Book Title: Prabandh kosha Author(s): Rajshekharsuri, Jinvijay Publisher: Singhi Jain GyanpithPage 40
________________ वृद्धवादि-सिद्धसेनयोः प्रबन्धः । आचार्यः सा न जगृहे, निर्लोभत्वात् । राज्ञाऽपि न जगृहे, कल्पितत्वात् । तत आचार्यानुज्ञया सङ्घपुरुषैर्जीर्णोद्धारे व्ययिता । राजवहिकायां त्वेवं लिखितम्. ३५. धर्मलाभ इति प्रोक्त दूरादुच्छ्रितपाणये । सूरये सिद्धसेनाय ददौ कोटिं धराधिपः ॥ ९॥ श्रीविक्रमाने अवसरे तेनैव भगवता भणितम्३६. पुन्ने वाससहस्से सयंमि वरिसाण नवनवइकलिए । होही कुमरनरिन्दो तुह विक्कमराय ! सारिच्छो ॥१०॥ 5 ६२५) अन्यदा सिद्धसेनश्चित्रकूटमटति स्म । तत्र चिरन्तनचैत्ये स्तम्भमेकं महान्तं दृष्ट्वा कश्चिदमाक्षीत्-कोऽयं स्तम्भो महान् ?, किंमयः ? । तेनोक्तम्-पूर्वाचार्यैरिह रहस्यविद्यापुस्तकानि न्यस्तानि सन्ति । स्तम्भस्तु तत्तदोषधद्रव्यमयः । जलादिभिरभेद्यो वज्रवत् । तद्वचनं श्रुत्वा सिद्धसेनस्तस्य स्तम्भस्य गन्धं गृहीत्वा प्रत्यौषधरसैस्तमाच्छोटयामास । तैः स प्रातरम्खुजवद्विचकास। मध्यात्पतिताः पुस्तकाः। तत्रैकं पुस्तकं छोटयित्वा वाचयन्नाद्यपत्र एव द्वे विये 10 लभते स्म । एका सर्षपविद्या, अपरा हेमविद्या । तत्र सर्षपविद्या सा-ययोत्पन्ने कार्य मात्रिको यावन्तः सर्षपान् जलाशये क्षिपति तावन्तोऽश्ववारा द्विचत्वारिंशदुपकरणसहिता निःसरन्ति । ततः परबलं भज्यते । सुभटाः कार्यसिद्धेरनन्तरमदृश्यीभवन्ति । हेमविया पुनरक्लेशेन शुद्धहेमकोटी: सद्यो निष्पादयति, येन तेन धातुना । तद्विद्याद्वयं सम्यग् जग्राह । यावदने वाचयति तावत्स्तम्भो मिलितः पुस्तकगर्भः। खे च वागुत्पन्ना-अयोग्योऽसि ईदृशानां रहस्यानाम् , मा 15 चापलं कृथाः, सद्यो मा म्रियस्व-इति । ततो भीतः स्थितः । यद्विद्याद्वयं लब्धं तल्लब्धम् । नाधिकं लभ्यते, अप्राप्तितः । चित्रकूटात्सिद्धसेनोऽथ पूर्वदेशे कूर्मारपूरं गतः। तत्र देवपालं राजानं प्रबोध्य नीलीरागजैनमकार्षीत् । तत्रास्थात्। नित्यमिष्टा गोष्ठी वर्तते। कियानपि कालो दा राज्ञा रह एत्य साधणा विज्ञप्तम-भगवन! पापा वयम: नेशमधरभवंदगोष्ठीयोग्याः, येन सङ्कटे पतिताः स्म । सूरीन्द्रः पप्रच्छ-किं सङ्कटं वः? । राजा प्राह-सीमाल-20 भूपालाः सम्भूय मद्राज्यं जिघृक्षव आयान्ति । सूरिराह-राजन् ! मा स्म विह्वलो भूः । तवैव राज्यश्रीर्वशे यस्याहं सखा । राजा हृष्टः । परचक्रमायातम् । विद्याद्वयशक्त्या राजेन्द्रः समों विहितः सूरिणा । भग्नं परबलम् । गृहीतं तत्सर्वखम् । वादितान्यातोद्यानि । ततो बाढं राजा सूरिभक्तः सम्पन्नः । सूरयः सगच्छा अपि क्रियाशैथिल्यमादृषत । यतः ३७. चाटुकारगिरां गुम्फैः कटाक्षैर्मगचक्षुषाम् । केलिकल्लोलितैः श्रीणां भिद्यते कस्य नो मनः ॥ ११॥ 25 ३८. सुअई गुरू निचिंतो' सीसावि सुअंति तस्स अणुकमसो । ओसाहिजइ मुक्खो हुड्डाहुई सुअंतेहिं ॥१२॥ श्रावकाः पौषधशालायां प्रवेशमेव न लभन्ते । . ३९. दगपाणं पुप्फफलं अणेसणिजं गिहत्थकिच्चाई । अजया पडिसेवंती" जइवेसविडंबगा नवरं ॥ १३ ॥ इति गाथा समाचार्यते । तदपयशः श्रुत्वा वृद्धवादी कृपया तं निस्तारयितुमेकाकीभूय गच्छं वृषभेषु न्यस्य तत्रागतः । द्वारे स्थितः । सूरीणामग्रे कथापयति द्वास्थैः । यथा-वादी 30 1C भक्ष्यते; D भक्ते। 2 P कोटीं। 3 AP मिष्टगोष्ठी। 4 BC 'भवद्' नास्ति । 5AP स्त्रीणां। 6 AC सूर्यद। 7A निचंतो; C निचंतो; D निजतो। 8 B सुक्खो। 9 AD हुड्डाहुंई। 10 BCD सेहती। 11 P तत्र गतः । ३ प्र० को Jain Education Interational www.jainelibrary.org For Private & Personal Use OnlyPage Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176