Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 65
________________ प्रबन्धको 1 राजन् ! यद्व्यन्तरेण 'तवाऽग्रे कथितं आयुः प्रमाणं तत्तथैव । धर्मपाथेयं गृह्णीयाः । तदाकर्ण्य भूपस्तुतोष विसिष्मिये' च, अहो ज्ञानम् ! । अथवा विस्मय एव कः ? - सूरस्तेजस्वी, इन्दुराह्लादकः, गङ्गाम्भः पावनम्, जैना ज्ञानिन इति । दिनद्वये गते सूरिः श्रीआमस्य पुरः प्रसङ्गेन श्री नेमिनाथस्याशीर्वादं पपाठ । यथा ४२ 5१३०. लावण्यामृतसारसारणिसमा सा भोजसूः * स्नेहला, सा लक्ष्मीः स नवोद्गमस्तरुणिमा सा द्वारिका तद्वलम् । गोविन्द शिवासमुद्रविजयप्रायाः प्रियाप्रेरकाः, यो जीवेषु कृपानिधिर्व्यधित नोद्वाहं स नेमिः श्रिये ॥ ७० ॥ भूयोऽपि - १३१. मग्नैः कुटुम्बजम्बाले यैर्मिथ्याकार्यजर्जरैः । नोज्जयन्ते नतो नेमिस्ते चेजीवन्ति के मृताः ॥ ७१ ॥ ९५१) तथा रैवतकतीर्थमहिमा सूरिभिर्व्याख्याय पल्लवितः यथा भूमिमाहत्योत्थाय परिकरं 10 बद्ध्वा सरभसं भूषः प्रतिशुश्राव - रैवतके नेमिमवन्दित्वा मया न भोक्तव्यमिति । लोकैर्निषिद्ध: - राजन् ! मामा, दूरे रैवतको गिरिः, मृदवो भवादृशाः । राजाऽह - प्रतिज्ञातं मे न चलति । ततः सह सूरिणा आमः [*लक्षमेकं पृष्ठवाहा वृषभाः करभसहस्र २०, हस्तिशत ७, अश्वलक्षमेकं, पदातिलक्षत्रयं, श्राद्धकुटुम्बसहस्र २०] सारसैन्यो' रैवतकायाचालीत् । स्तम्भतीर्थ यावगतः तावत् क्षुत्तापेन व्याकुलितोऽपि प्राणसन्देहं प्राप्तोऽपि नाहारमग्रहीत् । भीतो लोकः । 15 खिन्नः सूरिः । मन्त्रशक्त्या कूष्माण्डीं देवीं साक्षादानिनाय । तदग्रे कथयामास तत्कुरु येन राजा जेमति जीवति च । तद्वचनात्कूष्माण्डी बिम्बमेकं महच्छिरसा बिभ्रती गगनेन आमसविधं गता, ऊचे च-वत्स ! साऽहमम्बिका । तव सत्त्वेन तुष्टा । गगने आगच्छन्तीं मां त्वं साक्षादद्राक्षीः । मयेदं रैवतैकदेशभूतादवलोकनाशिखरान्नेमिनाथबिम्बमानीतम् । इदं वन्दख । अस्मिवन्दिते मूलनेमिर्वन्दित एवं कुरु पारणकम् । सूरिभिरपि तत्समर्थितम् । लोकेनापि स्थापि20 तम् । तद्विम्बं वन्दित्वा राज्ञा ग्रासग्रहणं चक्रे । अद्यापि तद्विम्बं स्तम्भतीर्थे पूज्यते । उज्जयन्त इति प्रसिद्धं तत्तीर्थम् । हृद्यातोद्यानि ध्वानयन्नामो विमलगिरौ वृषभध्वजं सोत्सवं वन्दित्वा यावद्वैवताद्रिं गतः तावता तत्तीर्थं दिगम्बरै रुद्धं श्वेताम्बरसंघः प्रवेष्टुं न लभते । आमेन तज्ज्ञातम् । ज्ञात्वाचे- युद्धं कृत्वा निषेद्धृन्हत्वा श्रीनेमिं नंस्यामि । तावत्तत्र दिगम्बर भक्ता एकादश राजानो मिलिताः । सर्वे युद्धैकतानास्तदा बप्पभहिना भणितम् - आमराजेन्द्र ! धर्मकार्ये पापा25 रम्भः कथं क्रियते ? । लीलयैव तीर्थमिदमात्मसात्करिष्ये । भवद्भिः स्थिरैः स्थेयम् । एवं भूपं प्रबोध्य बप्पभरुपदिगम्बरं 'उपतद्भक्तं भूपं च नरं प्रहित्यावभाणत्-इदं तीर्थं यस्याम्बिका दत्ते तस्य पक्षस्य सत्कमिति मन्यध्वे । तैरुक्तम् - युक्तमेतत् । ततो बप्पभहिना सुराष्ट्रावास्तव्यानां श्वेताम्बरीयाणां दिगम्बरीयाणां च श्रावकाणां शतशः कन्यकाः पञ्चसप्तवार्षिक्यो मेलिताः । मिलिताः सभ्याः । बप्पभहिना अम्बादेवीपार्श्वात्कथापितम् - यदि सर्वाः श्वेताम्बर श्रावककन्यकाः 30 १३२. उर्जितसेलसिहरे दिक्खा नाणं निसीहिया जस्स । तं धम्मचक्कवहिं अरिट्ठनेमिं नम॑सामि ॥ ७२ ॥ इति गाथां पठिष्यन्ति तदा श्वेताम्बरीयं तीर्थं, पक्षान्तरे तु दिगम्बरीयमिति । तत आनीता 1 1P वोs | 2P गृहीथाः । 3A विसिस्म० । 4 P भोजभूः । * P पुस्तक एवेयं पंक्तिर्द्दश्यतेऽतः प्रक्षिप्तप्राया मन्तव्या । 5 BD ॰सैन्यैः; P • सैम्यैर्द्वात्रिंशदुपवासैः । 6 P तत्र + एतचिह्नान्तर्गतः पाठः ABD आदर्शे न दृश्यते, परं CEP आदर्श उपलभ्यते । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176