Book Title: Prabandh kosha Author(s): Rajshekharsuri, Jinvijay Publisher: Singhi Jain GyanpithPage 30
________________ जीवदेवसूरिप्रबन्धः। स्तवं पठति, तस्य पन्नगभयं नास्ति । पन्नगाः सर्वे वैरोव्यया गुरोः पार्श्वमानीताः । उपदेशं श्राविताः। उपशान्तचित्ताः संवृत्ताः । नागदत्तनामा वैरोच्यापुत्रः सौभाग्यरङ्गभूरभूत् । पद्मदत्तेन प्रियासहितेन व्रतं गृहीतम् । तपस्तत्वा स्वर्ग गतः। पद्मयशा अपि तस्य देवत्वं प्राप्तस्य इच्छासिद्धियुजो देवी सञ्जाता । वैरोट्या च फणीन्द्राणां ध्यानान्मृत्वा धरणेन्द्रपत्नीत्वेनोत्पन्ना। तत्रापि 'वैरोव्या' इति नामास्याः। ॥ इति आर्यनन्दिलप्रबन्धः ॥२॥ ३. अथ श्रीजीवदेवसूरिप्रबन्धः। ६१२) गूर्जरधरायां वायुदेवतास्थापितं वायट नाम महास्थानम् । तत्र धर्मदेवनामा श्रेष्ठी धनवान् । तस्य शीलवती नाम गेहिनी गेहश्रीरिव देहिनी । तयोः सुतौ महीधर-महीपालौ । महीपाला क्रिडाप्रियो न कलाऽभ्यासं करोति । ततः पित्रा हक्कितो रुष्टो देशान्तरमसरत् । धर्मदेवश्रेष्ठी 10 परलोकं प्राप्तः । महीधरोऽपि श्रीजिनदत्तसूरीणां वायटंगच्छीयानां पादमूले प्रवव्राज । स राशिल्लसूरि म सूरीन्द्रो बभूव । महीपालोऽपि पूर्वस्यां दिशि राजगृहे पुरे दिगम्बराचार्यदीक्षां प्राप्याचार्यपदमवाप । 'सुवर्णकीर्तिः' इति नाम पप्रथे। श्रुतकीर्तिना गुरुणा तस्मै द्वे विये प्रदत्ते-चक्रेश्वरीविद्या परकायप्रवेशविद्या च । धर्मदेवे दिवंगते शीलवती दुःखिन्यासीत् । यतः१०. यथा नदी विनाऽम्भोदाद्यामिनी शशिनं विना । अम्भोजिनी विना भानु भा कुलवधूस्तथा ॥१॥ 15 राजगृहागतपरिचितमनुष्यमुखेन वपुत्रं स्वर्णकीति तत्रस्थं ज्ञात्वा तमिलनाय गता। मिलितः सुवर्णकीर्तिस्तस्याः। उन्मीलितो मातापुत्रलेहः । एकदा तया सुवर्णकीर्तिर्भाषितःतव पिता दिवमगमत् । त्वमन्त्र सूरिः । महीधरस्तु राशिल्लसूरि म श्वेताम्बरसूरिपदे वर्तते । वायटप्रदेशे विहरति । यवां द्वावेकमतीभूय एकं धर्ममाचरतम् । वायटमानीतस्तया सः। द्वौ बान्धवावेकत्र मिलितौ । सुवर्णकीर्तिर्भाषितो मात्रा-वत्स! त्वं श्वेताम्बर एधि । सुवर्णकीर्ति-20 वदति-राशिल्लसूरिदिगम्बराचार्यों भवतु मदनुसरणात् । एवं वर्तमाने मात्रा द्वे रसवत्यौ कारिते । एका विशिष्टा । द्वितीया मध्यमा कुटुम्बार्था । दिग्वासाः पूर्वमाकारितः। स विशिष्टां रसवती भुके खैरम् , कुरसवतीं पश्यत्यपि न । राशिल्लसूरिशिष्यो द्वावागतौ । ताभ्यां निर्जरार्थिभ्यां कुरसवती विजहे । मात्रा भोजनानु दिगम्बरः प्रोक्तः-वत्स! एते श्वेताम्बरा: 25 शुद्धाः, त्वमाधाकर्मचिन्तां न करोषि । एते तु वदन्ति ११. भुलइ आहाकम्मं सम्मं न य जो पडिक्कमई लुद्धो । सव्वजिणाणाविमुहस्स तस्स आराहणा नत्थि ॥ २॥ . तथैव च पालयन्ति । तस्मादेतेषां मिल, मोक्षमिच्छसि चेत् । सुवर्णकीर्तिर्मातृवचसा प्रबुद्धः श्वेताम्बरदीक्षामाददे । 'जीवदेवसूरिः' इति नाम तस्य दशसु दिक्षु विस्तृतम् । यतिपञ्चशती सहचरो विहरन् भव्यानां मिथ्यात्वादिरोगान् सुदेशनापीयूषप्रवाहेण निर्दलयति श्रीसूरिः। 30 ६१३) एकदा देशनायां योगी कश्चिदागतः । [सत्रैलोक्यजयिनी विद्यांसाधयितुं द्वात्रिंश 1 ABD नास्ति। 2A वायर्ड। 3A वायड। 4 A शशिना। 5 ABD नास्त्येतत्पदम् । 6A मदन्वशरणात् । 7ACD अपरा। 8 P .कम्मइ। 9 B एषां। 10 AD दत्ते। 11 P श्रीसूरेः। 12 A.B दायातः। एप कोटकामतर्गतः पाठः P विना नास्त्यन्यत्र । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176