________________
जीवदेवसूरिप्रबन्धः। स्तवं पठति, तस्य पन्नगभयं नास्ति । पन्नगाः सर्वे वैरोव्यया गुरोः पार्श्वमानीताः । उपदेशं श्राविताः। उपशान्तचित्ताः संवृत्ताः । नागदत्तनामा वैरोच्यापुत्रः सौभाग्यरङ्गभूरभूत् । पद्मदत्तेन प्रियासहितेन व्रतं गृहीतम् । तपस्तत्वा स्वर्ग गतः। पद्मयशा अपि तस्य देवत्वं प्राप्तस्य इच्छासिद्धियुजो देवी सञ्जाता । वैरोट्या च फणीन्द्राणां ध्यानान्मृत्वा धरणेन्द्रपत्नीत्वेनोत्पन्ना। तत्रापि 'वैरोव्या' इति नामास्याः।
॥ इति आर्यनन्दिलप्रबन्धः ॥२॥
३. अथ श्रीजीवदेवसूरिप्रबन्धः। ६१२) गूर्जरधरायां वायुदेवतास्थापितं वायट नाम महास्थानम् । तत्र धर्मदेवनामा श्रेष्ठी धनवान् । तस्य शीलवती नाम गेहिनी गेहश्रीरिव देहिनी । तयोः सुतौ महीधर-महीपालौ । महीपाला क्रिडाप्रियो न कलाऽभ्यासं करोति । ततः पित्रा हक्कितो रुष्टो देशान्तरमसरत् । धर्मदेवश्रेष्ठी 10 परलोकं प्राप्तः । महीधरोऽपि श्रीजिनदत्तसूरीणां वायटंगच्छीयानां पादमूले प्रवव्राज । स राशिल्लसूरि म सूरीन्द्रो बभूव । महीपालोऽपि पूर्वस्यां दिशि राजगृहे पुरे दिगम्बराचार्यदीक्षां प्राप्याचार्यपदमवाप । 'सुवर्णकीर्तिः' इति नाम पप्रथे। श्रुतकीर्तिना गुरुणा तस्मै द्वे विये प्रदत्ते-चक्रेश्वरीविद्या परकायप्रवेशविद्या च । धर्मदेवे दिवंगते शीलवती दुःखिन्यासीत् । यतः१०. यथा नदी विनाऽम्भोदाद्यामिनी शशिनं विना । अम्भोजिनी विना भानु भा कुलवधूस्तथा ॥१॥ 15
राजगृहागतपरिचितमनुष्यमुखेन वपुत्रं स्वर्णकीति तत्रस्थं ज्ञात्वा तमिलनाय गता। मिलितः सुवर्णकीर्तिस्तस्याः। उन्मीलितो मातापुत्रलेहः । एकदा तया सुवर्णकीर्तिर्भाषितःतव पिता दिवमगमत् । त्वमन्त्र सूरिः । महीधरस्तु राशिल्लसूरि म श्वेताम्बरसूरिपदे वर्तते । वायटप्रदेशे विहरति । यवां द्वावेकमतीभूय एकं धर्ममाचरतम् । वायटमानीतस्तया सः। द्वौ बान्धवावेकत्र मिलितौ । सुवर्णकीर्तिर्भाषितो मात्रा-वत्स! त्वं श्वेताम्बर एधि । सुवर्णकीर्ति-20 वदति-राशिल्लसूरिदिगम्बराचार्यों भवतु मदनुसरणात् । एवं वर्तमाने मात्रा द्वे रसवत्यौ कारिते । एका विशिष्टा । द्वितीया मध्यमा कुटुम्बार्था । दिग्वासाः पूर्वमाकारितः। स विशिष्टां रसवती भुके खैरम् , कुरसवतीं पश्यत्यपि न । राशिल्लसूरिशिष्यो द्वावागतौ । ताभ्यां निर्जरार्थिभ्यां कुरसवती विजहे । मात्रा भोजनानु दिगम्बरः प्रोक्तः-वत्स! एते श्वेताम्बरा: 25 शुद्धाः, त्वमाधाकर्मचिन्तां न करोषि । एते तु वदन्ति
११. भुलइ आहाकम्मं सम्मं न य जो पडिक्कमई लुद्धो । सव्वजिणाणाविमुहस्स तस्स आराहणा नत्थि ॥ २॥ . तथैव च पालयन्ति । तस्मादेतेषां मिल, मोक्षमिच्छसि चेत् । सुवर्णकीर्तिर्मातृवचसा प्रबुद्धः श्वेताम्बरदीक्षामाददे । 'जीवदेवसूरिः' इति नाम तस्य दशसु दिक्षु विस्तृतम् । यतिपञ्चशती सहचरो विहरन् भव्यानां मिथ्यात्वादिरोगान् सुदेशनापीयूषप्रवाहेण निर्दलयति श्रीसूरिः। 30 ६१३) एकदा देशनायां योगी कश्चिदागतः । [सत्रैलोक्यजयिनी विद्यांसाधयितुं द्वात्रिंश
1 ABD नास्ति। 2A वायर्ड। 3A वायड। 4 A शशिना। 5 ABD नास्त्येतत्पदम् । 6A मदन्वशरणात् । 7ACD अपरा। 8 P .कम्मइ। 9 B एषां। 10 AD दत्ते। 11 P श्रीसूरेः। 12 A.B दायातः। एप कोटकामतर्गतः पाठः P विना नास्त्यन्यत्र ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org