________________
प्रबन्धकोशे बन्धास्त्रयः, एवं चतुर्विशतिः। १ भद्रबाहु-वराहयोः, २ आर्यनन्दिलक्षपकस्य', ३ जीवदेवसूरीणाम् , ४ आर्यखपटाचार्याणाम् , ५ पादलिप्तप्रभूणाम् , ६ वृद्धवादि-सिद्धसेनयोः, ७ मल्लवादिनः, ८ हरिभद्रसूरीणाम् , ९ बप्पटिसूरीणाम् , १० हेमसूरीणाम् , ११ श्रीहर्षकवेः, १२ हरिहरकवेः, १३ अमरचन्द्रकवेः, १४ दिगम्बरमदनकीर्तिकवेः, १५ सातवाहन-१६वकंचूल-१७ विक्रमादित्य5१८ नागार्जुन-१९ उदयन-२० लक्षणसेन-२१ मदनवर्मणाम् , २२ रन-२३आभड-२४ वस्तुपालानां चेति । एषु प्रथमं भद्रबाहु-वराहप्रवन्धः।
१. भद्रबाहु-वराहप्रबन्धः । ६३) दक्षिणापथे प्रतिष्ठानपुरे भद्रबाहु-वराहाह्रौ द्वौ द्विजौ कुमारौ निर्धनौ निराश्रयों प्राज्ञी वसतः। तत्र यशोभद्रो नाम चतुर्दशपूर्वी समागतः। भद्रबाहु-वराही तद्देशनां शुश्रुवतुः। यथा10 १. भोगा भङ्गुरवृत्तयो बहुविधास्तैरेव चायं भवस्तत्त्वस्येह कृते परिभ्रमत रे ! लोकाः! सृतं चेष्टितैः।
___ आशापाशशतोपशान्तिविशदं चेतः समाधीयतां काप्यात्यन्तिकसौख्यधामनि यदि श्रद्धेयमस्मद्वचः॥१॥
एतच्छ्रवणमात्रत एव प्रतिबुद्धौ गृहं गत्वा तौ मन्त्रयेते स्म-जन्म कथं वृथा नीयते। तावद्भोगसामग्री नास्ति, तर्हि योगः साध्यते।
२. अग्रे गीतं सरसकवयः पार्श्वतो दाक्षिणात्याः पृष्ठे लीलावलयरणितं चामरग्राहिणीनाम् । 15 यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं नो चेञ्चेतः! प्रविश सहसा निर्विकल्पे समाधौ ॥ २॥
-इति विमृश्य द्वावपि बान्धवौ प्रवव्रजतुः। ४) भद्रबाहुश्चतुर्दशपूर्वी षट्त्रिंशद्गुणसम्पूर्णः सूरिरासीत् । दर्शवकालिक-उत्तराध्ययनदशाश्रुतस्कन्ध-कल्प-व्यवहार-आवश्यक-सूर्यप्रज्ञप्ति-सूत्रकृत-आचाराङ्ग-ऋषिभाषिताख्यग्र
न्थदशकप्रतिबद्धदशनियुक्तिकारतया पप्रथे, "भाद्रबाहवीं नाम संहितां च व्यरचयत् । तदा 20 आर्यसम्भूति विजयोऽपि चतुर्दशपूर्वी वर्तते । श्रीयशोभद्रसूरीणां वर्गगमनं जातम् । भद्रबाहु
सम्भूतिविजयौ लेहपरौ परस्परं भव्याम्भोरुहभास्करौ विहरतो" भरते पृथक् पृथक् । वराहोऽपि विद्वानासीत् । केवलमखर्वगर्वपर्वतारूढः सूरिपदं याचते भद्रबाहादसहोदरपार्धात् । भद्रबाहुना भाषितः सः-वत्स! विद्वानसि, क्रियावानसि, परं सगर्वोऽसि । सगर्वस्य सूरिपदं न दनः। एतत्सत्यमपि तस्मै न सखदे। यतो 'गुरुवचनममलमपि सलिलमिव" महदुपजनयति 25 श्रवणस्थितं शूलमभव्यस्य' । ततो व्रतं तत्याज । मिथ्यात्वं गतः पुनर्द्विजवेषं जग्राह ।
६५) व्रतावस्थाऽधीतशास्त्रार्थज्ञतया वाराहसंहितादिनवीनशास्त्ररचनायां प्रजगल्भे"; लोकेषु च जगाद-अहं बाल्ये लग्नमभ्यस्यामि स्म। तद्विचार एव लीनस्तिष्ठामि स्म । एकदा प्रतिष्ठानाद्वहिः शिलायामेकस्यां लग्नं मण्डयामि स्म । सायममृष्ट एव तस्मिन् खस्थानमागत्य स्खपिमि स्म ।
सुप्तोऽहं तल्लग्नममृष्टं स्मरामि स्म । ततो माटुं तत्र यामि स्म । तत्र लग्नाधिष्ठिते शिलातले 30 पश्चानन उपविष्टोऽभूत् । तथापि तदुदरदेशे करं निक्षिप्य मया तल्लग्नं मृष्टम् । तावता" पश्चाननः
____ 1 Pक्षपणकस्य । 2 Bखपुटा। 3 B बप्पहट्टि; C बप्पभट्टः। 4 A वज्रः। 50 रखश्रावकः। 6P तेषु । 7AB 'वराह' नास्ति । 8C निराश्रियौ। 9C तत्र च। 10 C श्रितं । 11C गृहे। 12 CP भद्रः। 13 AB संभूतः। 14 BC विहरतौ। 15 BC नास्त्येतत्पदम्। 16 P प्रगल्भे। 17 A तावत् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
For Private & Personal Use Only