Book Title: Prabandh kosha Author(s): Rajshekharsuri, Jinvijay Publisher: Singhi Jain GyanpithPage 66
________________ 15 बप्पभट्टिसूरिप्रबन्धः। मुग्धबालिकाः।सर्वाभिः श्वेताम्बरपक्षबालिकाभिः पठिता सा गाथा । अपरासु तु नैकयाऽपि । ततो जातं श्वेताम्बरसादैवततीर्थम् । अम्बिकया खस्थया पुष्पवृष्टिः श्वेताम्बरेषु कृता । ततो नष्टा' दिकपटा महाराष्ट्रादिदक्षिणदेशानगमन्। राज्ञाऽन्यैरपि सर्वसङ्घश्चिरात्तत्र मिलितैर्नेमिर्नेमे। वित्तं ददे । प्रभासे चन्द्रप्रभः प्रणेमे । बन्दिमोक्षः सर्वत्रापि कारितः। आमस्य भुक्तौ गूर्जरादिदेशास्तदा तीर्थानां चिरं पूजोपयोगिनो हटाद्यायाः प्रकृप्ताः । एवं कार्याणि कृत्वा ससूरिन॒पो 5 गोपगिरि प्राविशत् । संघपूजादिमहास्तत्र नवनवाः । प्राप्तप्राये काले दुन्दुको राज्ये प्रतिष्ठितः। आपृष्टः सः। लोकोऽपि क्षमितः । अनृणो देशः कृतः। सह सूरिणा नावाऽऽरूढो गङ्गासरित्तीरें तीर्थ मागधं गतः। तत्र जले धूमं दृष्टवान् । तदा सूरीन्द्रमक्षमयत् । संसारमसारं विदन अनशनमगृह्णात् । समाधिस्थः श्रीविक्रमकालात् अष्टशतवर्षेषु नवत्यधिकेषु व्यतीतेषु भाद्रपदे शुक्लपञ्चम्यां पञ्च परमेष्ठिनः स्मरन् राजा दिवमध्यष्ठात् । सूरयस्तत्त्वज्ञा अपि रुरुदुः। चिरप्रीतिमोहो 10 दुर्जय एव । सेवकास्तु चक्रन्दुः-हा शरणागतरक्षावज्रकुमार! हा राजस्थापनादाशरथे ! हा अश्वदमननल ! हा सत्यवाग युधिष्ठिर ! हा हेमदानकर्ण! हा मज्जाजैनश्रेणिक ! हा सूरिसेवासम्प्रते! हा अनृणीकरणविक्रमादित्य ! हा वीरविद्याशातवाहन ! अस्मान् विहाय क गतोऽसि । दर्शयैकदाऽस्मभ्यमात्मानम् । मैकाकिनो मुश्च । एवं विलपन्तस्ते सूरिभिः प्रतियोधिताः-भो भो! सत्यं देवेन पापेन १३३. आलब्धा कामधेनुः सरसकिशलयश्चन्दनचर्णितो हा छिन्नो मन्दारशाखी फलकुसुमभृतः खण्डितः कल्पवृक्षः । दग्धः कर्पूरखण्डो घनहतिदलिता मेघमाणिक्यमाला भन्नः कुम्भः सुधायाः कमलकुवलयैः केलिहोमः कृतोऽयम् ॥ ७३ ॥ तथापि मा शोचत शोचत । यतः 20 १३४. पूर्वाह्ने प्रतिबोध्य पङ्कजवनान्युत्सार्य नैशं तमः, कृत्वा चन्द्रमसं प्रकाशरहितं निस्तेजसं तेजसा । ___ मध्याह्ने सरितां जलं प्रविस्तै रापीय दीप्तैः करैः, सायाह्न रविरस्तमेति विवशः किं नाम शोच्यं भवेत् ॥७४॥ इति लोकं निःशोकं कृत्वा लोकेन सह सूरिर्गोपगिरिमागात् । सूरिभिर्दुन्दुको राजा आमेन आमशोकेन जात्यमुक्ताफलस्थूलानि अश्रूण्युगिरन हिमम्लानपद्मदीनवदनश्चिन्ताचान्तखान्तो बभाषे-राजन् ! कोऽयं महतस्तव पितृशोकः । स हि चतुर्वर्ग संसाध्य कृतकृत्यो बभूव । यशो-25 मयेन देहेन चाचन्द्रं जीवन्नेवास्ते । पुण्यलक्ष्मीः कीर्तिलक्ष्मीश्चेति द्वे नरस्योपकारिण्यौ वल्लभे । १३५. पुण्यलक्ष्म्याश्च कीर्तेश्च विचारयत चारुताम् । स्वामिना सह यात्येकाऽपरा तिष्ठति पृष्ठतः ॥ ७५ ॥ अन्योऽप्येवंविधः कोऽपि भवतु । इत्येवंविधाभिर्वाग्भिन्दुकराजं सूरिराजो निःशोकमकापीत् । दुन्दुकः शनैः शनैः परमाहतोऽभूत् । राजकार्याणि अकार्षीत् । त्रिवर्ग स समसेविष्ट । ६५२) एवं वर्तमाने काले, एकदा दुन्दुकश्चतुष्पथे गच्छन् कण्टिकां नाम गणिकामुदाररूपां चि-30 दूपां युवजनमृगवागुरां मदनमायामयीमालोकिष्ट । तां शुद्धान्तस्त्रीमकार्षीत् । तया दुन्दुकस्तथा वशीकृतो यथा यदेव सा वदति तत्सत्यम्; यदेव सा करोति तदेव हितं मनुते । सा तु कार्म - 1 A ना। 2 A. तीर्थे । 3 BP जैनत्व। 4A मा मुचः। 5 AB सतां। 6P प्रविशतैः। 7 P नास्ति । 8A जीवनाते। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176