________________
हेमसूरिप्रबन्धः। इति नाम । तदीयपट्टे प्रद्युम्नसूरिन्थकारः। तत्पदे श्रीगुणसेन सूरिः । श्रीयशोभद्रसूरिपादास्त्रयोदशोपवासा रैवते नेमिनाथदृष्टौ कृतानशनाः वर्लोकमैयरुः । गुणसेनसूरिपट्टे श्रीदेवचन्द्रसूरयः 'ठाणावृत्ति-शान्तिनाथचरितादिमहाशास्त्रकरणनियूंढप्रज्ञाप्रागभाराः। ते विहरन्तो धन्धुकपुरं गूर्जरधरा-सुराष्ट्रासन्धिस्थं गताः । तत्र देशनाविस्तरः।
६५६) एकदा नेमिनागनामा श्रावकः समुत्थाय श्रीदेवचन्द्रसूरीन् जगौ-भगवन् ! अयं 5 मोढज्ञातीयो मद्भगिनीपाहिणिकुक्षिभूः टक्करचाचिगनन्दनश्चाङ्गदेवनामा भवतां देशनां श्रुत्वा प्रबुद्धो दीक्षां याचते । अस्मिंश्च गर्भस्थे मम भगिन्या सहकारतरुः स्वमे दृष्टः । स च स्थानान्तरे उप्तस्तत्र महतीं फलस्फातिमायाति स्म । गुरव आहुः-स्थानान्तरगतस्यास्य 'बालस्य महिमा प्रैधिष्यते । महत्पात्रमसौ योग्यः सुलक्षणो दीक्षणीयः । केवलं पित्रोरनुज्ञा ग्राह्या । गती मातुल-भागिनेयौ पाहिणि-चाचिगान्तिकम् । उक्ता व्रतवासना । कृतस्ताभ्यां प्रतिषेधः करुण-10 वचनशतैः । चाङ्गदेवो दीक्षां ललौ । स श्रीहेमसूरिः प्रभुः।
६५७) तेन यथा श्रीसिद्धराजो रञ्जितः, व्याकरणं कृतम् , वादिनो जिताः। यथा च कुमारपालेन सह प्रतिपन्नम् । कुमारपालोऽपि यथा पञ्चाशद्वर्षदेशीयो राज्ये निषण्णः। यथा श्रीहेमसूरयो गुरुत्वेन प्रतिपन्नाः। तैरपि यथा देवबोधिः प्रतिपक्षः पराकृतः, राजा सम्यक्त्वं ग्राहितः श्रावकः कृतः, निर्वीराधनं च मुमोच सः। तत्प्रबन्धचिन्तामणितो ज्ञेयम् । किं चर्वितचर्वणेन?115 नवीनास्तु केचन प्रबन्धाः प्रकाश्यन्ते।
६५८) कुमारपालेन अमारी प्रारब्धायां आश्विनशुदिपक्षः समागात् । देवतानां कण्टेश्वरीप्रमुखाणां अबोटिकैर्नृपो विज्ञप्त:-देव! सप्तम्यां सप्तशतानि पशवः, सप्त महिषाः, अष्टम्यां अष्ट महिषाः, अष्टौ शतानि पशवः; नवम्यां तु नवशतानि पशवः, नव महिषा; देवीभ्यो राज्ञा देया भवन्ति पूर्वपुरुषक्रमात् । राजा तदाकर्ण्य श्रीहेमान्तिकमगमत् । कथिता सा वार्ता । श्रीप्रभुभि:20 कर्णे एवमेवमित्युक्तम् । राजोत्थितः। भाषितास्ते-देयं दास्यामः । इत्युक्त्वा वहिकाक्रमेण रात्री देवीसदने क्षिप्ताः पशवः । तालकानि दृढीकृतानि । उपवेशितास्तेषु प्रभूता आप्तराजपुत्राः। प्रातरायातो नृपेन्द्रः। उद्घाटितानि देवीसदनद्वाराणि । मध्ये दृष्टाः पशवो रोमन्थायमाना निर्वातशय्यासुस्थाः। भूपालो जगाद-भो अबोटिकाः! एते पशवो मयाऽमूभ्यो दत्ताः । यदि अमूभ्यो रोचिष्यन्ते, ते तदाऽग्रसिष्यन्त, परं न प्रस्ताः। तस्मान्नामूभ्योऽदः पलं रुचितम् । भव-25
द्भ्य एव रुचितम् । तस्मात्तूष्णीमाध्वम् । नाहं जीवान् घातयामि । स्थितास्ते विलक्षाः । मुक्ताइछागाः। छागमूल्यसमेन तु धनेन देवेभ्यो नैवेद्यानि दापितानि । अथाश्विन शुक्लदशम्यां कृतोपवासः मापो निशि चन्द्रशालायां ध्याने उपविष्टो जपति । बहिस्थाः सन्ति । गता बही निशा । रूयेका दिव्या प्रत्यक्षाऽऽसीत् । उक्तस्तया सः-राजन् ! अहं तव कुलदेवी कण्टेश्वरी । ऐषमः किमिति त्वया नास्मद्देयं दत्तम् ?। राज्ञोक्तम्-जैनोऽहं दयालुः पिपीलिकामपि न हन्मि,30 का कथा पश्चेन्द्रियाणाम् ? । तच्छ्रुत्वा कण्टेश्वरी कुद्धा राजेन्द्र त्रिशूलेन शिरसि हत्वा जग्मुषी। राजा कुष्ठी जातः। दृष्टं स्वं वपुर्विनष्टम् । विषण्णः । भृत्येन मन्त्रिणमुदयनमाकार्य तत्खरूपं निगद्य पप्रच्छ-मनिन् ! देवी पशून याचति । दीयन्ते न वा । मन्त्री दाक्षिण्यादाह-देव ! राजा
1 B •पहे। 2 PD ठाणांग। 3 P नास्ति । 4 P नास्ति ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org