________________
भद्रबाहु - वराहप्रबन्धः ।
३
साक्षाद्भास्कर एवाभूत् । तेनाहं भाषितः - वत्स ! तव दृढनिश्चयतया लग्नग्रहभक्त्या च बा" तुष्टोऽस्मि । रविरहम्, वरं वृणीष्व । अथ मयोक्तम्- खामिन् ! यदि प्रसन्नोऽसि, तदा निजविमाने चिरं मामवस्थाप्य', सकलमपि ज्योतिश्चक्रं मे 'दर्शय । अथाहं मिहिरेण' चिरं स्वविमानस्थः खे 'भ्रामितोऽस्मि । सूर्यसङ्क्रमितामृतसन्तर्पितेन च मया क्षुत्तृषादिदुःखं न किञ्चिदनुभूतम् । कृतकृत्यश्च सूर्यमापृच्छ्य ज्ञानेन च जगदुपकर्तुं महीलोकं भ्रमन्नस्मि । अहं 'वराहमिहिरः' इति वाच्यः । इत्यादि खैरं प्रख्यापयामास । सम्भाव्यत्वात् " लोके पूजां परमामाप" । प्रतिष्ठानपुरे शत्रुजितं भूपालं कलाकलापेन रञ्जयामास । तेन निजपुरोहितः कृतः । यतः
३. गौरवाय गुणा एव न तु ज्ञातेयडम्बरः । वानेयं गृह्यते पुष्पमङ्गजस्त्यज्यते मलः ॥ ३॥
(६) अथ श्वेताम्बरान्निन्दति - किममी वराकाः काका विदन्ति" ? | मक्षिकावद्भिणिहणायमानाः कारास्था इव कुचेलाः कालं क्षपयन्ति । क्षपयन्तु । तच्छृण्वतां श्रावकाणां शिरःशूलमुत्पेदे । धिगि- 10 दामस्माकं जीवितम् । येन गुर्ववज्ञां सहामहे । किं कुर्मः ? । अयं कलावानिति नरपतिना पूज्यते । राजभिः पूज्यते यश्च सर्वैरपि स पूज्यते ।
भवतु । तथापि भद्रबाहुमाह्वयामस्तावत् । इति संमय तथैव चक्रुः । आगताः श्रीभद्रबाहवः । कारितः श्रावकैः सस्पर्द्धि" प्रवेशमहः । स्थापिता गुरवः सुस्थाने । नित्यं व्याख्यारसानास्खादयामासुः सभ्याः । भद्रबाह्रागमे स" वराहो बाढं मम्लौ" । तथापि तेभ्यो नापकर्तुमशकदसौ । 15
(७) अत्रान्तरे वराहमिहिरगृहे पुत्रो जातः । तज्जन्मतुष्टः प्रभूतं धनं व्ययति" स्म । लोकाच पूजामाप्रोति स्म । 'पुत्रस्य वर्षशतमायुः' इति तेन नरेन्द्रादिलो काग्रे सभासमक्षं प्रख्यापितम् । गृहे उत्सवादयस्तस्य । एकदा सदसि वराहः प्राह स्म" - अहो ! सहोदरोऽपि भद्रबाहुर्मे पुत्रजन्मोत्सवे नागात्-इति बाह्या एते । एतदाकर्ण्य श्रावकै भद्रबाहुर्विज्ञप्तः एवं" एवं असौ वदन्नास्ते । गम्यतां भवद्भिरेकदा तद्गृहम् । मा वृधन्मुधा क्रोधः । श्रीभद्रबाहुनाऽऽदिष्टम् - " द्वौ क्लेशौ 20 कथं कारयध्वे ? । अयं बालः सप्तमे दिने निशीथे बिडालिकया घानिष्यते । तस्मिन्मृते शोकविसर्जनायापि " गन्तव्यमेव तावत् । ततः " श्रावकैरूचे - तेन विप्रेणोपराजमर्भस्य "समाशतमायुरुक्तम् । भवद्भिः "पुनरित्थंमादिश्यते । किमेतत् ? । श्रीभद्रबाहुखामिना भणितम् - ज्ञानस्य प्रत्ययः सारम् स चासन्न एवास्ते । स्थितास्तूष्णीं श्रावकाः । आगतं सप्तमं दिनम् । तत्रैव द्विप्रहरमात्र्यां" रात्र्यां बालं स्तन्यं पाययितुं धात्र्युपविष्टा । द्वारशाखार्थैन्यस्ताsर्गला 25 बालमस्तके पतिता जनान्तरसश्चारात् । प्रमीतो बालः । रुद्यते वराहगृहे । मिलितो लोकः । भद्रबाहुनाऽपि श्रावका उक्ताः - 'शोकापनोदो धर्माचार्यः' इति तत्रास्माभिरधुना गन्तव्यम् । श्रावकशतवृता" गतास्तत्राचार्याः । वराहः शोकशङ्कुङ्कुलोऽप्यभ्युत्थानाद्युचितमकरोत् । अभ्यवधाच्च - आचार्याः ! भवतां ज्ञानं मिलितम् । केवलं बिडालीतो मृत्युर्न, किन्त्वर्गलात: " । 0 मपि मे । 5 A प्रदर्शय । 6 A विहाय 'मिहरेण' ।
I
1 AB दृढतया । 2 P 'बाई' नास्ति । 3 P स्थापय । 4 A 7 P विनाsन्यत्र 'भ्रमितो ० ' । 8 AB क्षुत्तर्षादि ० । 9 B'च' नास्ति । 10 B सम्भाव्यत । 11 C परमाप; P परमामाप्य । 12 AC वदन्ति । 13 AB धिगस्माकं । 14 P सस्पर्द्ध ० । 15 P नास्ति 'स' । 16 A मम्ले । 17 AB व्यययति । 18 A प्राहस्य । 19 B एवमसौ । 20 CD विसर्जनायामपि । 21 P 'तत' नास्ति । 22 A समाः । 23 P पुनरिदं । 24 P मात्रायां रात्रौ । 25 AB • खाये। 26 P प्रमृतो । 27 PC ० शतावृता । 28 CP 'शंकु' नास्ति । 29 A वर्गलीतः ।
Jain Education International.
For Private & Personal Use Only
www.jainelibrary.org