्र डिण्डुआणकं प्राप्तः । गुरवो दृष्टा वन्दिताः। भववैराग्याद्रुदितः । पदोले गित्वा कथितं स्वपापम् । गुरुभिर्भणितम्-राणक ! चारित्रं विना न छुटन्ति पापेभ्यो जीवः । राणकेन न्यगादि-सद्यो दीयतां तर्हि तत् । सूरय ओमित्याहुः । राणकेन डिण्डुआणकीयश्रावकाः समाकारिताः । हारोऽर्पितः । दिव्यः प्रासादः कार्यतामिति । 30 तथाऽऽचरितं तैः। अद्यापि दृश्यते स तत्र । राणकैर्ऋतमात्तम् । नन्द्यामेव षड्विकृतिनियमः, एकान्तरोपवासा यावज्जीवम् । तस्य राणयशोभद्रस्य गीतार्थत्वात्सूरिपदं जातम् । श्रीयशोभद्रसूरिः 1E 'सर्व' नास्ति । 2 A विज्ञप्तिमात्रेणात्र। 3 गिरिमसरन्। B.गिरिमरन् । 4 A.हरितः। 5A श्रुत्वा । 6P श्रद्धा बभूव। 7P नास्ति । Jain Education Intemational For Private & Personal Use Only For Private & Personal use only www.jain www.jainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176