________________
15
बप्पभट्टिसूरिप्रबन्धः। मुग्धबालिकाः।सर्वाभिः श्वेताम्बरपक्षबालिकाभिः पठिता सा गाथा । अपरासु तु नैकयाऽपि । ततो जातं श्वेताम्बरसादैवततीर्थम् । अम्बिकया खस्थया पुष्पवृष्टिः श्वेताम्बरेषु कृता । ततो नष्टा' दिकपटा महाराष्ट्रादिदक्षिणदेशानगमन्। राज्ञाऽन्यैरपि सर्वसङ्घश्चिरात्तत्र मिलितैर्नेमिर्नेमे। वित्तं ददे । प्रभासे चन्द्रप्रभः प्रणेमे । बन्दिमोक्षः सर्वत्रापि कारितः। आमस्य भुक्तौ गूर्जरादिदेशास्तदा तीर्थानां चिरं पूजोपयोगिनो हटाद्यायाः प्रकृप्ताः । एवं कार्याणि कृत्वा ससूरिन॒पो 5 गोपगिरि प्राविशत् । संघपूजादिमहास्तत्र नवनवाः । प्राप्तप्राये काले दुन्दुको राज्ये प्रतिष्ठितः। आपृष्टः सः। लोकोऽपि क्षमितः । अनृणो देशः कृतः। सह सूरिणा नावाऽऽरूढो गङ्गासरित्तीरें तीर्थ मागधं गतः। तत्र जले धूमं दृष्टवान् । तदा सूरीन्द्रमक्षमयत् । संसारमसारं विदन अनशनमगृह्णात् । समाधिस्थः श्रीविक्रमकालात् अष्टशतवर्षेषु नवत्यधिकेषु व्यतीतेषु भाद्रपदे शुक्लपञ्चम्यां पञ्च परमेष्ठिनः स्मरन् राजा दिवमध्यष्ठात् । सूरयस्तत्त्वज्ञा अपि रुरुदुः। चिरप्रीतिमोहो 10 दुर्जय एव । सेवकास्तु चक्रन्दुः-हा शरणागतरक्षावज्रकुमार! हा राजस्थापनादाशरथे ! हा अश्वदमननल ! हा सत्यवाग युधिष्ठिर ! हा हेमदानकर्ण! हा मज्जाजैनश्रेणिक ! हा सूरिसेवासम्प्रते! हा अनृणीकरणविक्रमादित्य ! हा वीरविद्याशातवाहन ! अस्मान् विहाय क गतोऽसि । दर्शयैकदाऽस्मभ्यमात्मानम् । मैकाकिनो मुश्च । एवं विलपन्तस्ते सूरिभिः प्रतियोधिताः-भो भो! सत्यं देवेन पापेन
१३३. आलब्धा कामधेनुः सरसकिशलयश्चन्दनचर्णितो हा
छिन्नो मन्दारशाखी फलकुसुमभृतः खण्डितः कल्पवृक्षः । दग्धः कर्पूरखण्डो घनहतिदलिता मेघमाणिक्यमाला
भन्नः कुम्भः सुधायाः कमलकुवलयैः केलिहोमः कृतोऽयम् ॥ ७३ ॥ तथापि मा शोचत शोचत । यतः
20 १३४. पूर्वाह्ने प्रतिबोध्य पङ्कजवनान्युत्सार्य नैशं तमः, कृत्वा चन्द्रमसं प्रकाशरहितं निस्तेजसं तेजसा ।
___ मध्याह्ने सरितां जलं प्रविस्तै रापीय दीप्तैः करैः, सायाह्न रविरस्तमेति विवशः किं नाम शोच्यं भवेत् ॥७४॥ इति लोकं निःशोकं कृत्वा लोकेन सह सूरिर्गोपगिरिमागात् । सूरिभिर्दुन्दुको राजा आमेन आमशोकेन जात्यमुक्ताफलस्थूलानि अश्रूण्युगिरन हिमम्लानपद्मदीनवदनश्चिन्ताचान्तखान्तो बभाषे-राजन् ! कोऽयं महतस्तव पितृशोकः । स हि चतुर्वर्ग संसाध्य कृतकृत्यो बभूव । यशो-25 मयेन देहेन चाचन्द्रं जीवन्नेवास्ते । पुण्यलक्ष्मीः कीर्तिलक्ष्मीश्चेति द्वे नरस्योपकारिण्यौ वल्लभे । १३५. पुण्यलक्ष्म्याश्च कीर्तेश्च विचारयत चारुताम् । स्वामिना सह यात्येकाऽपरा तिष्ठति पृष्ठतः ॥ ७५ ॥
अन्योऽप्येवंविधः कोऽपि भवतु । इत्येवंविधाभिर्वाग्भिन्दुकराजं सूरिराजो निःशोकमकापीत् । दुन्दुकः शनैः शनैः परमाहतोऽभूत् । राजकार्याणि अकार्षीत् । त्रिवर्ग स समसेविष्ट ।
६५२) एवं वर्तमाने काले, एकदा दुन्दुकश्चतुष्पथे गच्छन् कण्टिकां नाम गणिकामुदाररूपां चि-30 दूपां युवजनमृगवागुरां मदनमायामयीमालोकिष्ट । तां शुद्धान्तस्त्रीमकार्षीत् । तया दुन्दुकस्तथा वशीकृतो यथा यदेव सा वदति तत्सत्यम्; यदेव सा करोति तदेव हितं मनुते । सा तु कार्म
- 1 A ना। 2 A. तीर्थे । 3 BP जैनत्व। 4A मा मुचः। 5 AB सतां। 6P प्रविशतैः। 7 P नास्ति । 8A जीवनाते।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org