________________
बप्पभट्टिसूरिप्रबन्धः। १०४. धन्यास्त एव 'धवलायतलोचनानां तारुण्यदर्पघनपीनपयोधराणाम् ।
क्षामोदरोपरिलसत्त्रिवलीलतानां दृष्ट्वाऽऽकृतिं विकृतिमेति मनो न येषाम् ॥ ४४ ॥
इत्युक्त्वा दण्डप्रणामेन प्रणनाम श्रीआमः। अन्येयू राजा राजपथेन सञ्चरमाणो हालिकप्रियां एरण्डबृहत्पत्रसंवृतस्तनविस्तरां एरण्डपत्राणि विचिन्वानां गृहपाश्चात्यभागे दृष्ट्वा गाथाई योजितवान्
१०५. वइविवरनिग्गयदलो एरंडो 'साहइ व्व तरुणाणं । तत्तु सूरीणां पुरः समस्यात्वेन समर्पितवान् । सूरय ऊचुःइत्थ घरे हलियवहू 'इद्दहमित्तत्थणी अस्थि ॥४५॥
राजा विस्मित:-अहो सारं सारखतम् !। अन्यदा सायं प्रोषितभर्तृकां वासभवनं यान्तीं वक्रग्रीवां दीपकरां ददर्श । गाथार्द्ध चोचे- 10
१०६. दिजइ वंकग्गीवाइ दीवओ पहियजायाए ।
सूर्यग्रे पपाठ । सूरिर्गाथापूर्वार्द्धमुवाचपियसंभरणपलुटुंतअंसुधारानिवायभीयाए ॥ ४६॥
इति सूरिभूपौ सुखेन कालं गमयतो धर्मपरौ । ४१) अन्यदा धर्मनृपेण आमनृपस्य पार्श्वे दूतः प्रहित एत्यावोचत्-राजन् ! तव विच-15 क्षणतया धर्मनृपः सन्तुष्टः। पुनः स आह-भवद्भिर्वयं छलिताः। यतो भवद्भ्यो गृहमागतेभ्यो नास्माभिर्महानल्पोऽपि कोऽपि सत्कारः कृतः । अधुना शृणु-अस्मद्राज्ये वर्द्धनकुञ्जरो नाम महावादी बौद्धदर्शनी विदेशादागतोऽस्ति । स वादं जिघृक्षुः। यः कोऽपि वो राज्ये वादी भवति स आनीयताम् । अस्माकं भवद्भिः सह चिरन्तनवैरम् । यः कोऽपि वादी विजयी भविष्यति तत्प्रभुरपरस्य राज्यं ग्रहीष्यति । मम वादिना यदा जितं तदा त्वदीयं राज्यं मया ग्राह्यम् । 20 यदा तव वादिना जितं तदा मदीयं राज्यं त्वया ग्राह्यम् । अयं पणः । वाग्युद्धमेवास्तु। किं मानवकदनेन ? । आमेनोक्तम्-दूत! त्वया यदुक्तं तद्धर्मेण कथापितमथवा त्वया स्वतुण्डकण्डूतिमात्रेणोक्तम् ? । यदि तव प्रभुः सप्ताङ्गं राज्यं वादे जिते समर्पयिष्यति मे इति सत्यम् , तदा वयं वादिनमादायागच्छाम इति । दूतेनोक्तम्-कारणवशाद् युधिष्ठिरेणापि द्रोणपर्वण्यसत्यं भाषितम् ; मत्प्रभुस्तु कारणेऽपि न मिथ्या भाषते । आमेन दूतः प्रैषि । उक्तदिनोपरि 25 बप्पभहिं गृहीत्वा पथे उक्तस्थाने आमोऽगमत् । धर्मभूपतिरपि वर्द्धनकुञ्जरं वादीन्द्रमादाय तवाजगाम । परमारवंश्यं नरेन्द्र महाकविं वाक्पतिनामानं स्वसेवकं सहादाय समाययौ । उचितप्रदेशे आवासान् दापयामास । तौ वादि-प्रतिवादिनौ पक्ष प्रतिपक्षपरिग्रहेण वादमारेभेते । सभ्याः कौतुकाक्षिप्ताः पश्यन्ति । द्वावग्यसामान्यप्रतिभौ ज्ञौ । वादे षण्मासा गताः। द्वयोः कोऽपि न हारयति न जयति च । आमेन सूरयः प्रोक्ताः सायम्-राजकार्याणां 30 प्रत्यूहः स्यात्, निर्जीयतामसी शीघ्रम् । सूरिणा भणितम्-'प्रातर्निग्रहीष्यामि । मा स्म वो भ्रान्तिर्भूयात् । रात्रौ सूरीश्वरेण मन्त्रशत्तया मण्डले हारार्द्धहारमणिकुण्डलमण्डिताङ्गी दिव्याऽगरागवसना दिव्यकुसुमपरिमल वासितभुवनोदरा भगवती भारती साक्षादानीता। चतुर्दशभिः
1 A तरलायः। 2 D साहाइ ब्व; B तरुणीणं। 3 A इदीह। 4 CP चिरत्रः। 5 P कदर्थनेन । 6 P विना सर्वत्र 'समानिन्ये'। 7 P'झौ' नास्ति। 8AB प्रभाते। 9Dमललुलितभुवः ।
Jain Education Intemational
www.jainelibrary.org
For Private & Personal Use Only