________________
मल्लवादिप्रबन्धः।
२३
बौद्धैर्मुधा जगजग्धं प्रतिमल्लोऽहमुत्थितः । अप्रमादी मल्लवादी त्वदीयो भगिनीसुतः॥४६॥ शिलादित्यनुपोपान्ते बौद्धाचार्येण वाग्मिना । वादिवृन्दारकश्चके तर्कबर्करमुल्षणम् ॥४७॥ मल्लवादिनि जल्पाके नयचक्रबलोल्बणे । हृदये हारयामास षण्मासान्ते स शाक्यराट् ॥४८॥ षण्मासान्तनिशायां स खं निशान्तमुपेयिवान् । तर्कपुस्तकमाकृष्य कोशात्किञ्चिदवाचयत् ॥४९॥ चिन्ताचक्रहते चित्ते नार्थीस्तान्धर्जुमीश्वरः । बौद्धः स चिन्तयामास प्रातस्तेजोवधो मम ॥५०॥ 5 श्वेताम्बरस्फुलिङ्गस्य किश्चिदन्यदहो! महः । निर्वासयिष्यन्तेऽमी हा! बौद्धाः साम्राज्यशालिनः॥
५२. धन्यास्ते ये न पश्यन्ति देशभङ्ग कुलक्षयम् । परहस्तगतां भार्यां मित्रं चापदि संस्थितम् ॥ ५२॥ *इति दुःखौघसंघद्याद्विदद्रे तस्य हृत्क्षणात् । नृपाहानं समायातं प्रातस्तस्य द्रुतं द्रुतम् ॥५३॥ मोदूघाटयन्ति तच्छिष्या गृहद्वारं वराककाः । मन्दो गुरुर्नाद्य भूपसभामेतेति भाषिणः॥५४॥ तद्गत्वा तत्र तैरुक्तं श्रुत्वा तन्मल्ल उल्लसन् । अवोचच्च शिलादित्यं मृतोऽसौ शाक्यराट्र शुचा ॥10 स्वयं गत्वा शिलादित्यस्तं तथास्थमलोकत । बौद्धान्प्रावासयद्देशाद्धिक प्रतिष्ठाच्युतं नरम् ॥५६॥ मल्लवादिनमाचार्य कृत्वा वागीश्वरं गुरुम् । विदेशेभ्यो जैनमुनीन् सर्वानाजूहवन्नुपः ॥७॥ शत्रुञ्जये जिनाधीशं भवपञ्जरभञ्जनम् । कृत्वा श्वेताम्बरायत्तं यात्रां प्रावर्तयन्नृपः॥५८॥ ६३१) कालान्तरे तत्र पुरे रङ्को नामाभवद्वणिक् ।
तस्य कापर्टिको हट्टे न्यासीचक्रे महारसम् ॥ ५९॥ रसेन तेन स्पृष्टस्य लोहस्य तपनीयताम् । स दृष्ट्वा हद्दसदनपरावर्त चकार च ॥६०॥ पञ्चयित्वा कार्पटिकं रङ्कः सोऽभून्महाधनः । तत्पुत्र्या राजपुच्याश्च सख्यमासीत्परस्परम् ॥६१॥
मी कातिकामेकां दिव्यरत्नविभाषिताम। रङ्कपुत्रीकरे दृष्टा याचते स्म नृपात्मजा॥१२॥ तां न दत्ते पुना रङ्को राजा तं याचते बलात् । तेनैव मत्सरेणासौ म्लेच्छसैन्यमुपानयत् ॥६३॥ भन्ना पूर्वलभी तेन सञ्जातमसमञ्जसम् । शिलादित्यः क्षयं नीतो वणिजा स्फीतऋद्धिना ॥ ६४ ॥20 ततोऽथाकृष्य वणिजा प्रक्षिप्ताश्च रणे शकाः । तृष्णया ते स्वयं मद्महतो व्याधिर्महानयम्॥६५॥ विक्रमादित्यभूपालात्पश्चर्षित्रिक(५७३)वत्सरे । जातोऽयं वलभीभङ्गो ज्ञानिनः प्रथमं ययुः ॥६६॥ खवर्त्मना गतान्यहदिम्बानि विषयान्तरम् । देवताधिष्ठितानां हि चेष्टा सम्भविनी तथा॥३७॥ एतच्च प्रथमं ज्ञात्वा मल्लवादी महामुनिः । सहितः परिवारेण पञ्चासरपुरीमगात् ॥ १८॥ नागेन्द्रगच्छसत्केषु धर्मस्थानेष्वभूत्पभुः । श्रीस्तम्भनकतीर्थेऽपि सङ्घस्तस्येशतामधात् ॥ ६९ ।। 25
श्रीमल्लवादिचरितं जिनशासनीयतेजःसमुन्नतिपवित्रमिदं निशम्य। भव्याः ! कवित्ववचनादिविचित्रलब्धिवातैः"प्रभावयत शासनमार्हतं भोः ॥७॥
॥ इति श्रीमल्लवादिचरित्रम् ॥७॥
15
1 B अप्रवादी; D अप्रमादो। 2 P बर्बर। 3P नयतर्क०। * एषः श्लोकः B आदर्श नोपलभ्यते। 4 B सः। 5P हैमीकानीका। 6 A ततोऽप्याकृष्य। 7 ACD रिणे; P अरिणे। 8C शिकाः। 9P मृत्वा। 10 ACD सम्भाविनी। 11 B.प्रास्या ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org