________________
प्रबन्धकोशे भद्रयाहुना 'निजगदे-तस्या अर्गलाया लोहमय्या अग्रभागे रेखामयी बिडाल्यस्ति, नासत्यं ब्रूमः । आनीयांवलोकिताऽर्गला, तथैवास्ते । अथोवाच वराहः-तथा पुत्रशोकेन न खियेऽहम् , यथा राजविदिताख्यातपुत्रशतायुष्क'वैफल्येन खिद्ये । धिगमीषां निजपुस्तकानां प्रत्ययेनामाभिर्ज्ञानं प्राकाशि' । एतान्यसत्यानि तस्मात् मृज्मः-इत्युक्त्वा कुण्डानि जलैरपूपुरत् । 5 पुस्तकानि माष्टुं स यावदारभते, तावद्भद्रबाहुना बाहौ धृत्वा वारितः-आत्मप्रमादेन ज्ञानं विनाश्य कथं पुस्तकेभ्यः कुप्यसि? । एते पुस्तकाः सर्वज्ञोक्तमेव भाषन्ते, ज्ञाता तु दुर्लभः। अमुकस्मिन्' अमुकस्मिन् स्थाने त्वं विपर्यस्तमतिर्जातः, आत्मानमेव निन्द।
___४. प्रभुप्रसादस्तारुण्यं विभवो रूपमन्वयः । शौर्य पाण्डित्यमित्येतदमद्यं मदकारणम् ॥ ४ ॥ मत्तस्य च कुतो विचारसूक्ष्मेक्षिका। तस्मान्मा भाजीः पुस्तकान् । इति निषिद्धः, विलक्षी10 भूय स्थितो वराहः । तत्रान्तरे पूर्व तत्कृतार्हन्मतगर्दापीडितमनसा केनापि श्रावकेण पठितम्
५. युष्मादृशाः कृपणकाः कृमयोऽपि यस्यां भान्ति स्म सन्तमसमय्यगमन्निशाऽसौ ।
सूर्यांशुदीप्तदशदिगदिवसोऽधुनाऽयं भात्यत्र नेन्दुरपि कीटमणे ! किमु त्वम् ॥ ५॥ इति वदन्नेव नष्टः सः । बाढ़ पीडितो वराहः। अत्रान्तरे खयमागतो राजा। राज्ञोक्तम्
मा स्म शोचीः, भवस्थितिरियं विद्वन् ! । तदा जिनभक्तेन राजमन्त्रिणैकेन भणितम्-ते आचार्या 15 नवा आयाताः सन्ति, यैर्डिम्भस्य सप्ताहमात्रमायुरभाणि । ते सङ्गतवाचो महात्मानः ।
केनापि दर्शिता भद्रवाहवः-एते" ते । तदा द्विजस्तथा दूनो यथा स एव विवेद । गतो राजापि, भद्रबाहुरपि, लोकोऽपि खस्थानम् । राजा श्रावकधर्म प्रतिपेदे।
८) वराहोऽपमानाद्भागवतीं दीक्षां गृहीत्वाऽज्ञानकष्टानि महान्ति कृत्वा जैनधर्मद्वेषी दुष्टो व्यन्तरोऽभूत् । ऋषिषु द्वेषवानपि न प्रबभूव । 'तपो हि वज्रपञ्जरमायं महामुनीनां परप्रेरित20 प्रत्यूहपृषत्कदुर्भेदतरम्' । अतः श्रावकानुपद्रोतुमारेभे । गृहे गृहे रोगानुत्पादयामास । श्रावकैः पीडातर्भद्रबाहुरादरेण विज्ञप्तः-भगवन् ! भवति सत्यपि यद्वयं रुग्भिः पीड्यामहे, तत्सत्यमिदम्-'कुञ्जरस्कन्धाधिरूढोऽपि भषणैर्भक्ष्यते” इति । "गुरुभिरभाणि-मा भैष्ट, सोऽयं वराहमिहिरः" पूर्ववैराद्भवद्भ्यो दुर्घक्षति" । रक्षामि पाणेरपि" वज्रपाणेः । ततः पूर्वेभ्यः उद्धृत्य "उवसग्गहरं पासम् इत्यादि स्तवनं गाथापञ्चकमयं सन्ददृभे गुरुभिः. पाठितं" च तलोके । 25 सद्यः शान्तिं गताः क्लेशाः। अद्यापि कष्टापहारार्थिभिस्तत्पठ्यमानमास्ते । अचिन्त्यचिन्तामणिप्रतिमं च तत् । श्रीभद्रबाहूनां विद्योपजीवी चतुर्दशपूर्वी श्रीस्थूलभद्रः परमतान्यचुचूर्णदिति ।
॥ श्रीभद्रबाहु-वराहप्रबन्धः॥१॥
1A भिजगदे। 2 CP आनीता। 3CP तायुस्वः। 4 B प्रकाशितं । 5 A तस्मान्मृज्मः; B मृत्युः । 6AB नास्ति । 7 P विर्नास्ति । 8 P 'च' नास्ति। 9 BCP याताः। 10 B सप्ताहमायु० । 11 B एतेन । 12 A भक्षितः। 13 A गुरुर। 14 A वराहखेचरः, BC वराहवरः। 15 P दुधुक्षति। 16 C प्राणैरपि। 17 CP पठितं । 18 P .लोकैः। 19 A कष्टापहाधिः। 20 A न्यनुचू० ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org