Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 41
________________ प्रबन्धकोशे एको ज्यायानायातोऽस्ति । मध्ये सूरिभिराहूतः । पुर उपवेशितः । वस्त्रावगुण्ठितसर्वकायो वृद्धवादी वदति । व्याख्याहि ४०. अणफुल्लिये फुल्ल म तोडहिं मा रोवा मोडहिं । मणकुसुमेहिं अचि निरंजणु हिंडहि काई वर्णण वणु ॥१४॥ सिद्धसेनश्चिन्तयन्नपि न वेत्यर्थम् । ततो ध्यायति-किमेते में गुरवो वृद्धवादिनः येषां 5 भणितिमहमपि व्याख्यातुं न शक्नोमि । पुनः पुनः पश्यता उपलक्षिता गुरवः । पादयोः प्रणम्यक्षामिताः, पद्यार्थ पृष्टाः।तेऽथ व्याचक्षिरे । यथा-'अणफुल्लियफुल्ल' प्राकृतस्यानन्तत्वात् अप्राप्तफलानि पुष्पाणि मा त्रोटय । को भावः ?-योगः कल्पद्रुमः । कथम् ?-यस्मिन्मूलं यमनियमाः, ध्यानं प्रकाण्डप्रायम्, स्कन्धश्रीः समता, कवित्व-वक्तृत्व-यशः प्रताप-मारण-स्तम्भनो चाटन-वशीकरणादिसामर्थ्यानि पुष्पाणि, केवलज्ञानं फलम् । अद्यापि योगकल्पद्रुमस्य पुष्पा10 ण्युद्गतानि सन्ति; तत्केवलफलेन तु पुरः फलिष्यन्ति । तान्यप्राप्तफलान्येव किमिति त्रोटयसि मा त्रोटय इति भावः। 'मा रोवा मोडहिं' इह रोपाः पञ्चमहाव्रतानि तानि मा मोटय। मन:कुसुमैर्निरञ्जनं जिनं पूजय । वनादनं किं हिंडसे-राजसेवादीनि कृच्छ्राणि विरसफलानि कथं करोषि; इति पदार्थः । ततो वादी तां गुरुशिक्षा मूर्ध्नि धृत्वा राजानमापृच्छय वृद्धवाविना सह निबिडचारित्रधरो विजहार । अपरापरगुरुभ्यः पूर्वगतश्रुतानि लेभे । वृद्धवादी यां गतः। 15६२६) एकदा सिद्धसेनः सङ्घ मेलयित्वाह स्म-सकलानप्यागमानहं संस्कृतान्करोमि, यदि आदिशथ । ततः सङ्घो वदति स्म-किं संस्कृतं कर्तुं न जानन्ति श्रीमन्तस्तीर्थकरा गणधरा वा । यदर्धमागधेनांगमानकृषत? । तदेवं जल्पतस्तव महत्प्रायश्चित्तमापन्नम् । किमेतत्तवाने कथ्यते ?, खयमेव जाननसि । ततो विमृश्याभिदधेऽसौ-सङ्घोऽवधारयतु, अहमाश्रितमौनो द्वादशवार्षिकं पाराश्चिकं नाम प्रायश्चित्तं गुप्तमुखवस्त्रिकारजोहरणादिलिङ्गः प्रकटितावधूतरूपश्च20 रिष्याम्युपयुक्तः । एवमुक्त्वा गच्छं मुत्तवा ग्रामनगरादिषु पर्यटन द्वादशे वर्षे श्रीमदुज्जयिन्यां महाकालप्रासादे शेफालिकाकुसुमरञ्जिताम्बरालङ्कृतशरीरः समागत्यासांचके । ततः-देवं कथं न नमसि ? इति लोकैर्जल्प्यमानोऽपि नाजल्पत् । एवं च जनपरम्परया श्रुत्वा विक्रमादित्यदेवः समागत्य जल्पयांचकार-क्षीरलिलिक्षो! भिक्षों! किमिति त्वया देवो न वन्द्यते। ततस्तु [राजानं प्रति ] इदमवादि वादिना-मया नमस्कृते देवें लिङ्गभेदो भवतामप्रीतये भविष्यति । 25 राज्ञोचे-भवतु, क्रियतां नमस्कारः। तेनोक्तम्-श्रूयतां तर्हि । ततः पद्मासनेन भूत्वा द्वात्रिंशद्द्वात्रिंशिकाभिर्देवं स्तोतुमुपचक्रमे । तथाहि ४१. स्वयम्भुवं भूतसहस्रनेत्रमनेकमेकाक्षरभावलिङ्गम् । __अव्यक्तमव्याहतविश्वलोकमनादिमध्यान्तमपुण्यपापम् ॥ १५ ॥ इत्यादि ['श्रीवीरद्वात्रिंशद्वात्रिंशिका कृता । परं तस्मात्तादृक्षं चमत्कारमनालोक्य पश्चात् 30 श्रीपार्श्वनाथद्वात्रिंशिकामभिकतुं कल्याणमन्दिरस्तवं चक्रे ] प्रथमश्लोके एव प्रासादस्थितात् शिखिशिखाग्रादिव लिङ्गामवर्तिरुदतिष्ठत् । ततो जनैर्वचनमिदमूचे-अष्टवियेशाधीशः __ 1 AB अणहुलियं। 2 B मन मारोवा। 3 AC हिंडयं; P हिंडइ। 4 P नास्ति 'कांई। 5 B संस्कृतमयान् । 6 B मागधिना। 7 B नास्ति । 8 केवलं P पुस्तक एवैतत्पदं दृश्यते। 9AP नास्ति 'देवे। 10 P नास्ति । एषः कोष्ठकान्तर्गतः पाठः P पुस्तके एवोपलभ्यते नान्यत्र, प्रक्षिप्तप्राय एषः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176