Book Title: Prabandh kosha Author(s): Rajshekharsuri, Jinvijay Publisher: Singhi Jain GyanpithPage 31
________________ प्रबन्धकोशे लक्षणभूषितं नरं विलोकयति । तस्मिन्समये ते त्रय एव । एको विक्रमादित्या, द्वितीयो जीवसूरिः, तृतीयः स एव योगी, नान्यः। राजाऽवध्यः । नरकपाले एकपुटी षण्मासी यावद्रिक्षा याच्यते भुज्यते च, ततः सिध्यति । तेन सूरि छलयितुमायातः । सूरीणां सूरिमनप्रभावाइस्त्राण्येव नीलीभूतानि न पुनर्वपुः । ततो गुरुसमीपस्थवाचकजिह्वा स्तम्भिता]। श्रीजीवदेव5 सूरिदृष्टौ जिह्वया' योगपट्टपर्यस्तिकां बबन्ध । सभ्यलोको विभाय । प्रभुभिः स कीलितः। ततस्तेन खटिकया भूमौ लिखितम् १२. उवयारह उवयारडउ सव्वु लोउ करेइ । अवगुणि कियइ जु गुणु करइ विरलउ जणणी' जणेइ ॥३॥ ___ अहं तव च्छलनार्थमागतोऽभूवम् । त्वया ज्ञातः, स्तम्भितः, प्रसीद, मुश्च, कृपां कुरुइत्यादि । ततः कृपया प्रभुभिर्मुक्तोऽसौ वायटनगरे बहिर्मठी गत्वा तस्थौ । प्रभुभिः खगच्छः 10 समाकार्योक्तः-योगी दुष्टो बहिर्मठेऽस्ति अमुकदिशि । तस्यां दिशि केनापि साधुना साध्व्या वा न गन्तव्यमेव । तथेति तन्मेने सर्वैः। साध्व्यौ तु द्वे ऋजुतया कुतूहलेन तामेव दिशं गते । योगिना समेत्य चूर्णशक्त्या वशीकृते तत्पार्च न मुञ्चतः । प्रभुभिः स्ववसतौ दर्भपुत्रकः कृतः। तत्करच्छेदे योगिनोऽपि करच्छेदः । मुक्ते साध्व्यौ । मस्तकक्षालनात्परविद्याविदलने सुस्थीभूते ते। ६१४) अथान्यदोजयिन्यां विक्रमादित्येन वत्सरः प्रवर्तयितुमारेभे। तत्र देशानामनृणीकरणाय 15 मन्त्री निम्बो गूर्जरधरादिशि प्रहितो विक्रमेण । स निम्बो वायटे श्रीमहावीरप्रासादमचीकरत् । ..तत्र देवं श्रीजीवदेवसूरीन्द्रः प्रत्यतिष्ठिपत् । अन्येचुर्वायटे लल्लो नाम श्रेष्ठी महामिथ्यादृग् । तेन होमः कारयितुमारब्धः। विप्रा मिलिताः। आसन्नादाचाम्लिकाद् द्रुमालूमाकुलोऽहिः कुण्डा सन्नोऽपतत् । निघृणैर्विप्रैः स वराक उत्पाट्य वहौ" जुहुवे। लल्लस्तद् दृष्ट्वा विरक्तो विप्रेषु उवाच--अहो! निष्ठुरत्वमेतेषाम् । एवं जीवहिंसारता ये। तस्मादलमेभिर्गुरुभिः । एवं वदन् विप्रान् 20 विसृज्य स्वगृहमगमत्।"दर्शनानामाचारान्विलोकते । एकदा मध्याह्ने श्रीजीवदेवसूरीणां साधुसवाटकस्तद्गृहे भिक्षार्थ गतः । तयोः शुद्धभिक्षाग्रहणात्तुष्टः । लल्लेन तौ मुनी आलापितौयुवयोः के गुरवः । ताभ्यां श्रीजीवदेवसूरयः कथिताः । लल्लस्तत्र गतः । श्रावकद्वादशवती ससम्यक्त्वां ललौ । अन्यदा लल्लेनोक्तम्-सूर्यपर्वणि मया द्रव्यलक्षं दाने कल्पितम् । तस्याई व्ययितम्, शेषमई गृह्णीत । न गृह्णन्ति ते निर्लोभाः। लल्लो बाढं प्रीतः । गुरुभिरुक्तम्-अथ 25 सायं प्रक्षालितैकपादस्य तव यत्प्राभृतमायाति तदस्मत्पार्चे आनेयम् । इति श्रुत्वा गृहं गतो लल्लः । सायं केनापि "द्वौ वृषभौ प्राभृतीकृतौ । लल्लेन गुरुपार्श्वमानीतौ । गुरुणोक्तम्-यत्रैतौ स्वयं यात्वा तिष्ठतः। तत्रैतद्र्व्यव्ययेन चैत्यं काराप्यम् । तच्छ्रुत्वा तेन वृषौ स्वच्छन्दं मुक्तौ पिप्पलानकग्रामे" गतौ क्वचित् स्थितौ । तत्र भूमौ लल्लेन चैत्यमारब्धम् । निष्पन्नम् । तत्रावधूतः कोऽप्यायातः । तेनोक्तम्-अत्र प्रासादे दोषोऽस्ति । जनैरुक्तम्-को दोषः । तेनोक्तम्30 स्त्रीशल्यमास्ते । लल्लेन तच्छ्रुत्वा गुरवो विज्ञप्ताः । गुरुभिरुक्तम्-निःशल्यां भूमि कृत्वा पुन: प्रासादः कार्यते । लल्ल! त्वया द्रव्यचिन्ता न कार्या । तदधिष्ठात्र्यो धनं पूरयिष्यन्ति । प्रसाद उत्कीलयितुमारेभे । शब्द उत्पन्न:-चैत्यं नोत्कीलनीयम् । गुरवो विज्ञप्ताः । तैानं दः । 1 BD दृष्टो । 2 B जिह्वाया; P स्वजिह्वाया। 3 P सब्बउ । 4 C अवगुण। 5 CD गुण। 6 A विरला । 7C जणिणि । 8 P नास्ति। 9A वर्तयि०, P संवत्सरः प्रवर्तः। 10 A.B नास्तीदं पदम्। 11 ABD अग्नौ । 12 AB नास्ति । 13 DP सर्वदर्शना। 14 P कथितं। 15 P द्वे। 16 B तत्रैव द्रव्यः। 17 AB ग्रामं । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176