________________
३६
प्रबन्धकोशे
काव्यैः सद्यस्कैर्दिव्यैः स्तुता । देव्योक्तम्-वत्स ! केन कारणेन स्मृता । सूरिवीरेण भणितम्षण्मासा वादे लग्नाः । तथा कुरु यथा वादे निरुत्तरीभवति सः । देव्या गदितम् - वत्स ! अहमनेन प्राक् सप्तभवानाऽऽराधिता । मयाऽत्र भवेऽस्मै अक्षयवचना गुटिका दत्ताऽस्ति । तत्प्रभावाच्चक्रिनिधिधनमिव नास्य वचो हीयते । सूरिणोक्तम्-त्वं देवि ! किं जैनशासनविरोधिनी, 5 येन मे जयश्रियं न दत्से ? | भारत्यूचे - वत्स ! जयोपायं ब्रुवे । त्वया वादारम्भे प्रातः सर्वे वदनशौचं काराप्याः पार्षद्याः । गण्डूषं कुर्वतस्तस्य वदनाद् गुटिका ममेच्छया पतिष्यति तदा त्वया जेष्यते । एकं तु याचे-मत्स्तुतेश्चतुर्दशकाव्यं कस्याप्यग्रे न प्रकाश्यम् । तत्पठनेन हि मया ध्रुवं ध्रुवं प्रत्यक्षया भाव्यम् । कियतां प्रत्यक्षा भवामि ? | क्लेशेनालम् । एवमुक्त्वा देवी विशुज्झात्कारलीलयाऽन्तर्दधे । सूरिभिर्निशि परमाप्तशिष्य एको वाक्पतिराजसमीपं प्रहित्याख्या10 पितं यथा - सूरयो वदन्ति - राजन् ! त्वं विद्यानिधिरस्माकं लक्षणावतीपुरीपरिचितचरः । तदाऽवादी :- भगवन् ! निरीहा भवन्तः, कां भवद्भ्यो भक्तिं दर्शयामि । तदा वयमवोचाम - अवसरे कामपि भक्तिं कारयिष्यामः । भवद्भिर्भणितम्-तथास्तु । इदानीं सोऽवसरोऽत्र समायातः । वाक्पतिना शिष्यः पृष्टः - सूरयः किं मे समादिशन्ति ? । आदिष्टं कुर्वे ध्रुवम् । शिष्यो न्यवेदयत् - राजन् ! गुरवः आदिशन्ति - प्रातर्धर्मामयोः सदःस्थयोः सतोस्त्वया वाच्यं यथा वदन15 शौचं विना भारती न प्रसीदति । तस्माद्वादि-प्रतिवादि-सभ्य सभेशाः सर्वे शौचं कुर्वन्तु । एतावति कृते भवता नः सर्वः स्नेहः कृत एव । वाक्पतिना तदङ्गीकृतम् । शिष्येणोपगुरु गत्वा तत्तत्प्रतिज्ञातं कथितम् । तुष्टाः गुरवः । प्रत्यूषे उदयति भगवति गभस्तिमालिनि लाक्षालित इव प्राचीमुखे राजानौ सभायामगाताम् । वाकपतिना वदनशौचं सर्वे कारिताः, बौद्धवादी - न्द्रोऽपि । तस्य वदनकमलाद्विगलिता गुटिका अपतत् पतद्ग्रहे । बप्पभद्विशिष्यैः पतग्रहो 20 जनैर्दूरे कारापितः । गुटिका सूरीन्द्रसाजाता । बौद्धो गुटिकाहीनः सूरिणा पार्थेन कर्ण इव दिव्यशक्तिमुक्तो निःशङ्कं वाक्पृषत्कैर्हतः । निरुत्तरीकृतः । राहुग्रस्तश्चन्द्र इव हिमानीविलुप्तस्तरुखण्ड इव निस्तेजतां भेजे । तदा श्रीबप्प भट्टेर्निर्विवादं वादिकुञ्जरकेसरीति बिरुदं खैः परैश्च दत्तम् । धर्मेण सप्ताङ्गं राज्यं आमाय दत्तम् । लाहीदम् । धर्माद्धि राज्यं लभ्यते । काऽत्र चर्चा १ । आमेन गृहीतम् । तदा सूरिणा आमः प्रोक्तः- राजन् ! पुना राज्यं धर्माय देहि । महादानमिदम् । शोभते 25 च ते। राजस्थापनाचार्याश्च पारंपर्येण' । 'पूर्वं श्रीरामेण वनस्थेनापि सुग्रीव - विभीषणौ राजीकृतौ । त्वमप्यैदंयुगीननृपेषु तत्तुल्यः । एतद्वचनसमकालमेव आमेन गाम्भीयौदार्यधान्ना धर्माय तद्राज्यं प्रत्यस परिधापितः । खे मत्ताः करिणः शतं सहस्रं तुङ्गास्तुरङ्गाः, सहस्रं सवरूथा रथाः, शतं वादित्राणि प्रादायिषत । खं खं स्थानं गताः सर्वे । सूरि-भूपौ यशोधवलितसप्तभुवनौ गोपगरौ श्रीमहावीरमवन्दिषाताम् । तदा सूरिकृतं श्रीवीरस्य स्तवनम् -'शान्तो वेषः शमसु30 खफला' इत्यादि काव्यैकादशकमयमद्यापि सङ्के पठ्यते । सङ्घन प्रभुर्ववन्दे, तुष्टुवे च ।
१०७. रवेरेवोदयः श्लाघ्यः कोऽन्येषामुदयग्रहः । न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति ॥ ४७ ॥ अन्यदा ख- परसमयसूक्तैः प्रबोध्य राजा प्रभुभिर्मद्यमांसादि सप्तव्यसन नियमं ग्राहितः ।
1 नास्ति P 2 P नास्ति । 3 P यूयं । 4 Poप्येवं युगीन० । 5 D प्रत्यार्पि । 6 B स धर्मः। 7 D • भ्युदये ।
8P कारितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org