________________
४०
. प्रबन्धकोशे इति ज्ञात्वा भवदभिमतदेवताशिषः पठन्तः स्म । यथारुचि हि श्रोतुः पुरः पठनीयं समयज्ञैः। वाक्पतिराह-यद्यप्येवं तथापि मुमुक्षवो वयमासन्ननिधनं ज्ञात्वा इह परमब्रह्म ध्यातुमायाताः स्म । बप्पभयो जगदुः-किं तर्हि रुद्रादयो मुक्तिदातारो न भवन्तीति मनुध्वे । वाक्पतिः प्राह-एवं सम्भाव्यते । बप्पभयो बभाषिरे-तर्हि यो मुक्तिदानक्षमस्तं शृणु । पठामि । इस जिन एव।
१२२. मदेन मानेन मनोभवेन क्रोधेन लोभेन ससम्मदेन ।
पराजितानां प्रसभं सुराणां वृथैव साम्राज्यरुजा परेषाम् ॥ ६२ ॥ १२३. जं दिट्ठी करुणातरंगियपुडा एयस्स सोमं मुहं, आयारो पसमायरो परियरो संतो पसन्ना' तणू ।
तं मन्ने जरजम्ममञ्चहरणो देवाहिदेवो जिणो', देवाणं अवराण दीसइ जओ नेयं सरूवं जए ॥ ६३ ॥ 10 इत्यादि बहु पेठे । वाक्पतिः प्राह-स जिनः वास्ते । सूरिः-स्वरूपतो मुक्ती मूर्तितस्तु जिना यतने । वाक्पतिते-प्रभो! दर्शय तम् । प्रभुरपि आमनरेन्द्रकारिते प्रासादे तं निनाय । स्वयं प्रतिष्ठितवरं श्रीपार्श्वनाथमदीदृशत् । शान्तं कान्तं निरञ्जनं रूपं दृष्टा प्रबुद्धो बभाषे-अयं निरअनो देव आकारेणैव लक्ष्यते । तदा बप्पभट्टिसूरिभिर्देव-गुरु-धर्मतत्त्वान्युक्तानि । रञ्जितः सः। मिथ्यात्ववेषमुत्सृज्य जैन ऋषिः श्वेताम्बरोऽभूत् । जिनमवन्दिष्ट, अपाठीच15 १२४. मयनाहिंसुरहिएणं इमिणा किं किर" फलं णलाडेणं । इच्छामि अहं जिणवर ! पणामकिणकलुसियं काउं ॥६४॥
१२५. दोवि गिहत्था धडहड वच्चई को किर कस्स वि पत्त भणिजई।
सारंभो सारंभं पुजइ कद्दमु कद्दमेण किमु' सुज्झइ ॥ ६५॥ प्रत्यासन्ने आयुषि 'मथुराचातुर्वर्ण्यस्य आमभूपसचिवलोकस्य च प्रत्यक्षं अष्टादशपापस्थानानि त्याजितः । नमस्कारं पञ्चपरमेष्ठिमयं श्रावितः । जीवेषु क्षामणां कारितो वाक्पतिः सुखेन 20 त्यक्ततनुर्दिवमगमत् । तत्सर्व प्रधानैरन्यैरपि प्रथमं ज्ञापितो नृपः। पश्चाप्पभदिर्गोपगिरिंगतः। राजाभितुष्टुवे" सूरिशक्रम्-.
१२६. आलोकवन्तः सन्त्येव भूयांसो भास्करादयः । कलावानेव तु ग्रावद्रावकर्मणि कर्मठः ॥ ६६ ॥ ६४७) एकदा राज्ञा सूरिः पृष्टः-किं कारणं येनाहं ज्ञातजैनतत्त्वोऽपि अन्तराऽन्तरा तापसधर्मे रतिं बध्नामि ? । सूरिराह-प्रातर्वक्ष्यामः। प्रातरायाताःप्रोचुः-राजन् ! अस्माभिर्भारतीवचसा तव 25 प्राग्भवो ज्ञातः । त्वं कालिञ्जरगिरेस्तीरे शालनामा तपस्वी शालट्ठमाधोभागे छुपवासान्तरित
भोजनस्तपो बहूनि वर्षाण्यतपथाः । स मृत्वा त्वमुत्पन्नः। तस्यातिदीर्घा जटास्तत्रैव लतान्तरिता अद्यापि सन्ति । तदाकर्ण्य आप्तनरास्तत्र राज्ञा प्रहिताः। तेर्जटा आनीताः । सूरियाक्संवादो दृष्टः । भूपतिः सूरीणां पदोर्विलग्य तस्थौ । परमाहतो बभूव ।
४८) अन्यदा सौधोपरितलस्थेन आमेन कापि गृहे भिक्षार्थं प्रविष्टो मुनिदृष्टः । तत्र युवति50रेका कामार्ता गृहागतं मुनि परब्रह्मैकचित्तं रिरमयिषुः कपाटसम्पुटं ददौ । मुनिर्नेच्छति ताम् ।
तया मुनये पादतलप्रहारे दीयमाने नूपुरं मुनिवरचरणे प्रविष्टं काकतालीयन्यायादैन्धवर्तकीन्यायाच । राजा तद् दृष्ट्वा सूरये समस्यां ददौ
1A पसंता। 2P इमो। 3 P बभाण। 4 AB तथा। 5 P मयनाए। 6P कर। 7 PC किम । 8 ABD अस्यासन्ने; P अत्यासले। 9A 'मथुरा' नास्ति। 10 P राजा तुष्टस्तुष्टुवे। 11 AB तत्वा। 12 P०प्यस्ति । 13 P न्यायेन ।
Jain Education Intemational
www.jainelibrary.org
For Private & Personal Use Only
For Private & Personal Use Only