Book Title: Prabandh kosha Author(s): Rajshekharsuri, Jinvijay Publisher: Singhi Jain GyanpithPage 61
________________ ३८ प्रबन्धकोशे जिकाः तत्तद्रसभावज्ञाः। ताभ्यां नाटकं दर्शयितुमारेभे। भरत-बाहुबलिसमरावसरोऽभिनीयते। यदा व्यूहरचना-शस्त्रझलत्कार-वीरवर्णना-भट्टकोलाहलाश्चोत्थापनघर्घरिका-झणझणत्कारादि ताभ्यां वर्णयितुमारब्धम् , धारारूढश्च रसोऽवातारीत् ; तदा श्रीआमस्तद्भटाश्च कालिन्दीप्रवाहश्यामदीर्घानसीनाकृष्योत्थिता 'हत हत' इति भाषन्ते स्म । अत्रान्तरे नन्नसूरि-गोविन्दाचार्यों 5 स्वरूपमुद्रे प्रकाश्याहतुः-राजान् ! भटाः! शृणुत २ कथायुद्धमिदम् , न तु साक्षात्। अलं सम्भ्रमेण। इत्युक्ता लज्जिता विस्मिताश्च ते राजाद्याः संवृत्याकारमस्थुः । तदा गोविन्दाचार्य-नन्नसूरिभ्यां भूपोऽभाणि-किल शृङ्गाराननुभविनो वयमिति सम्यग्व्याख्यातुं विद्मः। किन्तु समरा जिरमपि भवद्वत्प्रविष्टाः स्मः। कुरङ्गा इव शस्त्रे दृष्टेऽपि बिभिमः । आबाल्याद् गृहीतव्रताः पाप भीरवः, परं भारतीप्रभावप्रभववचनशक्त्या रसान् सर्वान् जीवद्रूपानिव दर्शयामः । राजन् ! 10 मोढेरके यैस्ते वात्स्यायनभावा व्याख्याताः, ते वयं नन्नसूरय इमे च गोविन्दाचार्याः। भवतां तदा मृषा विकल्पः समजनि । राजा सद्यो ललज्जे । तौ सूरी क्षमयामास, आनर्च बप्पभर्दि च । तौ कतिचिदिनानि उपराजं स्थित्वा बप्पभट्टेरनुज्ञया पुनर्मोढेरपुरमगाताम् । गतः समयः कियानपि। ६४५) अन्यदा गाथकवृन्दमागतम् । तन्मध्ये बालिकैका सनालनीलोत्पललोचना मृगाकमुखी 15 किन्नरखरा विदुषी गायति । तां दृष्ट्वा मदनशरज्वरजर्जरः गलितविवेको गतप्रायशौचधर्माभिनिवेशः कन्यकुब्जेशः पद्यद्वयं प्रभुप्रत्यक्षमपाठीत्१०९. वक्त्रं पूर्णशशी सुधाधरलता दन्ता मणिश्रेणयः, कान्तिः श्रीर्गमनं गजः परिमलस्ते पारिजातद्रुमाः । ___ वाणी कामदुधा कटाक्षलहरी सा कालकूटच्छटा, तत्किं चन्द्रमुखि ! त्वदर्थममरैरामन्थि दुग्धोदधिः ॥४९॥ ११०. जन्मस्थानं न खलु विमलं वर्णनीयो न वर्णो, दूरे शोभा वपुषि निहिता पङ्कशङ्कां तनोति । विश्वप्रार्थ्यः सकलसुरभिद्रव्यदर्पापहारी, नो जानीमः परिमलगुणः कस्तु कस्तूरिकायाः' ॥५०॥ सूरिभिश्चिन्तितम्-अहो ! महतामपि किग मतिविपर्यासः । १११. भला काचन भूरिरन्ध्रविगलत्तत्तन्मलक्लेदिनी, सा संस्कारशतैः क्षणार्द्धमधुरां बाह्यामुपैति द्युतिम् । __ अन्तस्तत्त्वरसोर्मिधौतमतयोऽप्येतां तु कान्ताधिया, श्लिष्यन्ति स्तुवते नमन्ति च पुरः कस्यात्र पूत्कुर्महे ॥५१॥ उत्थिता सभा । त्रिभिर्दिनैर्भूपेन पूर्वहिः सौधं कारितम्', मातङ्गीसहितोऽत्र वत्स्यामीति 25 धिया । तदवगतं श्रीबप्पभट्टिसूरिभिः । ध्यानप्रत्यक्षं हि तेषां जगवृत्तम् । ततो माऽसौ कुकर्मणा" नरकं" यासीदिति कृपया तैर्निष्पाद्यमानसौधभारपट्टे निशि खटिकया बोधदानि पद्यानि लिखितानि । यथा.११२. शैत्यं नाम गुणस्तवैव तदनु स्वाभाविकी स्वच्छता, किं ब्रूमः शुचितां भवन्त्यशुचयस्त्वत्सङ्गतोऽन्ये यतः । किंवाऽतः परमस्ति ते स्तुतिपदं त्वं जीवितं देहिनां, त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोर्बु क्षमः ॥५२॥ 80 ११३. *सवृत्त सद्गुण महार्ण्य महार्हकान्त कान्ताघनस्तनतटोचितचारुमूर्ते ! । आः पामरीकठिनकण्ठविलग्नभन्न हा हार ! हारितमहो भवता गुणित्वम् ॥ ५३॥ - 1E शस्त्ररणरणत्कार । 2 B हन हन । 3 ABD निंदा। 4 P तमाल। 5 P तद् । 6 CP मदनज्वर० । 7 B कस्तूरिकायाम् । 8 PC नु। 9 B कारापितम् । 10 BP नास्ति। 11 P नरकमयासी। 12 BD किश्चात * BD आदर्श नास्ति पद्यमिदम् । 20 For Private & Personal Use Only Jain Education Intemational www.jainelibrary.org For Private & Personal Use OnlyPage Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176