________________
प्रबन्धको
1
राजन् ! यद्व्यन्तरेण 'तवाऽग्रे कथितं आयुः प्रमाणं तत्तथैव । धर्मपाथेयं गृह्णीयाः । तदाकर्ण्य भूपस्तुतोष विसिष्मिये' च, अहो ज्ञानम् ! । अथवा विस्मय एव कः ? - सूरस्तेजस्वी, इन्दुराह्लादकः, गङ्गाम्भः पावनम्, जैना ज्ञानिन इति । दिनद्वये गते सूरिः श्रीआमस्य पुरः प्रसङ्गेन श्री नेमिनाथस्याशीर्वादं पपाठ । यथा
४२
5१३०. लावण्यामृतसारसारणिसमा सा भोजसूः * स्नेहला, सा लक्ष्मीः स नवोद्गमस्तरुणिमा सा द्वारिका तद्वलम् । गोविन्द शिवासमुद्रविजयप्रायाः प्रियाप्रेरकाः, यो जीवेषु कृपानिधिर्व्यधित नोद्वाहं स नेमिः श्रिये ॥ ७० ॥ भूयोऽपि -
१३१. मग्नैः कुटुम्बजम्बाले यैर्मिथ्याकार्यजर्जरैः । नोज्जयन्ते नतो नेमिस्ते चेजीवन्ति के मृताः ॥ ७१ ॥
९५१) तथा रैवतकतीर्थमहिमा सूरिभिर्व्याख्याय पल्लवितः यथा भूमिमाहत्योत्थाय परिकरं 10 बद्ध्वा सरभसं भूषः प्रतिशुश्राव - रैवतके नेमिमवन्दित्वा मया न भोक्तव्यमिति । लोकैर्निषिद्ध: - राजन् ! मामा, दूरे रैवतको गिरिः, मृदवो भवादृशाः । राजाऽह - प्रतिज्ञातं मे न चलति । ततः सह सूरिणा आमः [*लक्षमेकं पृष्ठवाहा वृषभाः करभसहस्र २०, हस्तिशत ७, अश्वलक्षमेकं, पदातिलक्षत्रयं, श्राद्धकुटुम्बसहस्र २०] सारसैन्यो' रैवतकायाचालीत् । स्तम्भतीर्थ यावगतः तावत् क्षुत्तापेन व्याकुलितोऽपि प्राणसन्देहं प्राप्तोऽपि नाहारमग्रहीत् । भीतो लोकः । 15 खिन्नः सूरिः । मन्त्रशक्त्या कूष्माण्डीं देवीं साक्षादानिनाय । तदग्रे कथयामास तत्कुरु येन राजा जेमति जीवति च । तद्वचनात्कूष्माण्डी बिम्बमेकं महच्छिरसा बिभ्रती गगनेन आमसविधं गता, ऊचे च-वत्स ! साऽहमम्बिका । तव सत्त्वेन तुष्टा । गगने आगच्छन्तीं मां त्वं साक्षादद्राक्षीः । मयेदं रैवतैकदेशभूतादवलोकनाशिखरान्नेमिनाथबिम्बमानीतम् । इदं वन्दख । अस्मिवन्दिते मूलनेमिर्वन्दित एवं कुरु पारणकम् । सूरिभिरपि तत्समर्थितम् । लोकेनापि स्थापि20 तम् । तद्विम्बं वन्दित्वा राज्ञा ग्रासग्रहणं चक्रे । अद्यापि तद्विम्बं स्तम्भतीर्थे पूज्यते । उज्जयन्त इति प्रसिद्धं तत्तीर्थम् । हृद्यातोद्यानि ध्वानयन्नामो विमलगिरौ वृषभध्वजं सोत्सवं वन्दित्वा यावद्वैवताद्रिं गतः तावता तत्तीर्थं दिगम्बरै रुद्धं श्वेताम्बरसंघः प्रवेष्टुं न लभते । आमेन तज्ज्ञातम् । ज्ञात्वाचे- युद्धं कृत्वा निषेद्धृन्हत्वा श्रीनेमिं नंस्यामि । तावत्तत्र दिगम्बर भक्ता एकादश राजानो मिलिताः । सर्वे युद्धैकतानास्तदा बप्पभहिना भणितम् - आमराजेन्द्र ! धर्मकार्ये पापा25 रम्भः कथं क्रियते ? । लीलयैव तीर्थमिदमात्मसात्करिष्ये । भवद्भिः स्थिरैः स्थेयम् । एवं भूपं प्रबोध्य बप्पभरुपदिगम्बरं 'उपतद्भक्तं भूपं च नरं प्रहित्यावभाणत्-इदं तीर्थं यस्याम्बिका दत्ते तस्य पक्षस्य सत्कमिति मन्यध्वे । तैरुक्तम् - युक्तमेतत् । ततो बप्पभहिना सुराष्ट्रावास्तव्यानां श्वेताम्बरीयाणां दिगम्बरीयाणां च श्रावकाणां शतशः कन्यकाः पञ्चसप्तवार्षिक्यो मेलिताः । मिलिताः सभ्याः । बप्पभहिना अम्बादेवीपार्श्वात्कथापितम् - यदि सर्वाः श्वेताम्बर श्रावककन्यकाः 30 १३२. उर्जितसेलसिहरे दिक्खा नाणं निसीहिया जस्स । तं धम्मचक्कवहिं अरिट्ठनेमिं नम॑सामि ॥ ७२ ॥ इति गाथां पठिष्यन्ति तदा श्वेताम्बरीयं तीर्थं, पक्षान्तरे तु दिगम्बरीयमिति । तत आनीता
1
1P वोs | 2P गृहीथाः । 3A विसिस्म० । 4 P भोजभूः । * P पुस्तक एवेयं पंक्तिर्द्दश्यतेऽतः प्रक्षिप्तप्राया मन्तव्या । 5 BD ॰सैन्यैः; P • सैम्यैर्द्वात्रिंशदुपवासैः । 6 P तत्र + एतचिह्नान्तर्गतः पाठः ABD आदर्शे न दृश्यते, परं CEP आदर्श उपलभ्यते ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org