________________
३४
प्रबन्धकोशे तद् दृष्ट्वा आमभूपतिमाच्छय मोढेरकपुरं ब्रह्मशान्तिस्थापितवीरजिनमहोत्सवाढ्यं प्रापुस्ते । गुरुन् ववन्दिरे। गुरवोऽपि तान् बाढमालिङ्गयालापिषुः-वत्स! गाढमुत्कण्ठितमस्माकं हृदयम् । मुखकमलकमपि ते विस्मृतम् । राजानुगमनं तेऽस्माकं दुःखायासीत् । कारय साधनाम् । अनृणो भव । ततोऽन्त्याराधना चतुःशरणगमन-दुष्कृतगर्हा-सुकृतानुमोदना-तीर्थमालावन्दनादिका 5 विधिना विधापिता । गुरवो देवलोकललनानयनत्रिभागपात्रत्वमानः । शोक उच्छलितः। ततो बप्पभट्टिः श्रीमद्गोविन्दसूरये श्रीनन्नसूरये च गच्छभारं समर्प्य श्रीआमपार्श्वमगमत् । पूर्ववत्समस्यादिगोष्ठ्यः स्फुरन्ति ।
४०) एकदा सूरिनुपसभायां चिरं पुस्तकाक्षरदत्तदृक् तस्थौ । तत्रैका नर्तकी नृत्यन्ती आसीत् रूपदासीकृताप्सराः । सूरिदृग्नीलि निवारणाय तस्याः शुकपिच्छनीलवर्णायां नील10 कञ्चलिकायां दृशं निवेशयामास । आमस्तद् दृष्ट्वा मनसि पपाठ
९९. सिद्धततत्तपारंगयाण जोगीण जोगजुत्ताणं । जइ ताणं पि मयच्छी मणमि ता तचिय पमाणं ॥ ३९ ॥ आमो रात्रौ पुंवेषां तां नर्तकीं सूरिवसतौ प्रैषीत् । तया सूरीणां विश्रामणाऽऽरब्धा । करस्पर्शेन ज्ञाता युवतिः सूरिणा । अभिहिता सा-का त्वम् ?, कस्मादिहागता ? । अस्मासु ब्रह्मत्र
तनिबिडेषु वराकि ! भवत्याः कोऽवकाशः। वात्याभिने चलति काश्चनाचलः। तयोक्तम्-भवद्भय 15 उपदेष्टुमागता।
१००. राज्ये सारं वसुधा वसुधायामपि पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गनाऽनङ्गसर्वस्वम् ॥ ४० ॥
इति । किञ्च
१०१. प्रियादर्शनमेवास्तु किमन्यैर्दर्शनान्तरैः । प्राप्यते येन निर्वाणं सरागेणापि चेतसा ॥४१॥ ___ श्रीआमेन प्रेषिताऽहं प्राणवल्लभा भवतां शुश्रूषार्थम् । ततः सूरिशको वदति म-अस्माकं 20 ज्ञानदृप्रपातदृष्टद्रष्टव्यानां नैव व्यामोहाय प्रगल्भसे।
१०२. मलमूत्रादिपात्रेषु गात्रेषु मृगचक्षुषाम् । रतिं करोति को नाम सुधीर्वक़गृहेष्विव ॥ ४२ ॥ ___ सापि निर्विकारं सूरिवरं निश्चित्य ध्वनचेताः प्रातपतिसमीपं गता । पृच्छते राज्ञे रात्रीयः सूरिवृत्तान्तः सम्यक् कथितस्तया-पाषाणघटित इव तव गुरुः। नवनीतपिण्डमयः शेषो वराको लोकः । यावन्तः कूटप्रपश्चा हावभाव-कटाक्ष-भुजाक्षेप-चुम्बन नखरदनक्षतादिविलासास्ते सर्वे 25 आजन्मशिक्षितास्तत्र प्रयुक्ताः । पुनस्तिलतुषत्रिभागमात्रमपि मनोऽस्य नाचालीत् । अनुरागबलात्कार-पूत्कार-भीदर्शन-हत्यादानादिविभीषिकाभिरपि नाचभत् । तदेष मन्ये महावज्रमयो न देवकन्याभिर्न विद्याधरीभिर्न नागाङ्गनाभिश्चाल्यते; मानुषीणां तु का कथा?।अस्मिन्सुरेद्धर्मस्थैर्ये श्रुते नृपो विस्मयानन्दाभ्यां कदम्बमुकुलस्थूलरोमाञ्चकञ्चकितगात्रः संवृत्तः । दध्यौ च गुरुं ध्यानप्रत्यक्षं कृत्वा30 १०३. न्युञ्छने यामि वाक्यानां दृशोर्याम्यवतारणे । बलिः क्रियेऽहं सौहार्दहृद्याय हृदयाय ते ॥ ४३ ॥
प्रातप्रवः समागुः । राजा हीणो न वदति किञ्चित् । सूरिभिर्भणितम्-राजन् ! मा लजिष्ठाः । महर्षीणां दूषण-भूषणान्वेषणं राज्ञा कार्य न दोषः। राज्ञोक्तम्-अलमतीतवृत्तान्तचर्चया । एतदहमुत्तम्भितभुजो ब्रुवे युष्मान्ब्रह्मधनानवलोक्य
1A मागतः। 2 A. हग्मीलि.। 3 CP तथा। 4 P नास्ति 'वराको'। 5 D नखदन्ताक्षता० ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org