________________
आर्यनन्दिलप्रबन्धः।
२. अथार्यनन्दिप्रबन्धः । ६९) पद्मिनीखण्डपत्तने पद्मप्रभैनामा राजा । तस्य भार्या पद्मावती । तस्मिन् पुरे पद्मदत्तनामा श्रेष्ठी वसति । तस्य कान्ता पद्मयशा नाम । तयोः सुतः पद्मनामाऽभूत् । वरदत्तेन सार्थवाहेन स्वकीया वैरोट्या नाम पुत्री तस्य दत्ता । स तां व्यवाहयत् ।।
अन्यदा वरदत्तो वैरोट्याजनकः सपरिवारो देशान्तरं गच्छन् वनदवेन दग्धः । वैरोच्या 5 'श्वश्रूः शुश्रूष्यमाणाऽपि निष्पितृकां भणित्वाऽपमानयति । यतः
६. रूपं रहो धनं तेजः सौभाग्यं प्रभविष्णुता । प्रभावात्पैतृकादेव नारीणां जायते ध्रुवम् ॥ १॥
सा श्वश्रूवचनैः कुकूलानलकर्कशैः पीडिताऽपि दैवमुपालभते, न श्वधू निन्दति । चिन्तयति च
७. सव्वो पुव्वकयाणं कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य निमित्तमित्तं परो होइ ॥ २॥ 10 १०) अन्यदा वैरोट्या भोगीन्द्रखनसूचितं गर्भ बभार । पायसभोजनदोहद उत्पन्नः। तदाऽऽचार्यनन्दिलनामा सूरिरुद्याने समवासार्षीत् , सार्द्धनवपूर्वधर आर्यरक्षितस्वामिवत् । श्वभूरिति वक्ति-अस्या वध्वाः सुता भविष्यति, न तु सुतः। इति कर्णक्रकचकर्कशतद्वचःपीडिता सती सा सती वधूः सूरिवन्दनार्थ गता । सूरयो वन्दिताः। खस्य श्वश्वा सह विरोधोऽकथि । सूरिभिरुक्तम्-पूर्वकर्मदोषोऽयम् , क्रोधो न वर्द्धनीयः भवहेतुत्वात्। वत्से! 15
८. इह लोए चिय कोवो सरीरसंतावकलहवेराई । कुणइ पुणो परलोए नरगाइसुदारुणं दुक्खं ॥३॥ पुत्रं च लप्स्यसे । पायसदोहदस्ते जातोऽस्ति । सोऽपि यथातथा पूरयिष्यते । इति सा सूरिवचसाऽऽनन्दितचित्ता निजगृहमागच्छत् अचिन्तयच्च९. अस्माभिश्चतुरम्बुराशिरसनाविच्छेदिनी मेदिनीं भ्राम्यद्भिः स न कोऽपि निस्तुषगुणो दृष्टो विशिष्टो जनः । यस्याज्ये चिरसञ्चितानि हृदये दुःखानि सौख्यानि वा व्याख्याय क्षणमेकमर्द्धमथवा निःश्वस्य विश्रम्यते ॥ ४ ॥20
एते तु गुरवस्तादृशाः सन्ति । ६११) पद्मयशा अपि चैत्रपूर्णिमायामुपोषिता पुण्डरीकतपसि क्रियमाणे उद्यापनमारेभे । तहिने पायसपूर्ण प्रतिग्रहो यतिभ्यो दीयते, साधर्मिकवात्सल्यं च क्रियते । तया सर्व कृतम् । वध्वाः पुनर्वैरभरीत्कुलत्यादि कदशनं दत्तम्। वधूः पुनः स्थाल्यामुद्वृत्तं पायसं प्रच्छन्नं गृहीत्वा वस्त्रे बद्धा" घटे क्षित्वा जलाशयं जलाय गता। वृक्षमूले" कुम्भं मुक्त्वा यदा हस्तपादप्रक्षा-25 लनार्थं गता, तावताऽलिझरनामा नागः पातालेऽस्ति, तस्य कान्तायाः क्षीरान्नदोहदः समजनि । पृथिव्यामायाता क्षीरान्नं गवेषयति । तत्र तरोर्मूले घटमध्ये क्षीरानं दृष्टम् , भुक्तं च । येन मार्गेणागता, तेनैव गता नागपत्नी । यदा वैरोट्या पादशौचं कृत्वा समायाति, तावत् क्षीरानं न पश्यति । तथापि न चुकोप, न विरूपं बभाषे। किन्त्वेवं बभाण
येनेदं भक्षितं भक्ष्यं पूर्यतां तन्मनोरथः ।
1 BC नन्दिप्र०। 2 AC प्रभो। 3CDP नामा। 4 A दावेन । 5CD स्वः। 6 AD अ। 7AB करें। 8P ततः स्वस्य । 9 BC पूरयिष्ये। 10 ABD 'तु' नास्ति। 11 P पूर्णः। 12 P .भावात् । 13 P . उद्धृतं । 14 P कृत्वा। 15 D नास्ति। 16 P विनाऽन्यत्र नास्ति। 17 PCD पायसः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org