________________
भट्टिसूरिप्रबन्धः ।
१३७. महाव्रतानि पञ्चैव षष्ठकं रात्रिभोजनम् । विराधितानि यत्तत्र मिथ्यादुष्कृतमस्तु मे ॥ ७७ ॥ ..इति ब्रुवाणा आसीना अदीनाः कालमकार्षुः । श्रीवप्पभट्टिसूरीणां श्रीविक्रमादित्यादष्टशतवर्षेषु गतेषु भाद्रपदे शुक्ल तृतीयायां रविदिने हस्तक्षै जन्म, पञ्चनवत्यधिकेषु तेषु गतेषु स्वर्गारोहणम् । तदैव मोढेरे नन्नसूरीणामग्रे भारत्योक्तम् - भवगुरव ईशानदेवलोकं गताः । तत्र बाढं शोकः प्रससार ।
१३८.
शास्त्रज्ञाः सुवचखिनो बहुजनस्याधारतामागताः सद्वृत्ताः स्वपरोपकारनिरता दाक्षिण्यरत्नाकराः । सर्वस्याभिमता गुणैः परिवृता भूमण्डनाः सज्जना
धातः ! किं न कृतास्त्वया गतधिया कल्पान्तदीर्घायुषः ॥ ७८ ॥
Jain Education International
४५
वृद्धैस्तु प्रबोधो दत्तः
१३९. हित्वा जीर्णमयं देहं लभते भो पुनर्नवम् । कृतपुण्यस्य मर्त्यस्य मृत्युरेव रसायनम् ॥ ७९ ॥ इति । दुन्दुकेन सूरिभिः सह प्रहिता ये सैनिकास्ते निवृत्य दुन्दुकपार्श्व गताः । सोऽपि पश्चात्तापानलेन दन्दयते स्म । भोजेनापि समातुलेन सूरिशिष्याणामन्येषामपि लोकानां मुखादवगतं यथा - सूरय एवं मनुः । तव पार्श्व नाजग्मुः । मा स्मायमस्मदुपरोधसङ्कटे पतितः पितुः पार्श्व गतः सन् 'मृत इति कृपाँ दधुः । तदेतदाकर्ण्य भोजस्तथा पीडितो यथा वज्रपातेनापि न पीड्यते । 15 पितुरन्तिकं नागादसौ ।
5
For Private & Personal Use Only
९५३) एकदा मालिकः कोऽपि पूर्वमामराजभृत्यो विदेशं भ्रमित्वा' भोजान्तिकमागतः पाटलीपुरे । तेनोक्तम्- देव ! त्वं मत्स्वामिकुलप्रदीपः । मया विदेशे सद्गुरोर्मुखाद्विद्यैका लब्धा मातुलिङ्गी नाम, ययाऽभिमन्त्रितेन मातुलिङ्गेन हताः करि-हरिमाया अपि बलिनो म्रियन्ते, मानवानां तु का कथा । देव ! गृहाण ताम् । भोजेन सा तस्मादात्ता । प्रमाणिता; सत्या 1 20 मालिको दानमानाभ्यां भोजेन रञ्जितः । मातुलाः सर्वे भोजेन विद्याशक्तिं प्रकाश्य तोषिताः । त ऊचुः- यदि इयं ते शक्तिस्तदा प्राभृतमिषेण मातुलिङ्गानि गृहीत्वाऽस्माभिः सह पितुः समीपं व्रज । पितरं निपात्य राज्यं गृहाण । तद् रुरुचे भोजाय । चलितो बहुमातुलिङ्गशाली' सन् । गतः पितुर्द्वारम्, कथापितं च-तात! त्वं पूज्योऽहं शिशुः । त्वत्तो मरणं वा राज्यं वा सर्व रम्यं मे । राजा सन्तुष्टः । अहो विनीतः सुतः, आयातु इति विमृश्य आहूतो भोजः । शोधितो 25 मध्यमागतः । एकासनस्थौ कण्टिका- राजानौ पृथक्पृथग् मातुलिङ्गेन जघान । सम्यगविद्या हि नान्यथा । उपविष्टो दुन्दुकराज्ये भोजः । तन्मातुला अतुलं तोषं दधुः । माता पद्मा प्रससाद । दुन्दुकेन धनहरणेन ग्रासोद्दालनादिना दूनचरा राजन्यकाः पुनर्जातमात्मानं मेनिरे । महाजनो जिजीव । वर्णाः सर्वे उमेदुः । संसारसरोऽम्भोजं भोजं कमला भेजे । दोर्बलात्परिच्छदबलाच जगजिगाय ।
30
९५४) अथ कृतज्ञतया मोढेरपुरे नन्नसूरये विज्ञप्तिं दत्त्वा उत्तमनरान् प्रैषीत् । ते गतास्तत्र । विज्ञप्तिर्दर्शिता तैस्तत्र । वाचिता नन्नसूरि- गोविन्दाचार्यैर्यथा - स्वस्ति श्रीमोढेरे परमगुरुश्रीनन्नसूरि-श्रीगोविन्दसूरिपादान् सगच्छान् गोपगिरिदुर्गात् श्रीभोजः परमजैनो विज्ञपयति, यथा-इह 1 P हस्तार्के । 2 P नियत । 3 P भ्रान्वा । 4P • शोभी ।
10
www.jainelibrary.org