________________
प्रबन्धकोशे इत्याशिषं ददौ । इतश्चालिञ्जरपत्न्या तर्वन्तरितस्थितया तस्यास्तदाशीर्वचनं श्रुतम् । स्वस्थानमेत्य खभत्रै निवेदितं च । वैरोट्या स्वगृहमागता । ततो रात्रौ वैरोट्याप्रातिवेदिमक्याः स्त्रियाः खमे नागपन्या कथितम्-भद्रे! अहं अलिञ्जरनागपत्नी । मदीया तनया वैरोव्या। तस्याः पायसदोहदोऽस्ति, स त्वया पूरणीयः । तथा तस्याने कथनीयम्-तव पितुर्ग्रहं नास्ति, परमहं 5 पितृसमानोपकारं करिष्यामि, श्वश्रूपराभवाग्नितापमुपशमयिष्यामि । तया प्रातिवेश्मिक्या प्रातर्वैरोट्या क्षीरान्नं भोजिता । सम्पूर्णदोहदा सुतमजीजनत् । नागकान्तयाऽपि सुतशतमसूयत। वैरोट्यापुत्रनामकरणदिने पन्नगेन उत्सवः कारितः । यत्र पितृगृहं पूर्व स्थितं तत्र धवलगृहं कारयित्वा पातालवासिभिर्नागैरलङ्कृतम् । गजा-ऽश्व-वरवाहन-पदाति-वर्गसहिता नागलोकाः समाययुः। तस्या गृहं लक्षया संकीर्ण चक्रुः । ['अलिञ्जरपत्नी पतिना (पत्या?) 10 पुत्रैश्च युता दिव्यवस्त्र-पट्टकूल-वर्ण-रत्न-खचितसर्वाङ्गाभरणादिकं सर्व मनोज्ञं वस्तुसमूहं वैरो व्यायाः प्रतिपन्नसुतात्वेन पूरयति । वैरोट्या अलिश्नरपत्नीगृहे नित्यं यात्यायाति च । अलिअरपल्याऽतीव मान्यते, पूज्यते वैरोव्या।] श्वश्रूस्तथारूपं पितृगृहमेलापकमिव दृष्ट्वा ['तां वैरोट्यां] वधू सत्कर्तुमारेभे-लोकः पूजितपूजकः' । वैरोव्याया रक्षार्थ नागवध्वा [खिकीयलघवः शतं पुत्राः] सर्पका समर्पिताः। तया सो घटे क्षिप्ताः। तत्र च कयापि कर्मकर्या अग्नितप्तस्थाली15 मुखे सर्पघटो दत्तः । ['तत्क्षणमेव] वैरोट्ययोत्तारितः। पानीयेनाभिषिक्तास्ते ततः स्वस्थाः
सम्पन्नाः । एकस्तु शिशुर्विपुच्छो जातः । यदा स' स्खलति क्षौति, तदा वैरोट्या ब्रूते-बण्डो जीवतु । वैरोट्या जातकस्य लेहेन मोहितास्ते सर्वे बान्धवरूपाः सर्पाः क्षौमरत्नखर्णादि दत्त्वा नामकरणं च कारापयित्वा यथास्थानं ययुः । वैरोट्या नागप्रभावात् गौरवपात्रं जाता।
अन्यदाऽलिञ्चरः स्वपुत्रं पुच्छरहितं दृष्ट्वा चुक्रोध । [मिम पुत्रः केन दुरात्मना विपुच्छः 20 कृतः। ततो वैरोव्यया कृतो विपुच्छो मे पुत्रः-इत्यवधिना ज्ञात्वा वैरोट्याया उपरि पूर्व सुप्रसन्नोऽपि चुकोप । ] कुपितः सन् विरूपं कर्तु अवधिना" ज्ञात्वा वैरोट्यागृहमगमत् । अलिञ्जरो गूढतनुहमध्ये स्थितः। यदा वैरोट्या ध्वान्तभरे सति गृहापवरकमध्ये प्रविष्टा, तदा तयोक्तम्-चण्डो जीवतु चिरम् । तच्छ्रुत्वा नागराजः सन्तुष्टस्तस्यै नुपूरे ददौ। अद्यप्रभृति वत्से! त्वया पाताले आगन्तव्यम् , नागाश्च त्वद्गृहमेष्यन्ति-इति प्रसादः कृतः। सा वैरोव्या पाताले 25 गमनागमनं करोति, नागवरात् । ["नागदत्तः' इति नाम दत्तं पुत्रस्य । तदा पद्मदत्तो वैरोव्याश्वशुरः श्रीआर्यनन्दिलक्षपकैरेवमुक्तः-त्वया खवध्वाऽग्रे कथनीयम् , नागाश्रयं गतया त्वया नागा वक्तव्या, भवद्भिर्लोकस्यानुग्रहः कर्तव्यः । कोऽपि न दंष्टव्यः । तत्सूरिवचनं श्वशुरेण तस्यै, तया च नागेभ्यः कथितम् । तत्र गता च वैरोट्या एवमुच्चैर्जगौ-सालिअरपत्नी जीयात् । सोऽलिञ्चरोजीयात । येनाहमपितगृहाऽपि" सपितगृहा कता। अनाथाऽपि सनाथा सन्चाता। भो 80 भो नागकुमाराः! आर्यनन्दिलेन महात्मना एवमादिष्टम्-लोको न पीडयितव्यः। [लोकस्यानुग्रहः कार्यः] वैरोट्या पुनरपि खगृहं गता । गुरुणा 'वैरोव्यास्तवो' नवो विरचितः। यो वैरोव्या___1 AC 'च' नास्ति । 2 P पितृकुलं । 3 AB नामकरणनामदिने। 4 ABD वासिभिरधिकृतं नागैः। 5 P विना 'लक्ष्म्या' नास्ति । + P विनाऽन्यत्र नास्ति कोष्टकान्तर्गत एष पाठः। 6P तथाविधं। 7 CD सर्पाः। 8 AB सुस्थाः। 9AC यदासौ। 10 P शितौ। 11 P च कारयित्वा । 12-13 P नास्ति। 14 B गृहमध्यं । 15 P विनाऽन्यत्र नास्ति । 16 AB करणीयः। 17 AB 'अहमपि सपितृगृहा' इत्येव । 18 ABD जाता। P विना नास्त्यन्यत्रैष पाठः ।
Jain Education Intemational
For Private & Personal Use Only
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org