Book Title: Prabandh kosha Author(s): Rajshekharsuri, Jinvijay Publisher: Singhi Jain GyanpithPage 46
________________ मल्लवादिप्रबन्धः। २३ बौद्धैर्मुधा जगजग्धं प्रतिमल्लोऽहमुत्थितः । अप्रमादी मल्लवादी त्वदीयो भगिनीसुतः॥४६॥ शिलादित्यनुपोपान्ते बौद्धाचार्येण वाग्मिना । वादिवृन्दारकश्चके तर्कबर्करमुल्षणम् ॥४७॥ मल्लवादिनि जल्पाके नयचक्रबलोल्बणे । हृदये हारयामास षण्मासान्ते स शाक्यराट् ॥४८॥ षण्मासान्तनिशायां स खं निशान्तमुपेयिवान् । तर्कपुस्तकमाकृष्य कोशात्किञ्चिदवाचयत् ॥४९॥ चिन्ताचक्रहते चित्ते नार्थीस्तान्धर्जुमीश्वरः । बौद्धः स चिन्तयामास प्रातस्तेजोवधो मम ॥५०॥ 5 श्वेताम्बरस्फुलिङ्गस्य किश्चिदन्यदहो! महः । निर्वासयिष्यन्तेऽमी हा! बौद्धाः साम्राज्यशालिनः॥ ५२. धन्यास्ते ये न पश्यन्ति देशभङ्ग कुलक्षयम् । परहस्तगतां भार्यां मित्रं चापदि संस्थितम् ॥ ५२॥ *इति दुःखौघसंघद्याद्विदद्रे तस्य हृत्क्षणात् । नृपाहानं समायातं प्रातस्तस्य द्रुतं द्रुतम् ॥५३॥ मोदूघाटयन्ति तच्छिष्या गृहद्वारं वराककाः । मन्दो गुरुर्नाद्य भूपसभामेतेति भाषिणः॥५४॥ तद्गत्वा तत्र तैरुक्तं श्रुत्वा तन्मल्ल उल्लसन् । अवोचच्च शिलादित्यं मृतोऽसौ शाक्यराट्र शुचा ॥10 स्वयं गत्वा शिलादित्यस्तं तथास्थमलोकत । बौद्धान्प्रावासयद्देशाद्धिक प्रतिष्ठाच्युतं नरम् ॥५६॥ मल्लवादिनमाचार्य कृत्वा वागीश्वरं गुरुम् । विदेशेभ्यो जैनमुनीन् सर्वानाजूहवन्नुपः ॥७॥ शत्रुञ्जये जिनाधीशं भवपञ्जरभञ्जनम् । कृत्वा श्वेताम्बरायत्तं यात्रां प्रावर्तयन्नृपः॥५८॥ ६३१) कालान्तरे तत्र पुरे रङ्को नामाभवद्वणिक् । तस्य कापर्टिको हट्टे न्यासीचक्रे महारसम् ॥ ५९॥ रसेन तेन स्पृष्टस्य लोहस्य तपनीयताम् । स दृष्ट्वा हद्दसदनपरावर्त चकार च ॥६०॥ पञ्चयित्वा कार्पटिकं रङ्कः सोऽभून्महाधनः । तत्पुत्र्या राजपुच्याश्च सख्यमासीत्परस्परम् ॥६१॥ मी कातिकामेकां दिव्यरत्नविभाषिताम। रङ्कपुत्रीकरे दृष्टा याचते स्म नृपात्मजा॥१२॥ तां न दत्ते पुना रङ्को राजा तं याचते बलात् । तेनैव मत्सरेणासौ म्लेच्छसैन्यमुपानयत् ॥६३॥ भन्ना पूर्वलभी तेन सञ्जातमसमञ्जसम् । शिलादित्यः क्षयं नीतो वणिजा स्फीतऋद्धिना ॥ ६४ ॥20 ततोऽथाकृष्य वणिजा प्रक्षिप्ताश्च रणे शकाः । तृष्णया ते स्वयं मद्महतो व्याधिर्महानयम्॥६५॥ विक्रमादित्यभूपालात्पश्चर्षित्रिक(५७३)वत्सरे । जातोऽयं वलभीभङ्गो ज्ञानिनः प्रथमं ययुः ॥६६॥ खवर्त्मना गतान्यहदिम्बानि विषयान्तरम् । देवताधिष्ठितानां हि चेष्टा सम्भविनी तथा॥३७॥ एतच्च प्रथमं ज्ञात्वा मल्लवादी महामुनिः । सहितः परिवारेण पञ्चासरपुरीमगात् ॥ १८॥ नागेन्द्रगच्छसत्केषु धर्मस्थानेष्वभूत्पभुः । श्रीस्तम्भनकतीर्थेऽपि सङ्घस्तस्येशतामधात् ॥ ६९ ।। 25 श्रीमल्लवादिचरितं जिनशासनीयतेजःसमुन्नतिपवित्रमिदं निशम्य। भव्याः ! कवित्ववचनादिविचित्रलब्धिवातैः"प्रभावयत शासनमार्हतं भोः ॥७॥ ॥ इति श्रीमल्लवादिचरित्रम् ॥७॥ 15 1 B अप्रवादी; D अप्रमादो। 2 P बर्बर। 3P नयतर्क०। * एषः श्लोकः B आदर्श नोपलभ्यते। 4 B सः। 5P हैमीकानीका। 6 A ततोऽप्याकृष्य। 7 ACD रिणे; P अरिणे। 8C शिकाः। 9P मृत्वा। 10 ACD सम्भाविनी। 11 B.प्रास्या । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176