Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 57
________________ ३४ प्रबन्धकोशे तद् दृष्ट्वा आमभूपतिमाच्छय मोढेरकपुरं ब्रह्मशान्तिस्थापितवीरजिनमहोत्सवाढ्यं प्रापुस्ते । गुरुन् ववन्दिरे। गुरवोऽपि तान् बाढमालिङ्गयालापिषुः-वत्स! गाढमुत्कण्ठितमस्माकं हृदयम् । मुखकमलकमपि ते विस्मृतम् । राजानुगमनं तेऽस्माकं दुःखायासीत् । कारय साधनाम् । अनृणो भव । ततोऽन्त्याराधना चतुःशरणगमन-दुष्कृतगर्हा-सुकृतानुमोदना-तीर्थमालावन्दनादिका 5 विधिना विधापिता । गुरवो देवलोकललनानयनत्रिभागपात्रत्वमानः । शोक उच्छलितः। ततो बप्पभट्टिः श्रीमद्गोविन्दसूरये श्रीनन्नसूरये च गच्छभारं समर्प्य श्रीआमपार्श्वमगमत् । पूर्ववत्समस्यादिगोष्ठ्यः स्फुरन्ति । ४०) एकदा सूरिनुपसभायां चिरं पुस्तकाक्षरदत्तदृक् तस्थौ । तत्रैका नर्तकी नृत्यन्ती आसीत् रूपदासीकृताप्सराः । सूरिदृग्नीलि निवारणाय तस्याः शुकपिच्छनीलवर्णायां नील10 कञ्चलिकायां दृशं निवेशयामास । आमस्तद् दृष्ट्वा मनसि पपाठ ९९. सिद्धततत्तपारंगयाण जोगीण जोगजुत्ताणं । जइ ताणं पि मयच्छी मणमि ता तचिय पमाणं ॥ ३९ ॥ आमो रात्रौ पुंवेषां तां नर्तकीं सूरिवसतौ प्रैषीत् । तया सूरीणां विश्रामणाऽऽरब्धा । करस्पर्शेन ज्ञाता युवतिः सूरिणा । अभिहिता सा-का त्वम् ?, कस्मादिहागता ? । अस्मासु ब्रह्मत्र तनिबिडेषु वराकि ! भवत्याः कोऽवकाशः। वात्याभिने चलति काश्चनाचलः। तयोक्तम्-भवद्भय 15 उपदेष्टुमागता। १००. राज्ये सारं वसुधा वसुधायामपि पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गनाऽनङ्गसर्वस्वम् ॥ ४० ॥ इति । किञ्च १०१. प्रियादर्शनमेवास्तु किमन्यैर्दर्शनान्तरैः । प्राप्यते येन निर्वाणं सरागेणापि चेतसा ॥४१॥ ___ श्रीआमेन प्रेषिताऽहं प्राणवल्लभा भवतां शुश्रूषार्थम् । ततः सूरिशको वदति म-अस्माकं 20 ज्ञानदृप्रपातदृष्टद्रष्टव्यानां नैव व्यामोहाय प्रगल्भसे। १०२. मलमूत्रादिपात्रेषु गात्रेषु मृगचक्षुषाम् । रतिं करोति को नाम सुधीर्वक़गृहेष्विव ॥ ४२ ॥ ___ सापि निर्विकारं सूरिवरं निश्चित्य ध्वनचेताः प्रातपतिसमीपं गता । पृच्छते राज्ञे रात्रीयः सूरिवृत्तान्तः सम्यक् कथितस्तया-पाषाणघटित इव तव गुरुः। नवनीतपिण्डमयः शेषो वराको लोकः । यावन्तः कूटप्रपश्चा हावभाव-कटाक्ष-भुजाक्षेप-चुम्बन नखरदनक्षतादिविलासास्ते सर्वे 25 आजन्मशिक्षितास्तत्र प्रयुक्ताः । पुनस्तिलतुषत्रिभागमात्रमपि मनोऽस्य नाचालीत् । अनुरागबलात्कार-पूत्कार-भीदर्शन-हत्यादानादिविभीषिकाभिरपि नाचभत् । तदेष मन्ये महावज्रमयो न देवकन्याभिर्न विद्याधरीभिर्न नागाङ्गनाभिश्चाल्यते; मानुषीणां तु का कथा?।अस्मिन्सुरेद्धर्मस्थैर्ये श्रुते नृपो विस्मयानन्दाभ्यां कदम्बमुकुलस्थूलरोमाञ्चकञ्चकितगात्रः संवृत्तः । दध्यौ च गुरुं ध्यानप्रत्यक्षं कृत्वा30 १०३. न्युञ्छने यामि वाक्यानां दृशोर्याम्यवतारणे । बलिः क्रियेऽहं सौहार्दहृद्याय हृदयाय ते ॥ ४३ ॥ प्रातप्रवः समागुः । राजा हीणो न वदति किञ्चित् । सूरिभिर्भणितम्-राजन् ! मा लजिष्ठाः । महर्षीणां दूषण-भूषणान्वेषणं राज्ञा कार्य न दोषः। राज्ञोक्तम्-अलमतीतवृत्तान्तचर्चया । एतदहमुत्तम्भितभुजो ब्रुवे युष्मान्ब्रह्मधनानवलोक्य 1A मागतः। 2 A. हग्मीलि.। 3 CP तथा। 4 P नास्ति 'वराको'। 5 D नखदन्ताक्षता० । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176