________________
४४
प्रबन्धकोशे णकारिणी वाक्पटुः सर्व राज्यं ग्रसते हिमानीव चित्रम् । भोजमातरं पद्मां नाम अन्या अपि राज्ञीरन्वयवतीविनयवतीर्लावण्यवतीस्तृणाय मनुते । एकदा कलाकेलिनामा ज्योतिषिको निशि विसृष्टे सेवकलोके दुन्दुकराजं विजनं दृष्ट्वाऽवादीत्-देव ! वयं भवत्सेवकत्वेन सुखिनः ख्याताः श्रीशाश्च । यथातथं ब्रूमः-अयं ते भोजनामा तनयो भाग्याधिकस्त्वां हत्वा तव राज्ये निवे5क्ष्यते । यथार्ह स्वयं कुर्वीथाः । राजा तवधार्य वज्राहत इव क्षणं मौनी तस्थौ । ज्योतिषिकं विससर्ज । सा वार्ता भोजजननीसहचर्या दास्यैकया विपुलस्तम्भान्तरितया श्रुता । भोजमात्रे चोक्ता । सा पुत्रमरणाद्विभाय । राजापि कण्टिकागृहमगात् । सापि राजानं सचिन्तमालोक्यालापीत्-देव ! अद्य कथं म्लानवदनः । राजाऽऽह स्म-किं क्रियते ?, विधिः कुपितः । पुत्रान्मे मृत्युर्ज्ञानिना दृष्टप्रत्ययशतेन कथितः । कण्टिका वदति स्म-का चिन्ता, मारय पुत्रम् । सुत10 मपि निर्दलयन्ति राज्यलुब्धाः । सुतो न सुतः । सुतरूपेण शत्रुरेव सः। तद्वचनाहुन्दुकः सुतं जिघांसामास । यावता घातयिष्यति तावता भोजमात्रा पाडलीपुरे खभ्रातॄणां सूराणां राज्यश्रीवयंवरमण्डपानां लेहलानां धर्मज्ञानामग्रे प्रच्छन्न रेलेखेन ज्ञापितम् , यथा-एवमेवं भवतां भागिनेयो विनंक्ष्यति । रुष्टो' राजा । आगत्य एनं गृहीत्वा गच्छत । रक्षतां जीववत् । मा माह
भवत्सु सत्सु निष्पुत्राऽभूवम्-इति । तेऽप्यागच्छन् , दुन्दुकमनमन् । उत्सवमिषेण भागिनेयं 15 भोजं गृहीत्वा पाटलीपुत्रमगमन् । तत्र तमपीपठन्, अलीललन् । शस्त्राभ्यासमचीकरत् ।
ववदमंसत । तत्र तस्य पश्चाब्दी दिनैः कतिभिरप्यूनाऽतिक्रामति स्म । कण्टिका दुन्दुकाने कथयति स्म-देव! पुत्ररूपस्ते शत्रुर्मातृशाले वर्द्धते । नखच्छेद्यं पशुच्छेद्यं मा कुरु । अत्रानीय च्छन्नं यमसदनं नय । राजाऽऽह-सत्यमेतत् । ततो दूतमुखेन दुन्दुको भोज तन्मातुलेभ्योऽयाचीत्।ते भोजं नार्पयन्ति। पुनः पुनः खान दूतान् दुन्दुका प्रहिणोति । भोजमातुलाः प्राहुः-राजन्! 20 वयं तव भावं विद्मः, नार्पयाम एवैनम्।धर्मपात्रमसौ। अन्योऽपि शरणागतो रक्ष्यः क्षत्रियैः, किं पुनरीदृग् भगिनीपुत्रः ? । बलात्कारं ब्रूषे चेत् , युद्धाय प्रगुणीभूयागच्छेः। भगिनीपतये चमत्कारं दर्शयिष्यामः । ततैरागत्योक्तम् । दुन्दुकः कुपितोऽपि तान् हन्तुं न क्षमः ।। भोजोऽपि तैः पितुर्दुष्टत्वं ज्ञापितः केवचहर उपपितृ नैति । ततो दुन्दुकेन बप्पभटिसूरयः प्रार्थिताः-यूयं गत्वा भोजं सुतमनुनीयानयत मानयत माम् । अनिच्छन्तोऽपि तत्सैनिकैः सह पाटलीपुत्रं चेलः। 25 अर्द्धमाग सम्प्राप्तः स्थित्वा विमृष्टं ज्ञानदृष्ट्या-भोजस्तावन्मम वचसा नृपसमीपं नैष्यति ।
आनीयते वा यथा तथा; तदानीतोऽपि पित्रा हन्यते । वाग्लङ्घने राजाऽपि क्रुद्धो मां हन्ति । तस्मादितो व्याघ्र इतो दुस्तटी इति न्यायः प्राप्तः । समाप्तं च ममायुः, दिवसद्वयमवशिष्यते, तस्मादनशनं शरणम्-इति विमृश्यासन्नस्थयतयो भाषिताः-नन्नसूरि-गोविन्दाचार्यों प्रति हिता
भवेत । श्रावकेभ्यो मिथ्यादुष्कृतं ब्रूयात् । परस्परममत्सरतामाद्रियेध्वम् । क्रियां पालयेत। 30 आबालवृद्धान् लालयेत । नो वयं युष्मदीयाः, न यूयमस्मदीयाः । सम्बन्धाः कृत्रिमाः सर्वे । इति शिक्षयित्वाऽनशनस्थाः समतां प्रपन्नाः। १३६. अर्हतस्त्रिजगद्वन्द्यान् सिद्धान् विध्वस्तबन्धनान् । साधूंश्च जैनधर्म च प्रपद्ये शरणं त्रिधा ॥ ७६ ॥
1 ABD तथातथं । 2 A •पुत्रे। 3 P 'नरैः' नास्ति। 4 Bराजा रु। 5 P अगच्छत् । 6 P रक्षति । 7P निष्पुत्रो। 8 AB अलीलपन् । 9 A दुन्दकः। 10 AB मातुलपाधै। एतचिह्नान्तर्गतः पाठः पतितः P पुस्तके।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org