Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 67
________________ ४४ प्रबन्धकोशे णकारिणी वाक्पटुः सर्व राज्यं ग्रसते हिमानीव चित्रम् । भोजमातरं पद्मां नाम अन्या अपि राज्ञीरन्वयवतीविनयवतीर्लावण्यवतीस्तृणाय मनुते । एकदा कलाकेलिनामा ज्योतिषिको निशि विसृष्टे सेवकलोके दुन्दुकराजं विजनं दृष्ट्वाऽवादीत्-देव ! वयं भवत्सेवकत्वेन सुखिनः ख्याताः श्रीशाश्च । यथातथं ब्रूमः-अयं ते भोजनामा तनयो भाग्याधिकस्त्वां हत्वा तव राज्ये निवे5क्ष्यते । यथार्ह स्वयं कुर्वीथाः । राजा तवधार्य वज्राहत इव क्षणं मौनी तस्थौ । ज्योतिषिकं विससर्ज । सा वार्ता भोजजननीसहचर्या दास्यैकया विपुलस्तम्भान्तरितया श्रुता । भोजमात्रे चोक्ता । सा पुत्रमरणाद्विभाय । राजापि कण्टिकागृहमगात् । सापि राजानं सचिन्तमालोक्यालापीत्-देव ! अद्य कथं म्लानवदनः । राजाऽऽह स्म-किं क्रियते ?, विधिः कुपितः । पुत्रान्मे मृत्युर्ज्ञानिना दृष्टप्रत्ययशतेन कथितः । कण्टिका वदति स्म-का चिन्ता, मारय पुत्रम् । सुत10 मपि निर्दलयन्ति राज्यलुब्धाः । सुतो न सुतः । सुतरूपेण शत्रुरेव सः। तद्वचनाहुन्दुकः सुतं जिघांसामास । यावता घातयिष्यति तावता भोजमात्रा पाडलीपुरे खभ्रातॄणां सूराणां राज्यश्रीवयंवरमण्डपानां लेहलानां धर्मज्ञानामग्रे प्रच्छन्न रेलेखेन ज्ञापितम् , यथा-एवमेवं भवतां भागिनेयो विनंक्ष्यति । रुष्टो' राजा । आगत्य एनं गृहीत्वा गच्छत । रक्षतां जीववत् । मा माह भवत्सु सत्सु निष्पुत्राऽभूवम्-इति । तेऽप्यागच्छन् , दुन्दुकमनमन् । उत्सवमिषेण भागिनेयं 15 भोजं गृहीत्वा पाटलीपुत्रमगमन् । तत्र तमपीपठन्, अलीललन् । शस्त्राभ्यासमचीकरत् । ववदमंसत । तत्र तस्य पश्चाब्दी दिनैः कतिभिरप्यूनाऽतिक्रामति स्म । कण्टिका दुन्दुकाने कथयति स्म-देव! पुत्ररूपस्ते शत्रुर्मातृशाले वर्द्धते । नखच्छेद्यं पशुच्छेद्यं मा कुरु । अत्रानीय च्छन्नं यमसदनं नय । राजाऽऽह-सत्यमेतत् । ततो दूतमुखेन दुन्दुको भोज तन्मातुलेभ्योऽयाचीत्।ते भोजं नार्पयन्ति। पुनः पुनः खान दूतान् दुन्दुका प्रहिणोति । भोजमातुलाः प्राहुः-राजन्! 20 वयं तव भावं विद्मः, नार्पयाम एवैनम्।धर्मपात्रमसौ। अन्योऽपि शरणागतो रक्ष्यः क्षत्रियैः, किं पुनरीदृग् भगिनीपुत्रः ? । बलात्कारं ब्रूषे चेत् , युद्धाय प्रगुणीभूयागच्छेः। भगिनीपतये चमत्कारं दर्शयिष्यामः । ततैरागत्योक्तम् । दुन्दुकः कुपितोऽपि तान् हन्तुं न क्षमः ।। भोजोऽपि तैः पितुर्दुष्टत्वं ज्ञापितः केवचहर उपपितृ नैति । ततो दुन्दुकेन बप्पभटिसूरयः प्रार्थिताः-यूयं गत्वा भोजं सुतमनुनीयानयत मानयत माम् । अनिच्छन्तोऽपि तत्सैनिकैः सह पाटलीपुत्रं चेलः। 25 अर्द्धमाग सम्प्राप्तः स्थित्वा विमृष्टं ज्ञानदृष्ट्या-भोजस्तावन्मम वचसा नृपसमीपं नैष्यति । आनीयते वा यथा तथा; तदानीतोऽपि पित्रा हन्यते । वाग्लङ्घने राजाऽपि क्रुद्धो मां हन्ति । तस्मादितो व्याघ्र इतो दुस्तटी इति न्यायः प्राप्तः । समाप्तं च ममायुः, दिवसद्वयमवशिष्यते, तस्मादनशनं शरणम्-इति विमृश्यासन्नस्थयतयो भाषिताः-नन्नसूरि-गोविन्दाचार्यों प्रति हिता भवेत । श्रावकेभ्यो मिथ्यादुष्कृतं ब्रूयात् । परस्परममत्सरतामाद्रियेध्वम् । क्रियां पालयेत। 30 आबालवृद्धान् लालयेत । नो वयं युष्मदीयाः, न यूयमस्मदीयाः । सम्बन्धाः कृत्रिमाः सर्वे । इति शिक्षयित्वाऽनशनस्थाः समतां प्रपन्नाः। १३६. अर्हतस्त्रिजगद्वन्द्यान् सिद्धान् विध्वस्तबन्धनान् । साधूंश्च जैनधर्म च प्रपद्ये शरणं त्रिधा ॥ ७६ ॥ 1 ABD तथातथं । 2 A •पुत्रे। 3 P 'नरैः' नास्ति। 4 Bराजा रु। 5 P अगच्छत् । 6 P रक्षति । 7P निष्पुत्रो। 8 AB अलीलपन् । 9 A दुन्दकः। 10 AB मातुलपाधै। एतचिह्नान्तर्गतः पाठः पतितः P पुस्तके। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176