Book Title: Prabandh kosha Author(s): Rajshekharsuri, Jinvijay Publisher: Singhi Jain GyanpithPage 28
________________ आर्यनन्दिलप्रबन्धः। २. अथार्यनन्दिप्रबन्धः । ६९) पद्मिनीखण्डपत्तने पद्मप्रभैनामा राजा । तस्य भार्या पद्मावती । तस्मिन् पुरे पद्मदत्तनामा श्रेष्ठी वसति । तस्य कान्ता पद्मयशा नाम । तयोः सुतः पद्मनामाऽभूत् । वरदत्तेन सार्थवाहेन स्वकीया वैरोट्या नाम पुत्री तस्य दत्ता । स तां व्यवाहयत् ।। अन्यदा वरदत्तो वैरोट्याजनकः सपरिवारो देशान्तरं गच्छन् वनदवेन दग्धः । वैरोच्या 5 'श्वश्रूः शुश्रूष्यमाणाऽपि निष्पितृकां भणित्वाऽपमानयति । यतः ६. रूपं रहो धनं तेजः सौभाग्यं प्रभविष्णुता । प्रभावात्पैतृकादेव नारीणां जायते ध्रुवम् ॥ १॥ सा श्वश्रूवचनैः कुकूलानलकर्कशैः पीडिताऽपि दैवमुपालभते, न श्वधू निन्दति । चिन्तयति च ७. सव्वो पुव्वकयाणं कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य निमित्तमित्तं परो होइ ॥ २॥ 10 १०) अन्यदा वैरोट्या भोगीन्द्रखनसूचितं गर्भ बभार । पायसभोजनदोहद उत्पन्नः। तदाऽऽचार्यनन्दिलनामा सूरिरुद्याने समवासार्षीत् , सार्द्धनवपूर्वधर आर्यरक्षितस्वामिवत् । श्वभूरिति वक्ति-अस्या वध्वाः सुता भविष्यति, न तु सुतः। इति कर्णक्रकचकर्कशतद्वचःपीडिता सती सा सती वधूः सूरिवन्दनार्थ गता । सूरयो वन्दिताः। खस्य श्वश्वा सह विरोधोऽकथि । सूरिभिरुक्तम्-पूर्वकर्मदोषोऽयम् , क्रोधो न वर्द्धनीयः भवहेतुत्वात्। वत्से! 15 ८. इह लोए चिय कोवो सरीरसंतावकलहवेराई । कुणइ पुणो परलोए नरगाइसुदारुणं दुक्खं ॥३॥ पुत्रं च लप्स्यसे । पायसदोहदस्ते जातोऽस्ति । सोऽपि यथातथा पूरयिष्यते । इति सा सूरिवचसाऽऽनन्दितचित्ता निजगृहमागच्छत् अचिन्तयच्च९. अस्माभिश्चतुरम्बुराशिरसनाविच्छेदिनी मेदिनीं भ्राम्यद्भिः स न कोऽपि निस्तुषगुणो दृष्टो विशिष्टो जनः । यस्याज्ये चिरसञ्चितानि हृदये दुःखानि सौख्यानि वा व्याख्याय क्षणमेकमर्द्धमथवा निःश्वस्य विश्रम्यते ॥ ४ ॥20 एते तु गुरवस्तादृशाः सन्ति । ६११) पद्मयशा अपि चैत्रपूर्णिमायामुपोषिता पुण्डरीकतपसि क्रियमाणे उद्यापनमारेभे । तहिने पायसपूर्ण प्रतिग्रहो यतिभ्यो दीयते, साधर्मिकवात्सल्यं च क्रियते । तया सर्व कृतम् । वध्वाः पुनर्वैरभरीत्कुलत्यादि कदशनं दत्तम्। वधूः पुनः स्थाल्यामुद्वृत्तं पायसं प्रच्छन्नं गृहीत्वा वस्त्रे बद्धा" घटे क्षित्वा जलाशयं जलाय गता। वृक्षमूले" कुम्भं मुक्त्वा यदा हस्तपादप्रक्षा-25 लनार्थं गता, तावताऽलिझरनामा नागः पातालेऽस्ति, तस्य कान्तायाः क्षीरान्नदोहदः समजनि । पृथिव्यामायाता क्षीरान्नं गवेषयति । तत्र तरोर्मूले घटमध्ये क्षीरानं दृष्टम् , भुक्तं च । येन मार्गेणागता, तेनैव गता नागपत्नी । यदा वैरोट्या पादशौचं कृत्वा समायाति, तावत् क्षीरानं न पश्यति । तथापि न चुकोप, न विरूपं बभाषे। किन्त्वेवं बभाण येनेदं भक्षितं भक्ष्यं पूर्यतां तन्मनोरथः । 1 BC नन्दिप्र०। 2 AC प्रभो। 3CDP नामा। 4 A दावेन । 5CD स्वः। 6 AD अ। 7AB करें। 8P ततः स्वस्य । 9 BC पूरयिष्ये। 10 ABD 'तु' नास्ति। 11 P पूर्णः। 12 P .भावात् । 13 P . उद्धृतं । 14 P कृत्वा। 15 D नास्ति। 16 P विनाऽन्यत्र नास्ति। 17 PCD पायसः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176