Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 59
________________ ३६ प्रबन्धकोशे काव्यैः सद्यस्कैर्दिव्यैः स्तुता । देव्योक्तम्-वत्स ! केन कारणेन स्मृता । सूरिवीरेण भणितम्षण्मासा वादे लग्नाः । तथा कुरु यथा वादे निरुत्तरीभवति सः । देव्या गदितम् - वत्स ! अहमनेन प्राक् सप्तभवानाऽऽराधिता । मयाऽत्र भवेऽस्मै अक्षयवचना गुटिका दत्ताऽस्ति । तत्प्रभावाच्चक्रिनिधिधनमिव नास्य वचो हीयते । सूरिणोक्तम्-त्वं देवि ! किं जैनशासनविरोधिनी, 5 येन मे जयश्रियं न दत्से ? | भारत्यूचे - वत्स ! जयोपायं ब्रुवे । त्वया वादारम्भे प्रातः सर्वे वदनशौचं काराप्याः पार्षद्याः । गण्डूषं कुर्वतस्तस्य वदनाद् गुटिका ममेच्छया पतिष्यति तदा त्वया जेष्यते । एकं तु याचे-मत्स्तुतेश्चतुर्दशकाव्यं कस्याप्यग्रे न प्रकाश्यम् । तत्पठनेन हि मया ध्रुवं ध्रुवं प्रत्यक्षया भाव्यम् । कियतां प्रत्यक्षा भवामि ? | क्लेशेनालम् । एवमुक्त्वा देवी विशुज्झात्कारलीलयाऽन्तर्दधे । सूरिभिर्निशि परमाप्तशिष्य एको वाक्पतिराजसमीपं प्रहित्याख्या10 पितं यथा - सूरयो वदन्ति - राजन् ! त्वं विद्यानिधिरस्माकं लक्षणावतीपुरीपरिचितचरः । तदाऽवादी :- भगवन् ! निरीहा भवन्तः, कां भवद्भ्यो भक्तिं दर्शयामि । तदा वयमवोचाम - अवसरे कामपि भक्तिं कारयिष्यामः । भवद्भिर्भणितम्-तथास्तु । इदानीं सोऽवसरोऽत्र समायातः । वाक्पतिना शिष्यः पृष्टः - सूरयः किं मे समादिशन्ति ? । आदिष्टं कुर्वे ध्रुवम् । शिष्यो न्यवेदयत् - राजन् ! गुरवः आदिशन्ति - प्रातर्धर्मामयोः सदःस्थयोः सतोस्त्वया वाच्यं यथा वदन15 शौचं विना भारती न प्रसीदति । तस्माद्वादि-प्रतिवादि-सभ्य सभेशाः सर्वे शौचं कुर्वन्तु । एतावति कृते भवता नः सर्वः स्नेहः कृत एव । वाक्पतिना तदङ्गीकृतम् । शिष्येणोपगुरु गत्वा तत्तत्प्रतिज्ञातं कथितम् । तुष्टाः गुरवः । प्रत्यूषे उदयति भगवति गभस्तिमालिनि लाक्षालित इव प्राचीमुखे राजानौ सभायामगाताम् । वाकपतिना वदनशौचं सर्वे कारिताः, बौद्धवादी - न्द्रोऽपि । तस्य वदनकमलाद्विगलिता गुटिका अपतत् पतद्ग्रहे । बप्पभद्विशिष्यैः पतग्रहो 20 जनैर्दूरे कारापितः । गुटिका सूरीन्द्रसाजाता । बौद्धो गुटिकाहीनः सूरिणा पार्थेन कर्ण इव दिव्यशक्तिमुक्तो निःशङ्कं वाक्पृषत्कैर्हतः । निरुत्तरीकृतः । राहुग्रस्तश्चन्द्र इव हिमानीविलुप्तस्तरुखण्ड इव निस्तेजतां भेजे । तदा श्रीबप्प भट्टेर्निर्विवादं वादिकुञ्जरकेसरीति बिरुदं खैः परैश्च दत्तम् । धर्मेण सप्ताङ्गं राज्यं आमाय दत्तम् । लाहीदम् । धर्माद्धि राज्यं लभ्यते । काऽत्र चर्चा १ । आमेन गृहीतम् । तदा सूरिणा आमः प्रोक्तः- राजन् ! पुना राज्यं धर्माय देहि । महादानमिदम् । शोभते 25 च ते। राजस्थापनाचार्याश्च पारंपर्येण' । 'पूर्वं श्रीरामेण वनस्थेनापि सुग्रीव - विभीषणौ राजीकृतौ । त्वमप्यैदंयुगीननृपेषु तत्तुल्यः । एतद्वचनसमकालमेव आमेन गाम्भीयौदार्यधान्ना धर्माय तद्राज्यं प्रत्यस परिधापितः । खे मत्ताः करिणः शतं सहस्रं तुङ्गास्तुरङ्गाः, सहस्रं सवरूथा रथाः, शतं वादित्राणि प्रादायिषत । खं खं स्थानं गताः सर्वे । सूरि-भूपौ यशोधवलितसप्तभुवनौ गोपगरौ श्रीमहावीरमवन्दिषाताम् । तदा सूरिकृतं श्रीवीरस्य स्तवनम् -'शान्तो वेषः शमसु30 खफला' इत्यादि काव्यैकादशकमयमद्यापि सङ्के पठ्यते । सङ्घन प्रभुर्ववन्दे, तुष्टुवे च । १०७. रवेरेवोदयः श्लाघ्यः कोऽन्येषामुदयग्रहः । न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति ॥ ४७ ॥ अन्यदा ख- परसमयसूक्तैः प्रबोध्य राजा प्रभुभिर्मद्यमांसादि सप्तव्यसन नियमं ग्राहितः । 1 नास्ति P 2 P नास्ति । 3 P यूयं । 4 Poप्येवं युगीन० । 5 D प्रत्यार्पि । 6 B स धर्मः। 7 D • भ्युदये । 8P कारितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176