________________
३८
प्रबन्धकोशे जिकाः तत्तद्रसभावज्ञाः। ताभ्यां नाटकं दर्शयितुमारेभे। भरत-बाहुबलिसमरावसरोऽभिनीयते। यदा व्यूहरचना-शस्त्रझलत्कार-वीरवर्णना-भट्टकोलाहलाश्चोत्थापनघर्घरिका-झणझणत्कारादि ताभ्यां वर्णयितुमारब्धम् , धारारूढश्च रसोऽवातारीत् ; तदा श्रीआमस्तद्भटाश्च कालिन्दीप्रवाहश्यामदीर्घानसीनाकृष्योत्थिता 'हत हत' इति भाषन्ते स्म । अत्रान्तरे नन्नसूरि-गोविन्दाचार्यों 5 स्वरूपमुद्रे प्रकाश्याहतुः-राजान् ! भटाः! शृणुत २ कथायुद्धमिदम् , न तु साक्षात्। अलं सम्भ्रमेण। इत्युक्ता लज्जिता विस्मिताश्च ते राजाद्याः संवृत्याकारमस्थुः । तदा गोविन्दाचार्य-नन्नसूरिभ्यां भूपोऽभाणि-किल शृङ्गाराननुभविनो वयमिति सम्यग्व्याख्यातुं विद्मः। किन्तु समरा जिरमपि भवद्वत्प्रविष्टाः स्मः। कुरङ्गा इव शस्त्रे दृष्टेऽपि बिभिमः । आबाल्याद् गृहीतव्रताः पाप
भीरवः, परं भारतीप्रभावप्रभववचनशक्त्या रसान् सर्वान् जीवद्रूपानिव दर्शयामः । राजन् ! 10 मोढेरके यैस्ते वात्स्यायनभावा व्याख्याताः, ते वयं नन्नसूरय इमे च गोविन्दाचार्याः। भवतां
तदा मृषा विकल्पः समजनि । राजा सद्यो ललज्जे । तौ सूरी क्षमयामास, आनर्च बप्पभर्दि च । तौ कतिचिदिनानि उपराजं स्थित्वा बप्पभट्टेरनुज्ञया पुनर्मोढेरपुरमगाताम् । गतः समयः कियानपि।
६४५) अन्यदा गाथकवृन्दमागतम् । तन्मध्ये बालिकैका सनालनीलोत्पललोचना मृगाकमुखी 15 किन्नरखरा विदुषी गायति । तां दृष्ट्वा मदनशरज्वरजर्जरः गलितविवेको गतप्रायशौचधर्माभिनिवेशः कन्यकुब्जेशः पद्यद्वयं प्रभुप्रत्यक्षमपाठीत्१०९. वक्त्रं पूर्णशशी सुधाधरलता दन्ता मणिश्रेणयः, कान्तिः श्रीर्गमनं गजः परिमलस्ते पारिजातद्रुमाः ।
___ वाणी कामदुधा कटाक्षलहरी सा कालकूटच्छटा, तत्किं चन्द्रमुखि ! त्वदर्थममरैरामन्थि दुग्धोदधिः ॥४९॥ ११०. जन्मस्थानं न खलु विमलं वर्णनीयो न वर्णो, दूरे शोभा वपुषि निहिता पङ्कशङ्कां तनोति ।
विश्वप्रार्थ्यः सकलसुरभिद्रव्यदर्पापहारी, नो जानीमः परिमलगुणः कस्तु कस्तूरिकायाः' ॥५०॥ सूरिभिश्चिन्तितम्-अहो ! महतामपि किग मतिविपर्यासः । १११. भला काचन भूरिरन्ध्रविगलत्तत्तन्मलक्लेदिनी, सा संस्कारशतैः क्षणार्द्धमधुरां बाह्यामुपैति द्युतिम् ।
__ अन्तस्तत्त्वरसोर्मिधौतमतयोऽप्येतां तु कान्ताधिया, श्लिष्यन्ति स्तुवते नमन्ति च पुरः कस्यात्र पूत्कुर्महे ॥५१॥ उत्थिता सभा । त्रिभिर्दिनैर्भूपेन पूर्वहिः सौधं कारितम्', मातङ्गीसहितोऽत्र वत्स्यामीति 25 धिया । तदवगतं श्रीबप्पभट्टिसूरिभिः । ध्यानप्रत्यक्षं हि तेषां जगवृत्तम् । ततो माऽसौ कुकर्मणा" नरकं" यासीदिति कृपया तैर्निष्पाद्यमानसौधभारपट्टे निशि खटिकया बोधदानि पद्यानि लिखितानि । यथा.११२. शैत्यं नाम गुणस्तवैव तदनु स्वाभाविकी स्वच्छता, किं ब्रूमः शुचितां भवन्त्यशुचयस्त्वत्सङ्गतोऽन्ये यतः ।
किंवाऽतः परमस्ति ते स्तुतिपदं त्वं जीवितं देहिनां, त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोर्बु क्षमः ॥५२॥ 80 ११३. *सवृत्त सद्गुण महार्ण्य महार्हकान्त कान्ताघनस्तनतटोचितचारुमूर्ते ! ।
आः पामरीकठिनकण्ठविलग्नभन्न हा हार ! हारितमहो भवता गुणित्वम् ॥ ५३॥ - 1E शस्त्ररणरणत्कार । 2 B हन हन । 3 ABD निंदा। 4 P तमाल। 5 P तद् । 6 CP मदनज्वर० । 7 B कस्तूरिकायाम् । 8 PC नु। 9 B कारापितम् । 10 BP नास्ति। 11 P नरकमयासी। 12 BD किश्चात * BD आदर्श नास्ति पद्यमिदम् ।
20
For Private & Personal Use Only
Jain Education Intemational
www.jainelibrary.org
For Private & Personal Use Only