Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 33
________________ १० प्रबन्धकोशे कारिताः। भुवनमुनिपञ्चाननतर्कचपेटाताडिताः फेरण्डा इव तूष्णीकाः समजनिषत । राजादिभिघोषितो जयः श्वेताम्बरशासनस्य । वर्तन्ते चैत्येषु महोत्सवाः । बौद्धास्तु हिमहतपनवनाभा जाताः । तं बौद्धापमानं श्रुत्वा बौद्धाचार्यों गुडशस्त्रपुराद् वृद्धकराख्यो महातार्किको भृगुपुरमगात् । राजानमवोचत्-श्वेताम्बरैः सह मां वादं कारापय । राज्ञा भुवनप्रज्ञास्फूर्जितेन' 5 वारितोऽपि नास्थात् । वादेऽजित एव सोऽपि भुवनेन जितः। न खलु यमो भूतानां ध्रायते । जित्वा सभ्याः प्रभाषिताः-भो! भो! शृणुत- . १५. यदृको दृषदो यदुष्णकिरणो ध्वान्तस्य यच्छीतगुः, शेफालीकुसुमोत्करस्य च दशाकर्षः पतङ्गस्य यत् । ____ अद्रेर्यत्कुलिशः प्रचण्डपवनो मेघस्य यद्यत्तरोः, पशुर्यत्करिणो हरिः प्रकुरुते तद्वादिनोऽसावहम् ॥ ३॥ सभ्याश्च चमत्कृता उज्जुघुषुः-जयति धवलाम्बरशासनम् । वृद्धकरः 'पुनरपैमानाशनिततोऽन10 शनं कृत्वा गुडशस्त्रपुरे वृद्धकराख्यो यक्ष उत्पन्नः । प्राग्वैरेण जैनानुपद्रवति, व्याधिवर्द्धन भापन-धनहरणादिप्रकारैः । गुडशस्त्रपुरसङ्घन आर्यखपटास्तविज्ञप्ताः तत्र गताः । तत्र च यक्षायतनं प्रविश्य यक्षस्य कर्णयोरुपानही बबन्धुः; वक्षसि पादौ ददुः । लोको मिलितः। राजा तत्रत्यः तत्रागतः। राज्ञि तत्रागते आचार्याः श्वेतवस्त्रेण खं सर्वमङ्गमावृत्य तस्थुः । राजा यत्र यत्रोद्घाटयति, तत्र तत्र स्फिचीवेव दृश्येते । ततः क्रुद्धो राजा घातान्दापयति खपटाचार्य15 स्था) । ते घाताः शिरीषकोषादपि कोमलेष्वन्तःपुरीणामङ्गेषु लेगुः । उच्छलितोऽन्तःपुरे स्त्रीणां कोलाहल:-हा नाथ ! रक्ष रक्ष, हा! हन्यामहे केनाप्यदृष्टेन, कथं जीविष्यामः । राजा सूरिशक्तिचमत्कृतमनाः सूरीणां पैदोर्लग्ना-प्रसद्य मम सपरिजनस्य जीवितभिक्षां देहि; कृपालुस्त्वम्-इत्याधुवाच । यक्षस्तु" खस्थानादुत्थायोपसरि समागतो विनीतः पादसंवाहनां मम कीटिकामात्रस्योपरि वः कः कटकारम्भ:-इति ब्रूते । मिलितो लोकः । आर्यखपटैर्यक्ष 20 ऊचे । रे अधम! अस्मयूथ्यान्पराबुभूषसि ? । पराभव, यद्यस्ति प्राभवम् ! । यक्षः माह स्म-'हनूमति रक्षति सति शाकिन्यः पात्राणि कथं ग्रसन्ते?' । तव भृत्योऽस्मि । मा मां पीडय । तव सङ्घ बान्धववक्षिताऽस्मि । राजादयः सर्वे चमत्कृताः सूरिभक्ता बभूवुः। सूरयः प्रासादानिर्गत्य यदा बहिर्गतास्तदा यक्षः पाषाणमूर्तिः सहायातः । द्वे दृषदौ, द्वे दार्षदकुण्डिके, सूक्ष्मयक्षाः सहागुः। नगरप्राकारद्वारायातेन सूरीन्द्रेण यक्षाद्या विसृष्टाः स्वस्थानमगुः । कुण्डिके 25 तु पुरद्वारे सूरिणा स्थापिते, लोके ख्यातिनिमित्तम् । राजा प्रबोध्य सद्यः श्रावकः कृतः। खसौधं गतः। 'प्रभावनानर्तकीरणाचार्य' इति स" सूरीन्द्रस्तत्र चातुर्वण्र्येन वर्णयामासे । तदैव भृगुपुरासाधू द्वावागतौ । ताभ्यां प्रभवः प्रोक्ताः-भगवन् ! भृगुपुरादत्रागच्छद्भिर्भवद्भिर्या कपरिका गूढमधारि, सा क्षुल्लकेनैकेनावाच्यत । वाचयता आकृष्टिलब्धिलब्धा । तद्वशादिभ्यानां गृहेषु निष्पन्नां रसवतीमाकृष्यानीय भुङ्क्ते स्म । तथा कुर्वन् गच्छेन ज्ञातो निषिद्धो न निवर्तते, रसने30न्द्रियपरवशत्वात् । ततः सङ्घन हक्कितः। "क्रुद्धो गत्वा बौद्धानां मिलितः । तदाचार्य इव जातः। बौद्धानां पात्राणि मठात्खेन गृहमेधिनां गृहेषु नयति । ततो भक्तपूर्णानि तानि खेनैव 1A हिमहृत; B हिमवत्; D तुहिनमहत। 2 P नास्ति 'मां'। 3 B स्फूर्तितेन; P स्फूर्तिक्षेन । 4 BD वादिजित । 5 P धीयते। 6P नास्ति । 7 P वृद्धकरोऽपमाना। एतद्गतः पाठो नास्ति A आदर्श। 8 A मृत्वा। 9 B विज्ञाः। एतदन्तर्गता पंक्तिः पतिता D आदर्श। 10 BD स्फिजा०। 11 P पादौ। 12 'तु' नास्ति AB| 13 BD पुरप्रा०। 14 नास्ति 'स'P 15 DP ऋथा। Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176