________________
प्रबन्धकोशे तावत्प्रज्ञागङ्गाहिमाद्रयः सर्वसमाचारीनारीसौभाग्यवर्द्धनमकरध्वजाः क्षितिपतिसदःकुमुदिनीश्वेतदीधितयो भारतीधर्मपुत्राः श्रीवप्पभटिसूरयस्त्रिदिवलोकलोचनलेह्यललितपुण्यलावण्यतामादधिरे । तत्स्थाने सम्प्रति दीर्घायुषो यूयं स्थ। दृष्टविज्ञप्तिप्रमाणेनात्र पादोऽवधार्यः । तद् दृष्ट्वा भक्तिरहस्यं सूरयः ससंघाः सुतरां जहषुः। संघानुमत्या गोविन्दाचार्य मोढेरके मुक्त्वा श्रीनन्नसू5रयो गोपगिरिं समसरन् । भोजः पादचारेण ससैन्यः सम्मुखमायातः । गुरोः पादोदकं पपौ। उल्लसत्तष्णो गिरं शश्राव । स्थानस्थानमिलितजनहृदयसंघट्टचरितहारमौक्तिकधवलितराजपथं पुरं निनाय । सिंहासने निवेशयामास तान् । मङ्गलं चकार । तदाऽऽज्ञामयो बभूव । तद्भक्तानात्मवद्ददर्श । तदभक्तान् विषवदीक्षांचक्रे । तदुपदेशान्जिनमण्डितां मेदिनीं विदधौ । दुन्दुकस्य तादृग मरणं स्मृत्वा कुपथेषु न रेमे । मथुरा-शत्रुञ्जयादिषु यात्राश्चकार । एकादश व्रतानुचचार । 10 पूर्वराजर्षियशांसि उद्दधार । चिरं राज्यं भेजे । इत्येवं गोपगिरौ भोजो धर्म लालयामास उदियाय च । अन्यैरपि पुण्यपुरुषैरेवं भाव्यम् ।
॥ इति श्रीबप्पभट्टिचरित्रम् ॥९॥
॥ ग्रन्थाग्रं ६०० ॥
१०. अथ श्रीहेमसूरिप्रबन्धः । 15 (५५) पूर्णतल्लगच्छे श्रीदत्तसूरिः प्राज्ञः वागडदेशे वटपद्रं पुरंगतः। तत्र खामी यशोभद्रनामा
राणकः ऋद्धिमान् । तत्सौधान्तिके उपाश्रयः श्राद्धैर्दत्तः । रात्री उन्मुद्रचन्द्रातपायां राणकेन ऋषयो दृष्टा उपाश्रये निषण्णाः । श्रावकामात्यपाधै पृष्टम्-के एते?। अमात्यः प्रोचे-देव! महामुनयोऽमी विषमव्रतधारिणः । राणकस्य श्रद्धा । प्रातर वन्दितुं गतः । देशना । श्रावकत्वं सुष्टुसम्पन्नम् । मासकल्पमेकं स्थिताः । परदेशं गता गुरवः । तावता वर्षाकालः । देवपूजादिधर्म20 व्यापारसाराण्यहानि गमयति राणः । प्राप्ता शरद् । चरिक्षेत्राणि द्रष्टुं गतो राणः । तावता बुण्टानि ज्वालयन्ति भृत्याः। तेषु सर्पिण्येका गर्भभारालसा ज्वालादिभिर्दह्यमाना तडफडायमाना सिमिसिमायमाना राणेन दृष्टा । दयोत्पन्ना, विरक्तश्च । हा! हा! संसारं, धिग् गृहवासं, कस्य कृते पापमिदमाचर्यते?। राज्यमपि दष्पालं मायाजालं नरकफलम । तस्मात्सर्वसङपरिस इति ध्यायन सौधमयासीत् । निशि श्रावकमन्त्रिणमाकार्य रहोऽप्राक्षीत्-मम धर्मगुरवः श्रीदत्त25 सूरयः क विहरन्ति ?। मच्याह-डिण्डुआणके । विसृष्टो मन्त्री शेषपरिच्छदश्च । राणको मिताश्वपरिवारः सारं हारमेकं सह' गृहीत्वा शीघ्र डिण्डुआणकं प्राप्तः । गुरवो दृष्टा वन्दिताः। भववैराग्याद्रुदितः । पदोले गित्वा कथितं स्वपापम् । गुरुभिर्भणितम्-राणक ! चारित्रं विना न छुटन्ति पापेभ्यो जीवः । राणकेन न्यगादि-सद्यो दीयतां तर्हि तत् । सूरय ओमित्याहुः । राणकेन डिण्डुआणकीयश्रावकाः समाकारिताः । हारोऽर्पितः । दिव्यः प्रासादः कार्यतामिति । 30 तथाऽऽचरितं तैः। अद्यापि दृश्यते स तत्र । राणकैर्ऋतमात्तम् । नन्द्यामेव षड्विकृतिनियमः, एकान्तरोपवासा यावज्जीवम् । तस्य राणयशोभद्रस्य गीतार्थत्वात्सूरिपदं जातम् । श्रीयशोभद्रसूरिः
1E 'सर्व' नास्ति । 2 A विज्ञप्तिमात्रेणात्र। 3 गिरिमसरन्। B.गिरिमरन् । 4 A.हरितः। 5A श्रुत्वा । 6P श्रद्धा बभूव। 7P नास्ति ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal use only
www.jain
www.jainelibrary.org