________________
बप्पभट्टिसूरिप्रबन्धः।
सम्यक्त्वमूलैकादशव्रतनिरतश्च श्रावकः कृतः। द्वादशं व्रतं त्वतिथिसंविभागाख्यं प्रथमचरमजिननृपाणां निषिद्धं सिद्धान्ते।
६४२) एकदा लक्षणावत्यां बौद्धो वर्द्धनकुञ्जरो धर्मपमाह सगद्गदम्-अहं बप्पमहिना जितस्तन्मे न दूषणम् । बप्पभट्टिर्हि भारती नररूपा,प्रज्ञामयः पिण्डः, गीष्पुत्रः, न च दुनोति। एतत्तु दुनोति यत्तव भृत्येनापि वाक्पतिराजेन सूरिकृतभेदान्मम मुखशौचोपायेन गुटी हारयामाहे । । एतावदभिधाय स तारं तारं रुरोद । स निवारितः क्षमापेन रोदनात् । उक्तश्च-किं क्रियते?, अयं नश्चिरसेवकोऽनेकसमराङ्गणलब्धजयप्रतिष्ठः प्रबन्धकविः पराभवितुं न रोचते । क्षमखेदमस्यागः। ततो बौद्धो जोषं स्थितः।
६४३) अपरेधुर्यशोधर्मनाम्ना समीपदेशस्थेन बलवता भूपेन लक्षणावतीमेत्य रणे धर्मनृपो व्यापादितः। राज्यं जगृहे । वाक्पतिरपि बन्दीकृतः । तेन कारास्थेन 'गौडवध' सञ्ज्ञकं प्राकृतं 10 महाकाव्यं रचयित्वा यशोधर्माय राज्ञे दर्शितम् । तेन गुणविशेषविदा ससत्कारं बन्देर्मुक्ता, क्षमितश्च । 'विद्वान् सर्वत्र पूज्यते । ततो वाक्पतिर्बप्पभर्टिसमीपं गतः। बयोस्तयोमैत्री पूर्वमप्यासीत् । तदानीं विशेषतोऽवृधत् । तेन वाक्पतिना महामहविजयाख्यं प्राकृतं महाकाव्यं बद्धम् । आमाय दर्शितम् । आमो हैमटङ्ककलक्षममै व्यशिश्रणत् ।।
१०८. कियती पञ्चसहस्री कियती लक्षा च कोटिरपि कीयती । औदार्योन्नतमनसां रत्नवती वसुमती कियती ॥४८॥15 ६४४) अपरेयुः प्रभुःश्रीआमेन पृष्टः-भगवन् ! यूयं तावत्तपसा विद्ययाच लोके लब्धपरमरेखाः। किमन्योऽपि कोऽपि काप्यास्ते यो भवत्तुलालेशमवामोति । बप्पभटिरभाणीत्-अवनिपते ! मम गुरुवान्धवी गोविन्दाचार्य-नन्नसूरी सर्वैर्गुणैर्मदधिको गूर्जरधरायां मोढेरकपुरे स्तः । गुणोत्कण्ठयामितसैन्य आमस्तत्र गतः। तदा नन्नसुरिर्व्याख्यानेऽवसरायातान् वात्स्यायनोक्तान् कामाङ्गभावान् पल्लवयन्नासीत्।राज्ञा श्रुतं तत्सर्वम् । अरुचिरुत्पन्ना-अहो! वयं कामिनोऽपि नैतान् भावान् 20 विद्मः । अयं तु वेत्ति सम्यक् । तस्मादयमवश्यं नित्यं योषित्सङ्गी। किमस्य प्रणामेन?-इत्यकृतनतिरेवोत्थायाशु गोपगिरिमागात् । चिराद् दृष्टःक्ष्माप इति रणरणकाक्रान्तवान्ताःप्रभवो वन्दापयितुमैयरुः । राजा निरादरो न वन्दते तथा । एवं दिनानि कतिपयानि गतानि । एकदा गुरुभिः पप्रच्छे-राजन् ! यथा पुरा भक्तोऽभूस्तथेदानी भक्तो नासि । किमस्माकं दोषः कोऽपि । राजा माह-सुरिवर! भवादृशा अपि कुपात्रश्लाघां कुर्वते । किमुच्यते । सूरिभिरूचे-कथम् ?। आम:25 प्राह-यो भवद्भिः स्वौ गुरुवान्धवौ स्तुतौ । तत्र गत्वा एको नन्नसूरिनामा दृष्टः शृङ्गारकथाव्याख्यानलम्पटस्तपोहीनो लोहतरण्डतुल्यो मजति मजयति च भवाम्बुधौं । तस्मान्न किश्चिदेतत् । सूरयो मसीमलिनवदनाः स्ववसतिमगुः । तत्रोपविश्य द्वौ साधू मोढेरकपुरं प्रहितौ । तत्पार्थातत्र कथापितम्-आमोऽकृतप्रणामो भवत्पाझंदागतः । एवमेवं युवां निन्दति । तत्कर्तव्यं पेनासौ भवत्वन्येष्वपि श्रमणेषु अवज्ञावान्न भवति । सर्वं तत्रत्यं ज्ञात्वा तौ द्वावपि गुटिकया 30 वर्ण-खरपरावतं कृत्वा नटवेषधरौ गोपगिरिमीयतुः। श्रीऋषभध्वजचरित्रं नाटकत्वेन बबन्धतुः। नटान् शिक्षयामासतुः। आमराजमवसरं ययाचतुः । राज्ञाऽवसरो दत्तः। मिलिताः सामा
1AB राजेन्द्राय। 2D Oभः। + एतद्दण्डान्तर्गतं कथनं ABD आदर्श नास्ति, CEP आदर्श च लभ्यते। 3 पतित. मि P पुस्तके। 4 BD .मन्यः कोऽपि। 5 D व्याख्यानावसः। 6 P नास्ति । 7 AB सूरिरूचे। 8 A भघाब्धौ । 9 A भयुः। 10 BD भवेत् ।
Jain Education Intemational
www.jainelibrary.org
For Private & Personal Use Only