Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 58
________________ बप्पभट्टिसूरिप्रबन्धः। १०४. धन्यास्त एव 'धवलायतलोचनानां तारुण्यदर्पघनपीनपयोधराणाम् । क्षामोदरोपरिलसत्त्रिवलीलतानां दृष्ट्वाऽऽकृतिं विकृतिमेति मनो न येषाम् ॥ ४४ ॥ इत्युक्त्वा दण्डप्रणामेन प्रणनाम श्रीआमः। अन्येयू राजा राजपथेन सञ्चरमाणो हालिकप्रियां एरण्डबृहत्पत्रसंवृतस्तनविस्तरां एरण्डपत्राणि विचिन्वानां गृहपाश्चात्यभागे दृष्ट्वा गाथाई योजितवान् १०५. वइविवरनिग्गयदलो एरंडो 'साहइ व्व तरुणाणं । तत्तु सूरीणां पुरः समस्यात्वेन समर्पितवान् । सूरय ऊचुःइत्थ घरे हलियवहू 'इद्दहमित्तत्थणी अस्थि ॥४५॥ राजा विस्मित:-अहो सारं सारखतम् !। अन्यदा सायं प्रोषितभर्तृकां वासभवनं यान्तीं वक्रग्रीवां दीपकरां ददर्श । गाथार्द्ध चोचे- 10 १०६. दिजइ वंकग्गीवाइ दीवओ पहियजायाए । सूर्यग्रे पपाठ । सूरिर्गाथापूर्वार्द्धमुवाचपियसंभरणपलुटुंतअंसुधारानिवायभीयाए ॥ ४६॥ इति सूरिभूपौ सुखेन कालं गमयतो धर्मपरौ । ४१) अन्यदा धर्मनृपेण आमनृपस्य पार्श्वे दूतः प्रहित एत्यावोचत्-राजन् ! तव विच-15 क्षणतया धर्मनृपः सन्तुष्टः। पुनः स आह-भवद्भिर्वयं छलिताः। यतो भवद्भ्यो गृहमागतेभ्यो नास्माभिर्महानल्पोऽपि कोऽपि सत्कारः कृतः । अधुना शृणु-अस्मद्राज्ये वर्द्धनकुञ्जरो नाम महावादी बौद्धदर्शनी विदेशादागतोऽस्ति । स वादं जिघृक्षुः। यः कोऽपि वो राज्ये वादी भवति स आनीयताम् । अस्माकं भवद्भिः सह चिरन्तनवैरम् । यः कोऽपि वादी विजयी भविष्यति तत्प्रभुरपरस्य राज्यं ग्रहीष्यति । मम वादिना यदा जितं तदा त्वदीयं राज्यं मया ग्राह्यम् । 20 यदा तव वादिना जितं तदा मदीयं राज्यं त्वया ग्राह्यम् । अयं पणः । वाग्युद्धमेवास्तु। किं मानवकदनेन ? । आमेनोक्तम्-दूत! त्वया यदुक्तं तद्धर्मेण कथापितमथवा त्वया स्वतुण्डकण्डूतिमात्रेणोक्तम् ? । यदि तव प्रभुः सप्ताङ्गं राज्यं वादे जिते समर्पयिष्यति मे इति सत्यम् , तदा वयं वादिनमादायागच्छाम इति । दूतेनोक्तम्-कारणवशाद् युधिष्ठिरेणापि द्रोणपर्वण्यसत्यं भाषितम् ; मत्प्रभुस्तु कारणेऽपि न मिथ्या भाषते । आमेन दूतः प्रैषि । उक्तदिनोपरि 25 बप्पभहिं गृहीत्वा पथे उक्तस्थाने आमोऽगमत् । धर्मभूपतिरपि वर्द्धनकुञ्जरं वादीन्द्रमादाय तवाजगाम । परमारवंश्यं नरेन्द्र महाकविं वाक्पतिनामानं स्वसेवकं सहादाय समाययौ । उचितप्रदेशे आवासान् दापयामास । तौ वादि-प्रतिवादिनौ पक्ष प्रतिपक्षपरिग्रहेण वादमारेभेते । सभ्याः कौतुकाक्षिप्ताः पश्यन्ति । द्वावग्यसामान्यप्रतिभौ ज्ञौ । वादे षण्मासा गताः। द्वयोः कोऽपि न हारयति न जयति च । आमेन सूरयः प्रोक्ताः सायम्-राजकार्याणां 30 प्रत्यूहः स्यात्, निर्जीयतामसी शीघ्रम् । सूरिणा भणितम्-'प्रातर्निग्रहीष्यामि । मा स्म वो भ्रान्तिर्भूयात् । रात्रौ सूरीश्वरेण मन्त्रशत्तया मण्डले हारार्द्धहारमणिकुण्डलमण्डिताङ्गी दिव्याऽगरागवसना दिव्यकुसुमपरिमल वासितभुवनोदरा भगवती भारती साक्षादानीता। चतुर्दशभिः 1 A तरलायः। 2 D साहाइ ब्व; B तरुणीणं। 3 A इदीह। 4 CP चिरत्रः। 5 P कदर्थनेन । 6 P विना सर्वत्र 'समानिन्ये'। 7 P'झौ' नास्ति। 8AB प्रभाते। 9Dमललुलितभुवः । Jain Education Intemational www.jainelibrary.org For Private & Personal Use Only

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176