________________
३९
बप्पभट्टिसूरिप्रबन्धः। ११४. जीयं जलबिन्दुसमं संपत्तीओं तरंगलोलाओ । सुमिणयसमं व पिम्मं जं जाणसि तं करिजासि ॥ ५४॥ ११५. लजिजइ जेण जणे मइलिजइ निअकुलक्कमो जेण । कंठहिए वि जीए तं न कुलीणेहिं कायव्वं ॥ ५५॥ प्रातरमूनि पद्यानि स्वयमामो ददर्श । वर्णान् कवित्वगतिं च उपलक्षयामास । अहो गुरूणां मयि कृपा! अहोतमां मम पापाभिमुखता!-इति ललज्जे । दध्यौ च-साङ्कल्पिकमिदं जनगमीसगमपापं मयाऽऽचरितम् । भारितोऽहं क यामि ?, किं करोमि ?, कथं गुरोर्मुखं दर्शयामि ?, किं 5 तपः समाचरामि?, किं तीर्थ सेवे?। ऊर्ध्वं मुखं गृहीत्वा गच्छामि?, कूपे पतामि?, शस्त्रेणात्मानं घातयामि ? । अथवा ज्ञातम्-सर्वजनसमक्षं पापमुद्गीर्य काष्ठानि भक्षयामि । एवं टलवलायमानोऽनुचरानादिदेश-अग्निं प्रगुणयत । प्रगुणितस्तैरग्निः । समागताः श्रीवप्पभहिसूरयः । मेलितं चातर्वर्ण्यम। उक्तं तदघम । यावत्सहसा कशानं प्रवेक्ष्यति आमस्तावत्सरिभिर्बाही धत्वोक्तःराजन् ! शुद्धोऽसि । मा स्म खिद्येथाः । त्वया हि सङ्कल्पमात्रेण तत्पापं कृतं न साक्षात् । सङ्क-10 ल्पेनाग्निमपि प्रविष्टोऽसि । चिरं धर्म कुरु । ११६. मनसा मानसं कर्म वचसा वाचिकं तथा । कायेन कायिकं कर्म निस्तरन्ति मनीषिणः ॥ ५६ ॥
इति वचनाद्विसृष्टोऽग्निः । जीवितो राजा । तुष्टो लोकः । प्रीतः सूरिः । ४६) समयान्तरे वाक्पतिराजो मथुरां ययौ। तत्र श्रीपादस्त्रिदण्डी जज्ञे सः। तल्लोकादवगम्य आमः सूरीन् बभाषे-भवद्भिरहमपि श्रावकः कृतः। दिव्या वाणी वः प्रसन्नैव । जानामि वः15 शक्तिपरमरेखां यदि वाक्पतिमप्याहतदीक्षां ग्राहयथ । आचार्यैः प्रतिज्ञा चक्रे-तदा विद्या मे प्रमाणं यदि वाक्पतिं सशिष्यं श्वेताम्बरं कुर्वे । वाक्पतिस्तु कास्ति, इति उच्यताम् । राज्ञोक्तम्मथुरायां विद्यते। सूरयो मथुरायां गता बहुभिः श्रीआमाप्तनरैः सह । वराहमन्दिराख्ये प्रासादे ध्यानस्थं वाक्पतिं गत्वाऽद्राक्षुः । तत्पृष्ठस्थैः सूरिभिस्तारस्वरेण आशिर्वादाः पठितुमारब्धाः११७. सन्ध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे, धत्से यच्च परां विलज्ज ! शिरसा तच्चापि सोढं मया । 20
श्रीर्जाताऽमृतमन्थनाद्यदि हरेः कस्माद्विषं भक्षितं, मा स्त्रीलम्पट ! मां स्पृशेत्यभिहितो गौर्या हरः पातु वः॥५७॥ ११८. एकं ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः, पार्वत्या विपुले नितम्बफलके शृङ्गारभारालसम् ।
अन्यदूरविकृष्टचापमदनक्रोधानलोद्दीपितं, शम्भोभिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥ ५८॥ ११९. रामो नाम बभूव हुं तदबला सीतेति हुं तां पितु,-र्वाचा पञ्चवटीवने विचरतस्तस्याहरद्रावणः । निद्रार्थं जननीकथामिति हरेहुंकारिणः शृण्वतः, पूर्वस्मर्तुरवन्तु कोपकुटिला भ्रूभङ्गुरा दृष्टयः ॥ ५९॥ 25 १२०. उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा
__धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्याः । सद्यस्तत्कायकान्तिद्विगुणितसुरतप्रीतिना सौरिणा वः
___ शय्यामालिङ्गय नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु ॥ ६० ॥ एवं बहु पेठे । अथ वाक्पतिर्ध्यानं विसृज्य सम्मुखीभूय सूरीनाह-हे बप्पभट्टिमिश्राः ! यूयं 30 किमस्मत्पुरतः शृङ्गाररौद्राङ्गं पद्यपाठं कुरुध्वे ? । बप्पभट्टयः प्राहुः-भवन्तः सांख्याः। १२१. सांख्या निरीश्वराः केचित् केचिदीश्वरदेवताः । सर्वेषामपि तेषां स्यात् तत्त्वानां पञ्चविंशतिः ॥ ६१॥ 1PC अग्निं। 2 AB आचार्येन्द्रः। 3 P नदीं। 4 BD मन्थने यदि। 5 P नास्ति 'स्यात्' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org